संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ३|पाद १| खण्ड ३३ पाद १ खण्ड ३१ खण्ड ३२ खण्ड ३३ खण्ड ३४ खण्ड ३५ खण्ड ३६ पाद १ - खण्ड ३३ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ३३ Translation - भाषांतर १ - ८ - उत्तरयोः विग्रहेण विशेषासम्प्रत्ययात् नित्यग्रहणानर्थक्यम् ।२ - ८ - उत्तरयोः योगयोः विग्रहेण विशेषासम्प्रत्ययात् नित्यग्रहणानर्थक्यम् ।३ - ८ - न हि कुटिलम् क्रामति इति चङ्क्रम्यते इति गम्यते ।४ - ८ - अथे एतेभ्यः क्रियासमभिहारे यङा भवितव्यम् ।५ - ८ - क्रियासमभिहारे च न एतेभ्यः ।६ - ८ - क्रियासमभिहारे च न एतेभ्यः यङा भवितव्यम् ।७ - ८ - भृशम् जपति ब्राह्मणः ।८ - ८ - भृशम् समिदः दहति इति एव.१ - २५ - सत्याप इति किम् निपात्यते ।२ - २५ - सत्यस्य कृञि आपुक् च । सत्यस्य कृञि आपुक् च निपात्यते णिच् च ।३ - २५ - सत्यम् करोति सत्यापयति ।४ - २५ - अत्यल्पम् इदम् उच्यते ।५ - २५ - णिविदौ अर्थवेदसत्यानाम् अपुक् च ।६ - २५ - णिविदौ अर्थवेदसत्यानाम् अपुक् च इति वक्तव्यम् ।७ - २५ - अर्थापयति वेदापयति सत्यापयति ।८ - २५ - यदि आपुक् क्रियते टिलोपः प्राप्नोति ।९ - २५ - एवम् तर्हि पुक् करिष्यते ।१० - २५ - एवम् अपि टिलोपः प्राप्नोति ।११ - २५ - एवम् तर्हि आक् करिष्यते ।१२ - २५ - एवम् अपि टिलोपः प्राप्नोति ।१३ - २५ - एवम् तर्हि अक् करिष्यते ।१४ - २५ - एवम् अपि अनाकारान्तत्वात् पुक् न प्राप्नोति ।१५ - २५ - एवम् तर्हि अपुट् करिष्यते ।१६ - २५ - अथ वा पुनः अस्तु आपुक् एव ।१७ - २५ - ननु च उक्तम् ।१८ - २५ - टिलोपः प्राप्नोति इति ।१९ - २५ - आपुग्वचनसामर्थ्यात् न भविष्यति ।२० - २५ - अथ वा पुनः अस्तु पुक् एव ।२१ - २५ - ननु च उक्तम् एवम् अपि टिलोपः प्राप्नोति इति ।२२ - २५ - पुग्वचनसामर्थ्यात् न भविष्यति ।२३ - २५ - अथ वा पुनः अस्तु आक् एव ।२४ - २५ - ननु च उक्तम् एवम् अपि टिलोपः प्राप्नोति इति ।२५ - २५ - आग्वचनसामर्थ्यात् न भविष्यति ।१ - ७० - कथम् इदम् विज्ञायते ।२ - ७० - हेतुमति अभिधेये णिच् भवति इति ।३ - ७० - आहोस्वित् हेतुमति यः धातुः वर्तते इति ।४ - ७० - युक्तम् पुनः इदम् विचारयितुम् ।५ - ७० - ननु अनेन असन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम् यावता हेतुमति इति उच्यते ।६ - ७० - यदि हि प्रकृतर्थविशेषणम् स्यात् हेतुमतः इति एवम् ब्रूयात् ।७ - ७० - न एतत् अस्ति ।८ - ७० - भवन्ति इह हि विषयसप्तम्यः अपि ।९ - ७० - तत् यथा ।१० - ७० - प्रमाणे यत् प्रातिपदिकम् वर्तते स्त्रियाम् यत् प्रातिपदिकम् वर्तते इति ।११ - ७० - एवम् इह अपि हेतुमति अभिधेये णिच् भवति हेतुमति यः धातुः वर्तते इति जायते विचारणा ।१२ - ७० - अत उत्तरम् पठति ।१३ - ७० - हेतुमति इति कारकोपादानम् प्रत्ययार्थपरिग्रहार्थम् यथा तनूकरणे तक्षः ।१४ - ७० - हेतुमति इति कारकम् उपादीयते ।१५ - ७० - किम् प्रयोजनम् ।१६ - ७० - प्रत्ययार्थपरिग्रहार्थम् ।१७ - ७० - एवम् सति प्रत्ययार्थः सुपरिगृहीतः भवति ।१८ - ७० - यथा तनूकरणे तक्षः इति तनूकरणम् उपादीयते ।१९ - ७० - यदि तर्हि तद्वत् प्रकृत्यर्थविशेषणम् भवति ।२० - ७० - प्रकृत्यर्थविशेषणम् हि तत् तत्र विज्ञायते ।२१ - ७० - तनूकरणक्रियायाम् तक्षः इति ।२२ - ७० - अस्तु प्रकृत्यर्थविशेषणम् ।२३ - ७० - कः दोषः ।२४ - ७० - इह हि उक्तः करोति प्रेषितः करोति इति णिच् प्राप्नोति ।२५ - ७० - प्रत्ययार्थविशेषणे पुनः सति न एषः दोषः ।२६ - ७० - स्वशब्देन उक्तत्वात् न भविष्यति ।२७ - ७० - प्रकृत्यर्थविशेषणे अपि सति न एषः दोषः ।२८ - ७० - यत्र न अन्तरेण शब्दम् अर्थस्य गतिः भवति तत्र शब्दः प्रयुज्यते ।२९ - ७० - यत्र हि अन्तरेण अपि शब्दम् अर्थस्य गतिः भवति न तत्र शब्दः प्रयुज्यते ।३० - ७० - इह तर्हि पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति उभयोः कर्त्रोः लेन अभिधानम् प्राप्नोति ।३१ - ७० - प्रत्ययार्थविशेषणे पुनः सति न दोषः ।३२ - ७० - प्रधानकर्तरि लादयः भवन्ति इति प्रधानकर्ता लेन अभिधीयते ।३३ - ७० - यः च अप्रधानम् सिद्ध तत्र कर्तरि इति एव तृतीया ।३४ - ७० - इह च गमितः ग्रामम् देवदत्तः यज्ञदत्तनेअ इति अव्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थानाम् कर्तरि इति कर्तरि क्तः प्राप्नोति ।३५ - ७० - इह च व्यतिभेदयन्ते व्यतिच्छेदयन्ते इति अव्यतिरिक्तः हिंसार्थः इति कृत्वा न गतिहिंसार्थेभ्यः इति प्रतिषेधः प्राप्नोति ।३६ - ७० - अस्तु तर्हि प्रत्ययार्थविशेषणम् ।३७ - ७० - यदि प्रत्ययार्थविशेषणम् पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति ।३८ - ७० - भवति हि तस्य तस्मिन् ईप्सा ।३९ - ७० - इह च ग्रामम् गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः ।४० - ७० - इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति ।४१ - ७० - इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति ।४२ - ७० - इह च अभिषावयति परिषावयति इति व्यतिरिक्तः सुनोत्यर्थः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति ।४३ - ७० - न एषः दोषः ।४४ - ७० - यत् तावत् उच्यते पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति इति ।४५ - ७० - गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि इति एतत् नियमार्थम् भविष्यति ।४६ - ७० - एतेषाम् एव अण्यन्तानाम् यः कर्ता सः णौ कर्मसञ्ज्ञः भवति न अन्येषाम् इति ।४७ - ७० - यत् अपि उच्यते इह च ग्रामम् गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः इति ।४८ - ७० - न असौ एवम् प्रेष्यते गच्छ ग्रामम् इति ।४९ - ७० - कथम् तर्हि ।५० - ७० - साधनविशिष्टाम् असौ क्रियाम् प्रेष्यते ।५१ - ७० - ग्रामम् गच्छ ।५२ - ७० - ग्रामाय गच्छ इति ।५३ - ७० - यत् अपि उच्यते इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति इति ।५४ - ७० - न असौ एवम् प्रेष्यते उपस्कुरुष्व एधोदकस्य इति ।५५ - ७० - कथम् तर्हि ।५६ - ७० - साधनविशिष्टाम् असौ क्रियाम् प्रेष्यते ।५७ - ७० - एधोदकस्य उपस्कुरुष्व इति ।५८ - ७० - यत् अपि उच्यते इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति इति ।५९ - ७० - उक्तम् तत्र कृद्ग्रहणस्य प्रयोजनम् कर्तृभूतपूर्वमात्रे अपि षष्ठी यथा स्यात् इति ।६० - ७० - यत् अपि उच्यते इह च अभिषावयति परिषावयति इति व्यतिरिक्तः सुनोत्यर्थः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति इति ।६१ - ७० - न असौ एवम् प्रेष्यते सुनु अभि इति ।६२ - ७० - कथम् तर्हि उपसर्गविशिष्टाम् असौ क्रियाम् प्रेष्यते ।६३ - ७० - अभिषुनु इति ।६४ - ७० - युक्तम् पुनः इदम् विचारयितुम् ।६५ - ७० - ननु अनेन असन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम् यावता व्यक्तम् अर्थान्तरम् गम्यते पचति पाचयति इति च ।६६ - ७० - बाढम् युक्तम् ।६७ - ७० - इह पचेः कः प्रधानार्थः ।६८ - ७० - या असौ तण्डुलानाम् विक्लित्तिः ।६९ - ७० - अथ इदानीम् तदभिसन्धिपूर्वकम् प्रेषणम् अध्येषणम् वा ।७० - ७० - युक्तम् यत् सर्वम् पच्यर्थः स्यात् ।१ - १६ - हेतुनिर्देशः च निमित्तमात्रम् बिक्षादिषु दर्शनात् ।२ - १६ - हेतुनिर्देशः च निमित्तमात्रम् द्रष्टव्यम् ।३ - १६ - यावत् ब्रूयात् निमित्तम् कारणम् इति ताव्त् हेतुः इति ।४ - १६ - किम् प्रयोजनम् ।५ - १६ - बिक्षादिषु दर्शनात् ।६ - १६ - भिक्षादिषु हि णिच् दृश्यते ।७ - १६ - भिक्षाः वासयन्ति ।कारिषः अग्निः अध्यापयति इति ।८ - १६ - किम् पुनः कारणम् पारिभाषिके हेतौ न सिध्यति ।९ - १६ - एवम् मन्यते ।१० - १६ - चेतनावतः एतत् भवति प्रेषणम् अध्येषणम् च इति ।११ - १६ - भिक्षाः च अचेतनाः ।१२ - १६ - न एषः दोषः ।१३ - १६ - न अवश्यम् सः एव वासम् प्रयोजयति यः आह उष्यताम् इति ।१४ - १६ - तूष्णीम् आसीनः यः तत्समर्थानि आचरति सः अपि वासम् प्रयोजयति ।१५ - १६ - भिक्षाः च अपि प्रचुराः व्यञ्जनवत्यः लभ्यमानाः वासम् प्रयोजयन्ति ।१६ - १६ - तथा कारीषः अग्निः निर्वाते एकान्ते सुप्रज्वलितः अध्ययनम् प्रयोजयति ।१ - २८ - इह कः चित् कम् चित् आह ।२ - २८ - पृच्छतु मा भवान् ।३ - २८ - अनुयुङ्क्ताम् मा भवान् इति ।४ - २८ - अत्र णिच् कस्मात् न भवति ।५ - २८ - अकर्तृत्वात् ।६ - २८ - न हि असौ सम्प्रति पृच्छति ।७ - २८ - तूष्णीम् आस्ते ।८ - २८ - किम् च भोः वर्तमानकालायाः एव क्रियायाः कर्त्रा भवितव्यम् न भूतभविष्यत्कालायाः ।९ - २८ - भूतभविष्यत्कालायाः अपि भवितव्यम् ।१० - २८ - अभिसम्बन्धः तत्र क्रियते ।११ - २८ - इमाम् क्रियाम् अकार्षीत् ।१२ - २८ - इमाम् क्रियाम् करिष्यति इति ।१३ - २८ - इह पुनः न कः चित् अभिसम्बन्धः क्रियते न च असौ सम्प्रति पृच्छति ।१४ - २८ - तूष्णीम् आस्ते ।१५ - २८ - यदि तर्हि कर्ता न अस्ति कथम् तर्हि कर्तृप्रत्ययेन लोटा अभिधीयते ।१६ - २८ - अथम् कथम् अस्मिन् अपृच्छति अयम् प्रच्छिः वर्तते ।१७ - २८ - अभिसम्बन्धः तत्र क्रियते ।१८ - २८ - इमाम् क्रियाम् कुरु इति ।१९ - २८ - कर्त्रा अपि तर्हि अभिसम्बन्धः क्रियते ।२० - २८ - कथम् ।२१ - २८ - कर्ता च अस्याः क्रियायाः भव इति ।२२ - २८ - एवम् न च कर्ता कर्तृप्रत्ययेन च लोटा अभिधीयते ।२३ - २८ - अथ अपि कथम् चित् कर्ता स्यात् ।२४ - २८ - एवम् अपि न दोषः ।२५ - २८ - लोटा उक्तत्वात् प्रेषणस्य णिच् न भविष्यति ।२६ - २८ - विधीयन्ते हि एतेषु अर्थेषु प्रैषादिषु लोडादयः ।२७ - २८ - यत्र च द्वितीयः प्रयोज्यः अर्थः भवति भवति तत्र णिच् ।२८ - २८ - तत् यथा आसय शायय इति ।१ - ३३ - कृष्यादिषु च अनुत्पत्तिः ।२ - ३३ - कृष्यादिषु च अनुत्पत्तिः वक्तव्या ।३ - ३३ - एकान्ते तूष्णीम् आसीनः उच्यते पञ्चभिः हलैः कृषति इति ।४ - ३३ - तत्र भवितव्यम् ।५ - ३३ - पञ्चभिः हलैः कर्षयति इति ।६ - ३३ - कृष्यादिषु च अनुत्पत्तिः नानाक्रियाणाम् कृष्यर्थत्वात् ।७ - ३३ - कृष्यादिषु च अनुत्पत्तिः सिद्धा ।८ - ३३ - कुतः ।९ - ३३ - नानाक्रियाणाम् कृष्यर्थत्वात् ।१० - ३३ - नानाक्रियाः कृषेः अर्थाः ।११ - ३३ - न अवश्यम् कृषिः विलेखने एव वर्तते ।१२ - ३३ - किम् तर्हि. प्रतिविधाने अपि वर्तते ।१३ - ३३ - यत् असौ भक्तबीजबलीवर्दैः प्रतिविधानम् करोति सः कृष्यर्थः ।१४ - ३३ - आतः च प्रतिविधाने वर्तते ।१५ - ३३ - यदहः एव असौ न प्रतिविधत्ते तदहः तत् कर्म न प्रवर्तते ।१६ - ३३ - यज्यादिषु च अविपर्यासः ।१७ - ३३ - यज्यादिषु च अविपर्यासः वक्तव्यः ।१८ - ३३ - पुष्यमित्रः यजते ।१९ - ३३ - याजकाः याजयन्ति इति ।२० - ३३ - तत्र भवितव्यम् ।२१ - ३३ - पुष्यमित्रः याजयते ।२२ - ३३ - याजकाः यजन्ति इति ।२३ - ३३ - यज्यादिषु च अविपर्यासः नानाक्रियाणाम् यज्यर्थत्वात् ।२४ - ३३ - यज्यादिषु च अविपर्यासः सिद्धः ।२५ - ३३ - कुतः ।२६ - ३३ - नानाक्रियाणाम् यज्यर्थत्वात् ।२७ - ३३ - नानाक्रियाः यजेः अर्थाः ।२८ - ३३ - न अवश्यम् यजिः हविष्प्रक्षेपणे एव वर्तते ।२९ - ३३ - किम् तर्हि ।३० - ३३ - त्यागे अपि वर्तते ।३१ - ३३ - अहो यजते इति उच्यते यः सुष्ठु त्यागम् करोति ।३२ - ३३ - तम् च पुष्यमित्रः करोति ।३३ - ३३ - याजकाः प्रयोजयन्ति ।१ - १२ - तत् करोति इति उपसङ्ख्यानम् सूत्रयत्याद्यर्थम् ।२ - १२ - तत् करोति इति उपसङ्ख्यानम् कर्तव्यम् ।३ - १२ - किम् प्रयोजनम् ।४ - १२ - सूत्रयत्याद्यर्थम् ।५ - १२ - सूत्रम् करोति ।६ - १२ - सूत्रयति ।७ - १२ - इह व्याकरणस्य सूत्रम् करोति ।८ - १२ - व्याकरणम् सूत्रयति इति ।९ - १२ - वाक्ये षष्ठी उत्पन्ने च प्रत्यये द्वितीया ।१० - १२ - केन एतत् एवम् भवति ।११ - १२ - यः असौ सूत्रव्याकरणयोः अभिसम्बन्धः सः उत्पन्ने प्रत्यये निवर्तते ।१२ - १२ - अस्ति च करोतेः व्याकरणेन सामर्थ्यम् इति कृत्वा द्वितीया भविष्यति ।१ - ८० - आख्यानात् कृतः तत् आचष्टे इति कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् । आख्यानात् कृदन्तात् तत् आचष्टे इति एतस्मिन् अर्थे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति वक्तव्यम् ।२ - ८० - कंसवधम् आचष्टे कंसम् घातयति ।३ - ८० - बलिबन्धम् आचष्टे बलिम् बन्धयति ।४ - ८० - आख्यानात् च प्रतिषेधः ।५ - ८० - आख्यानशब्दात् च प्रतिषेधः वक्तव्यः ।६ - ८० - आख्यानम् आचष्टे ।७ - ८० - किम् पुनः यानि एतानि सञ्ज्ञाभूतानि आख्यानानि ततः उत्पत्त्या भवितव्यम् आहोस्वित् क्रियान्वाख्यानमात्रात् ।८ - ८० - किम् च अतः ।९ - ८० - यदि सञ्ज्ञाभूतेभ्यः इह न प्राप्नोति ।१० - ८० - राजागमनम् आचष्टे ऋअजानम् आगमयति ।११ - ८० - अथ क्रियान्वाख्यानमात्रात् न दोषः भवति ।१२ - ८० - यथा न दोषः तथा अस्तु ।१३ - ८० - दृश्यर्थानाम् च प्रवृत्तौ ।१४ - ८० - दृश्यर्थानाम् च प्रवृत्तौ कृदन्तात् णिच् वक्तयः तत् आचष्टे इति एतस्मिन् अर्थे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।१५ - ८० - मृगरमणम् आचष्टे मृगान् रमयति इति ।१६ - ८० - दृश्यर्थानाम् इति किमर्थम् ।१७ - ८० - यदा हि ग्रामे मृगरमणम् आचष्टे मृगरमणम् आचष्टे इति एव तदा भवति इति ।१८ - ८० - आङ्लोपः च कालात्यन्तसंयोगे मर्यादायाम् ।१९ - ८० - कालात्यन्तसंयोगे मर्यादयाम् कृदन्तात् णिच् वक्तयः तत् आचष्टे इति एतस्मिन् अर्थे आङ्लोपः च कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।२० - ८० - आरात्रिम्विवासम् आचष्टे रात्रिम् विवासयति इति ।२१ - ८० - चित्रीकरणे प्रापि ।२२ - ८० - चित्रीकरणे प्राप्यर्थे कृदन्तात् णिच् वक्तयः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।२३ - ८० - उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयते सूर्यम् उद्गमयति ।२४ - ८० - नक्षत्रयोगे ज्ञि ।२५ - ८० - नक्षत्रयोगे जानात्यर्थे कृदन्तात् णिच् वक्तयः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।२६ - ८० - पुष्ययोगम् जानाति पुष्येण योजयति ।२७ - ८० - मघाभिः योजयति ।२८ - ८० - तत् तर्हि बहु वक्तव्यम् ।२९ - ८० - न वा सामान्यकृतत्वात् हेतुतः हि अविशिष्टम् ।३० - ८० - न वा वक्तव्यम् ।३१ - ८० - किम् कारणम् ।३२ - ८० - सामान्यकृतत्वात् ।३३ - ८० - सामान्येन एव अत्र णिच् भविष्यति ।३४ - ८० - हेतुमति इति ।३५ - ८० - किम् कारणम् ।३६ - ८० - हेतुतः हि अविशिष्टम् ।३७ - ८० - हेतुतः हि अविशिष्टम् भवति ।३८ - ८० - तुल्या हि हेतुता देवदत्ते च आदित्ये च ।३९ - ८० - न सिध्यति ।४० - ८० - स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते ।४१ - ८० - न च असौ आदित्यम् प्रयोजयति ।४२ - ८० - स्वतन्त्रप्रयोजकत्वात् अप्रयोजकः इति चेत् मुक्तसंशयेन तुल्यम् ।४३ - ८० - यम् भवान् स्वत्रन्त्रप्रयोजकम् मुक्तसंशयम् न्याय्यम् मन्यते पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति तेन एतत् तुल्यम् ।४४ - ८० - कथम् ।४५ - ८० - प्रवृत्तिः हि उभयत्र अनपेक्ष्य ।४६ - ८० - प्रवृत्तिः हि उभयत्र अनपेक्ष्य एव किम् चित् भवति देवदत्ते च आदित्ये च ।४७ - ८० - न इह कः चित् परः अनुग्रहीतव्यः इति प्रवर्तते ।४८ - ८० - सर्वे इमे स्वभूत्यर्थम् प्रवर्तन्ते ।४९ - ८० - ये तावत् एते गुरुशुश्रूषवः ते अपि स्वभूत्यर्थम् एव प्रवर्तन्ते पारलौकिकम् च नः भविष्यति इह च नः प्रीतः गुरुः अध्यापयिष्यति इति ।५० - ८० - तथा यत् एतत् दासकर्मकरम् नाम एते अपि स्वभूत्यर्थम् एव प्रवर्तन्तेभक्तम् चेलम् च लप्स्यामहे परिभाषाः च न नः भविष्यन्ति इति ।५१ - ८० - तथा ये एते शिल्पिनः नामे ते अपि स्वभूत्यर्थम् एव प्रवर्तन्ते वेतनम् च लप्स्यामहे मित्राणि च नः भविष्यन्ति इति ।५२ - ८० - एवम् एतेषु सर्वेषु स्वभूत्यर्थम् प्रवर्तमानेषु कुर्वतः प्रयोजकः इति चेत् तुल्यम् ।५३ - ८० - यदि कः चित् कुर्वतः प्रयोजकः नाम भवति तेन एतत् तुल्यम् ।५४ - ८० - यदि तर्हि सर्वे इमे स्वभूत्यर्थम् प्रवर्तन्तेकः प्रयोज्यार्थः ।५५ - ८० - यत् अभिप्रायेषु सज्जन्ते ।५६ - ८० - ईदृशौ वध्रौ कुरु ।५७ - ८० - ईदृशौ पटुकौ कुरु ।५८ - ८० - आदित्यः च अस्य अभिप्राये सज्जते ।५९ - ८० - एषः तस्य अभिप्रायः ।६० - ८० - उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयेय इति ।६१ - ८० - तम् च अस्य अभिप्रायम् आदित्यः निर्वर्तयति ।६२ - ८० - भवेत् इह वर्तमानकालता युक्ता ।६३ - ८० - उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयते सूर्यम् उद्गमयति इति ।६४ - ८० - तत्रस्थस्य हि तस्य आदित्यः उदेति ।६५ - ८० - इह तु कथम् वर्तमानकालताम् कंसम् घातयति बलिम् बन्धयति इति चिरहते कंसे चिरबद्धे च बलौ ।६६ - ८० - अत्र अपि युक्ता ।६७ - ८० - कथम् ।६८ - ८० - ये तावत् एते शोभिकाः नाम एते प्रत्यक्षम् कंसम् घातयन्ति प्रत्यक्षम् च बलिम् बन्धयन्ति इति ।६९ - ८० - चित्रेषु कथम् ।७० - ८० - चित्रेषु अपि उद्गूर्णाः निपतिताः च प्रहाराः दृश्यन्ते कंसकर्षण्यः च ।७१ - ८० - ग्रन्थिकेषु कथम् यत्र शब्दगडुमात्रम् लक्ष्यते ।७२ - ८० - ते अपि हि तेषाम् उत्पत्तिप्रभृति आ विनाशात् ऋद्धीः व्याचक्षाणाः सतः बुद्धिविषयान् प्रकाशयन्ति ।७३ - ८० - आतः च सतः व्यामिश्राः हि दृश्यन्ते ।७४ - ८० - के चित् कंसभक्ताः भवन्ति के चित् वासुदेवभक्ताः ।७५ - ८० - वर्णान्यत्वम् खलु अपि पुष्यन्ति ।७६ - ८० - के चित् रक्तमुखाः भवन्ति के चित् कालमुखाः ।७७ - ८० - त्रैकाल्यम् खलु अपि लोके लक्ष्यते ।७८ - ८० - गच्छ हन्यते कंसः ।७९ - ८० - गच्छ घानिष्यते कंसः ।८० - ८० - किम् गतेन हतः कंसः इति ।१ - ५९ - किमर्थः ककारः ।२ - ५९ - क्ङिति इति गुणप्रतिषेधः यथा स्यात् ।३ - ५९ - न एतत् अस्ति प्रयोजनम् ।४ - ५९ - सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते ।५ - ५९ - धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते ।६ - ५९ - न च अयम् धातोः विधीयते ।७ - ५९ - कण्ड्वादीनि हि प्रातिपदिकानि ।८ - ५९ - कण्ड्वादिभ्यः वावचनम् ।९ - ५९ - कण्ड्वादिभ्यः वा इति वक्तव्यम् ।१० - ५९ - अवचने हि नित्यप्रत्ययत्वम् ।११ - ५९ - अक्रियमाणे हि वावचने नित्यः प्रत्ययविधिः प्रसज्येत ।१२ - ५९ - तत्र कः दोषः ।१३ - ५९ - तत्र धातुविधितुक्प्रतिषेधः ।१४ - ५९ - तत्र धातुविधेः तुकः च प्रतिषेधः वक्तव्यः स्यात् ।१५ - ५९ - कण्ड्वौ कण्ड्वः ।१६ - ५९ - अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति उवङदेशः प्रसज्येत ।१७ - ५९ - इह च कण्ड्वा कण्ड्वे न ऊङ्धात्वोः इति प्रतिषेधः प्रसज्येत ।१८ - ५९ - तुक् च प्रतिषेध्यः ।१९ - ५९ - वल्गुः मन्तुः इति ।२० - ५९ - ह्रस्वस्य पिति कृति तुक् प्राप्नोति ।२१ - ५९ - ह्रस्वयलोपौ च वक्तव्यौ ।२२ - ५९ - ह्रस्वयलोपौ च वक्तव्यौ स्याताम् ।२३ - ५९ - वल्गुः मन्तुः इति ।२४ - ५९ - किमर्थम् इदम् न ह्रस्वः एव अयम् ।२५ - ५९ - अन्तरङ्गत्वात् अकृद्यकारे इति दीर्घत्वम् प्राप्नोति ।२६ - ५९ - यलोपः ।२७ - ५९ - यलोपः च वक्तव्यः ।२८ - ५९ - कण्डूः वल्गुः मन्तुः इति ।२९ - ५९ - किमर्थम् इदम् न वलि इति एव सिद्धम् ।३० - ५९ - वलि इति उच्यते ।३१ - ५९ - न च अत्र वलिम् पश्यामः ।३२ - ५९ - ननु चल् क्विप् वलादिः ।३३ - ५९ - क्विब्लोपे कृते वलाद्यभावात् न प्राप्नोति ।३४ - ५९ - इदम् इह सम्प्रधार्यम् ।३५ - ५९ - क्विब्लोपः क्रियताम् वलि लोपः इति ।३६ - ५९ - किम् अत्र कर्तव्यम् ।३७ - ५९ - परत्वात् क्विब्लोपः ।३८ - ५९ - नित्यः खलु अपि क्विब्लोपः ।३९ - ५९ - कृते अपि यलोपे प्राप्नोति अकृते अपि प्राप्नोति ।४० - ५९ - नित्यत्वात् परत्वात् च क्विलोपे कृते वलाद्यभावात् न प्राप्नोति ।४१ - ५९ - एवम् तर्हि प्रत्ययलक्षणेन भविष्यति ।४२ - ५९ - वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।४३ - ५९ - अथ क्रियमाणे अपि वावचने यदा यगन्तात् क्विप् तदा एते दोषाः कस्मात् न भवन्ति ।४४ - ५९ - न एतेभ्यः तदा क्विप् द्रक्ष्यते ।४५ - ५९ - किम् कारणम् ।४६ - ५९ - अन्येभ्यः अपि दृश्यते इति उच्यते ।४७ - ५९ - न च एतेभ्यः तदा क्विप् दृश्यते ।४८ - ५९ - यथा एव तर्हि क्रियमाणे वावचने अन्येभ्यः अपि दृश्यते इति एवम् अत्र क्विप् न भवति एवम् अक्रियमाणे अपि न भविष्यति ।४९ - ५९ - अवश्यम् एतेभ्यः तदा क्विप् एषितव्यः ।५० - ५९ - किम् प्रयोजनम् ।५१ - ५९ - एतानि रूपाणि यथा स्युः इति ।५२ - ५९ - तत् तर्हि वावचनम् कर्तव्यम् ।५३ - ५९ - न कर्तव्यम् ।५४ - ५९ - उभयम् कण्ड्वादीनि धातवः च प्रातिपदिकानि च ।५५ - ५९ - आतः च उभयम् ।५६ - ५९ - कण्डूयति इति क्रियाम् कुर्वाणे प्रयुज्यते अस्ति मे कण्डूः इति वेदनामात्रस्य सान्निध्ये ।५७ - ५९ - अपरः आह ॒ धातुप्रकरणात् धातुः कस्य आसञ्जनात् अपि ।५८ - ५९ - आह च अयम् इमम् दीर्घम् ।५९ - ५९ - मन्ये धातुः विभाषितः ।१ - ८४ - किमर्थः अयम् णकारः ।२ - ८४ - वृद्ध्यर्थः ।३ - ८४ - ञ्णिति इति वृद्धिः यथा स्यात् ।४ - ८४ - क्रियमाणे अपि वै णकारे वृद्धिः न प्राप्नोति ।५ - ८४ - किम् कारणम् ।६ - ८४ - क्ङिति च इति प्रतिषेधात् ।७ - ८४ - णित्करणसामर्थ्यात् भविष्यति ।८ - ८४ - अतः उत्तरम् पठति ।९ - ८४ - णिङि णित्करणस्य सावकाशत्वात् वृद्धिप्रतिषेधप्रसङ्गः ।१० - ८४ - णिङि णित्करणम् सावकाशम् ।११ - ८४ - कः अवकाशः ।१२ - ८४ - सामान्यग्रहणार्थः णकारः ।१३ - ८४ - क्व सामान्यग्रहणार्थेन अर्थः ।१४ - ८४ - णेः अनिटि इति ।१५ - ८४ - णिङि णित्करणस्य सावकाशत्वात् वृद्धिप्रतिषेधः प्राप्नोति ।१६ - ८४ - ङित्करणम् अपि तर्हि सावकाशम् ।१७ - ८४ - कः अवकाशः ।१८ - ८४ - सामान्यग्रहणाविघातार्थः ङकारः ।१९ - ८४ - क्व सामान्यग्रहणाविघातार्थेन अर्थः ।२० - ८४ - अत्र एव ।२१ - ८४ - शक्यः अत्र सामान्यग्रहणाविघातार्थः अन्यः अनुबन्धः आसङ्क्तुम् ।२२ - ८४ - तत्र ङकारानुरोधात् वृद्धिप्रतिषेधः प्राप्नोति ।२३ - ८४ - अवशयम् अत्र आत्मनेपदार्थः ङकारः अनुबन्धः आसङ्क्तव्यः ङितः इति आत्मनेपदम् यथा स्यात् ।२४ - ८४ - एवम् उभयोः सावकशयोः प्रतिषेधबलीयस्त्वात् प्रतिषेधः प्राप्नोति ।२५ - ८४ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न कमेः वृद्धिप्रतिषेधः भवति इति यत् अयम् न कम्यमिचमाम् इति मित्सञ्ज्ञाया प्रतिषेधम् शास्ति ।२६ - ८४ - मित्प्रतिषेधस्य च अर्थवत्त्वात् ।२७ - ८४ - मित्प्रतिषेधस्य च अर्थवत्त्वात् प्रतिषेधः प्राप्नोति ।२८ - ८४ - अर्थवान् मित्प्रतिषेधः ।२९ - ८४ - कः अर्थः ।३० - ८४ - णिङन्तस्य णिचि या वृद्धिः तस्याः ह्रस्वत्वम् मा भूत् इति ।३१ - ८४ - ननु एतस्याः अपि क्ङिति च इति प्रतिषेधेन भवितव्यम् ।३२ - ८४ - न भवितव्यम् ।३३ - ८४ - उक्तम् एतत् क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् इति ।३४ - ८४ - एवम् तर्हि न णिङन्तस्य णिचि या वृद्धिः तस्याः ह्रस्वत्वम् प्राप्नोति ।३५ - ८४ - किम् कारणम् ।३६ - ८४ - णिङा व्यवहितत्वात् ।३७ - ८४ - लोपे कृते न अस्ति व्यवधानम् ।३८ - ८४ - स्थानिवद्भावात् व्यवधानम् एव ।३९ - ८४ - णिङि एव तर्हि मा भूत् इति ।४० - ८४ - णिङि च न प्राप्नोति ।४१ - ८४ - किम् कारणम् ।४२ - ८४ - असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।४३ - ८४ - न एव वा पुनः णिङन्तस्य णिचि वृद्धिः प्राप्नोति ।४४ - ८४ - किम् कारणम् ।४५ - ८४ - णिङा व्यवहितत्वात् ।४६ - ८४ - लोपे कृते न अस्ति व्यवधानम् ।४७ - ८४ - स्थानिवद्भावात् व्यवधानम् एव ।४८ - ८४ - इदम् तर्हि प्रयोजनम् ।४९ - ८४ - यत् तत् चिण्णमुलोः दीर्घः अन्यतरस्याम् इति दीर्घत्वम् तत् कमेः णिङि मा भूत् इति ।५० - ८४ - किम् पुनः कारणम् तत्र दीर्घः अन्यतरस्याम् इति उच्यते ।५१ - ८४ - न ह्रस्वः अन्यतरस्याम् इति एव उच्येत ।५२ - ८४ - यथाप्राप्तम् च अपि कमेः ह्रस्वत्वम् एव ।५३ - ८४ - तत्र अयम् अपि अर्थः ।५४ - ८४ - ह्रस्वग्रहणम् न कर्तव्यम् भवति ।५५ - ८४ - प्रकृतम् अनुवर्तते ।५६ - ८४ - क्व प्रकृतम् ।५७ - ८४ - मिताम् ह्रस्वः इति ।५८ - ८४ - का रूपसिद्धिः ॒ अशमि अशामि शमम् शमम् शामम् शामम् ।५९ - ८४ - वृद्ध्या सिद्धम् ।६० - ८४ - न सिध्यति ।६१ - ८४ - न सिध्यति ।६२ - ८४ - न उदात्तोपदेशस्य मान्तस्य अनाचमेः इति वृद्धिप्रतिषेधः प्राप्नोति ।६३ - ८४ - चिण्कृतोः सः प्रतिषेधः न णिचि ।६४ - ८४ - इदम् तर्हि ।६५ - ८४ - अजनि अजानि जनम् जनम् जानम् जानम् ।६६ - ८४ - जनिवध्योः च इति वृद्धिप्रतिषेधः प्राप्नोति ।६७ - ८४ - सः अपि चिण्कृतोः एव ।६८ - ८४ - णिज्व्यवहितेषु तर्हि यङ्लोपे च उपसङ्ख्यानम् कर्तव्यम् स्यात् ।६९ - ८४ - शमयन्तम् प्रयोजितवान् अशमि अशामि शमम् शमम् शामम् शामम् ।७० - ८४ - शंशमयतेः अशंसमि अशंशामि शंशमम् शंशमम् शंशामम् शंशामम् ।७१ - ८४ - किम् पुनः कारणम् न सिध्यति ।७२ - ८४ - चिण्णमुल्परे णौ मिताम् अङ्गानाम् ह्रस्वः भवति इति उच्यते ।७३ - ८४ - यः च अत्र णिः चिण्णमुल्परः न तस्मिन् मित् अङ्गम् यस्मिन् च मित् अङ्गम् न असौ णिः णमुल्परः ।७४ - ८४ - णिलोपे कृते चिण्णमुल्परः ।७५ - ८४ - स्थानिवद्भावात् न चिण्णमुल्परः ।७६ - ८४ - अथ दीर्घः अन्यतरस्याम् इति उच्यमाने यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति ।७७ - ८४ - एतत् इदानीम् दीर्घग्रहणस्य प्रयोजनम् ।७८ - ८४ - दीर्घविधिम् प्रति अजादेशः न स्थानिवत् इति स्थानिवद्भावप्रतिषेधः सिद्धः भवति ।७९ - ८४ - यदा खलु अपि आयादयः आर्धधातुके वा भवन्ति तदा णिचि णिङ् न भवति ।८० - ८४ - तदर्थम् च मित्प्रतिषेधः स्यात् ।८१ - ८४ - तस्मात् प्रतिषेधः प्राप्नोति ।८२ - ८४ - उक्तम् वा ।८३ - ८४ - किम् उक्तम् ।८४ - ८४ - तद्धितकाम्योः इक्प्रकरणात् इति ।१ - ६८ - कथम् इदम् विज्ञायते ।२ - ६८ - आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति ।३ - ६८ - आहोस्वित् आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति ।४ - ६८ - किम् गतम् एतत् इयता सूत्रेणा आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।५ - ६८ - गतम् इति आह ।६ - ६८ - कथम् ।७ - ६८ - यदा तावत् आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति इति तदा अविशेषेण सर्वम् आयादिप्रकरणम् अनुक्रम्य आयादयः आर्धधातुके वा इति उच्यते ।८ - ६८ - यदा अपि आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति तदा एकम् वाक्यम् तत् च इदम् च ।९ - ६८ - गुपूधूपविच्छिपणिपनिभ्यः आयः आर्धधातुके वा ।१० - ६८ - ऋतेः ईयङ् आर्धधातुके वा ।११ - ६८ - कमेः णिङ् आर्धधातुके वा इति ।१२ - ६८ - कः च अत्र विशेषः ।१३ - ६८ - आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टप्रसङ्गः । आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टम् प्राप्नोति ।१४ - ६८ - यदि विज्ञायते आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति इति गुप्तिः जुगोप इति च इष्टम् न सिध्यति इदम् च अनिष्टम् प्राप्नोति ।१५ - ६८ - गोपाम् चकार गोपा इति च ।१६ - ६८ - इदम् तावत् इष्टम् सिद्धम् भवति ।१७ - ६८ - गोपायाम् चकार गोपाय इति ।१८ - ६८ - अथ विज्ञायते आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति गुप्तिः जुगोप इति च इष्टम् सिद्धम् भवति ।१९ - ६८ - इदम् च अनिष्टम् न प्राप्नोति ।२० - ६८ - गोपायाम् चकार गोपाय इति ।२१ - ६८ - इदम् तु इष्टम् न सिध्यति ।२२ - ६८ - गोपयाम् चकार गोपाय इति ।२३ - ६८ - इदम् तावत् इष्टम् सिध्यति ।२४ - ६८ - गोपयाम् चकार इति ।२५ - ६८ - कथम् ।२६ - ६८ - अस्तु अत्र आयादिप्रकृतेः यत् आर्धधातुकम् लिट् ।२७ - ६८ - तस्मिन् अवस्थिते वा आयादयः ।२८ - ६८ - आम् मध्ये पतिष्यति यथा विकरणाः तद्वत् ।२९ - ६८ - इदम् तर्हि इष्टम् न सिध्यति गोपाया इति ।३० - ६८ - सिद्धम् तु सार्वधातुके नित्यवचनात् अनाश्रित्य वाविधानम् ।३१ - ६८ - सिद्धम् एतत् ।३२ - ६८ - कथम्. अविशेषेण आयादीनाम् वाविधानम् उक्त्वा सार्वधातुके नित्यम् इति वक्ष्यामि ।३३ - ६८ - स्यादिबलीयस्त्वम् तु विप्रतिषेधेन तुल्यनिमित्तत्वात् ।३४ - ६८ - स्यादिभिः तु आयादीनाम् बाधनम् प्राप्नोति विप्रतिषेधेन ।३५ - ६८ - किम् कारणम् ।३६ - ६८ - तुल्यनिमित्तत्वात् ।३७ - ६८ - तुल्यम् निमित्तम् स्यादीनाम् आयादीनाम् च ।३८ - ६८ - स्यादीनाम् अवकाशः करिष्यति हरिष्यति ।३९ - ६८ - आयादीनाम् अवकाशः गोपायति धूपायति ।४० - ६८ - इह उभयम् प्राप्नोति ।४१ - ६८ - गोपायिष्यति धूपायिष्यति इति ।४२ - ६८ - परत्वात् स्यादयः प्राप्नुवन्ति ।४३ - ६८ - न वा आयादिविधानस्य अनवकाशत्वात् ।४४ - ६८ - न वा एषः दोषः ।४५ - ६८ - किम् कारणम् ।४६ - ६८ - आयादिविधानस्य अनवकाशत्वात् ।४७ - ६८ - अनवकाशाः आयादयः उच्यन्ते च ।४८ - ६८ - ते वचनात् भविष्यन्ति ।४९ - ६८ - ननु च इदानीम् एव अवकाशः प्रक्ल्̥प्तः गोपायति धूपायति इति ।५० - ६८ - अत्र अपि शप् स्यादिः भवति ।५१ - ६८ - यदि अपि अत्र अपि भवति न तु अत्र अस्ति विशेषः सति वा शपि असति वा ।५२ - ६८ - अन्यत् इदानीम् एतत् उच्यते न अस्ति विशेषः इति ।५३ - ६८ - यत् तु तत् उक्तम् आयादीनाम् स्यादिभिः अव्याप्तः अवकाशः इत् स न अस्ति अवकाशः ।५४ - ६८ - अवश्यम् खलु अपि अत्र शप् स्यादिः एषितव्यः ।५५ - ६८ - किम् कारणम् ।५६ - ६८ - गोपायन्ती धूपायन्ती इति ॒ शप्श्यनोः नित्यम् इति नुम् यथा स्यात् इति ।५७ - ६८ - यदि तर्हि अनवकाशाः आयादयः आयादिभिः स्यादीनाम् बाधनम् प्राप्नोति ।५८ - ६८ - यथा पुनः अयम् सूत्रेभेदेन परिहारः यदि पुनः शपि नित्यम् इति उच्येत ।५९ - ६८ - सिध्यति ।६० - ६८ - सूत्रम् तर्हि भिद्यते ।६१ - ६८ - यथान्यासम् एव अस्तु ।६२ - ६८ - ननु च उक्तम् आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टप्रसङ्गः इति ।६३ - ६८ - न एषः दोषः ।६४ - ६८ - आर्धधातुके इति न एषा परसप्तमी ।६५ - ६८ - का तर्हि ।६६ - ६८ - विषयसप्तमी ।६७ - ६८ - आर्धधातुकविषये इति ।६८ - ६८ - तत्र आर्धधातुकविषये आयादिप्रकृतेः आयादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।१ - ३४ - अन्तग्रहणम् किमर्थम् न सनादयः धातवः इति एव उच्येत ।२ - ३४ - केन इदानीम् तदन्तानाम् भविष्यति ।३ - ३४ - तदन्तविधिना ।४ - ३४ - अतः उत्तरम् पठति ।५ - ३४ - सनादिषु अन्तग्रहणे उक्तम् ।६ - ३४ - किम् उक्तम् ।७ - ३४ - पदसञ्ज्ञायाम् अन्तग्रहणम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति ।८ - ३४ - इदम् च अपि प्रत्ययग्रहणम् ।९ - ३४ - अयम् च अपि सञ्ज्ञाविधिः ।१० - ३४ - किमर्थम् पुनः इदम् उच्यते न भूवादयः धातवः इति एव सिद्धम् ।११ - ३४ - न सिध्यति ।१२ - ३४ - पाठेन धातुसञ्ज्ञा क्रियते न च इमे तत्र पठ्यन्ते ।१३ - ३४ - कथम् तर्हि अन्येषाम् अपठ्यमानानाम् धातुसञ्ज्ञा भवति ॒ अस्तेः भूः ।१४ - ३४ - ब्रुवः वचिः ।१५ - ३४ - चक्षिङः ख्याञ् इति ।१६ - ३४ - यदि अपि एते तत्र न पठ्यन्ते प्रकृतयः तु एषाम् तत्र पठ्यन्ते ।१७ - ३४ - तत्र स्थानिवद्भावात् सिद्धम् ।१८ - ३४ - इमे अपि तर्हि यदि अपि तत्र न पठ्यन्ते येषाम् तु अर्थाः आदिश्यन्ते ते तत्र पठ्यन्ते ।१९ - ३४ - तत्र स्थानिवद्भावात् सिद्धम् ।२० - ३४ - न सिध्यति ।२१ - ३४ - आदेशः स्थानिवत् भवति इति उच्यते ।२२ - ३४ - न च इमे आदेशाः ।२३ - ३४ - इमे अपि आदेशाः ।२४ - ३४ - कथम् ।२५ - ३४ - आदिश्यते यः सः आदेशः ।२६ - ३४ - इमे च अपि आदिश्यन्ते ।२७ - ३४ - एवम् अपि षष्ठीनिर्दिष्टस्य आदेशाः स्थानिवत् भवन्ति इति उच्यते ।२८ - ३४ - न चे इमे षष्ठीनिर्दिष्टस्य आदेशाः ।२९ - ३४ - षष्ठीग्रहणम् निवर्तिष्यते ।३० - ३४ - यदि निवर्तते अपवादे उत्सर्गकृतम् प्राप्नोति ।३१ - ३४ - कर्मणि अण् आतः अनुपसर्गे कः इति के अपि अण्कृतम् प्राप्नोति ।३२ - ३४ - न एषः दोषः ।३३ - ३४ - आचार्यप्रवृत्तिः ज्ञापयति न अपवादे उत्सर्गकृतम् भवति इति यत् अयम् श्यनादीन् कान् चित् शितः करोति ।३४ - ३४ - श्नम् श्ना श्नुः इति.१ - ५० - इमे विकरणाः पठ्यन्ते ।२ - ५० - तत्र न ज्ञायते कः उत्सर्गः कः अपवादः इति ।३ - ५० - तत्र वक्त्यम् ॒ अयम् उत्सर्गः अयम् अपवादः इति ।४ - ५० - इमे ब्रूमः ।५ - ५० - यक् उत्सर्गः ।६ - ५० - अपवादः शब्दादिः स्यादयः च ।७ - ५० - यदि एवम् अपवादविप्रतिषेधात् शबादिबाधनम् ।८ - ५० - अपवाद्विप्रतिषेधात् शबादिभिः स्यादीनाम् बाधनम् प्राप्नोति ।९ - ५० - शबादीनाम् अवकाशः पचति यजति ।१० - ५० - स्यादीनाम् अवकाशः पक्ष्यते यक्ष्यते ।११ - ५० - इह उभयम् प्राप्नोति ।१२ - ५० - पक्ष्यति यक्ष्यति ।१३ - ५० - परत्वात् शबादयः प्राप्नुवन्ति ।१४ - ५० - अपवादः नाम अनेकलक्षणप्रसङ्गः ।१५ - ५० - अपवादः नाम भवति यत्र अनेकलक्षणप्रसङ्गः ।१६ - ५० - तत्र भावकर्मणोः यक् विधीयते कर्तरि शप् ।१७ - ५० - कः प्रसङ्गः यत् भावकर्मणोः यकम् कर्तरि शबादयः बाधेरन् ।१८ - ५० - एवम् तर्हि यक्शपौ उत्सर्गौ ।१९ - ५० - अपवादाः श्यनादय स्यादयः च ।२० - ५० - अपवादविप्रतिषेधात् श्यनादिबाधनम् ।२१ - ५० - अपवाद्विप्रतिषेधात् श्यनादिभिः स्यादीनाम् बाधनम् प्राप्नोति ।२२ - ५० - श्यनादीनाम् अवकाशः दीव्यति सीव्यति ।२३ - ५० - स्यादीनाम् अवकाशः पक्ष्यति यक्ष्यति ।२४ - ५० - इह उभयम् प्राप्नोति ।२५ - ५० - देविष्यति सेविष्यति ।२६ - ५० - परत्वात् श्यनादयः प्राप्नुवन्ति ।२७ - ५० - न एषः दोषः ।२८ - ५० - शबादेशाः श्यनादयः करिष्यन्ते ।२९ - ५० - शप् च स्यादिभिः बाध्यते ।३० - ५० - तत्र दिवादिभ्यः स्यादिविषये शप् एव न अस्ति कुतः श्यनादयः ।३१ - ५० - तत् तर्हि शपः ग्रहणम् कर्तव्यम् ।३२ - ५० - न कर्तव्यम् ।३३ - ५० - प्रकृतम् अनुवर्तते ।३४ - ५० - क्व प्रकृतम् ।३५ - ५० - कर्तरि शप् इति ।३६ - ५० - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।३७ - ५० - दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।३८ - ५० - प्रत्ययविधिः अयम् ।३९ - ५० - न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।४० - ५० - न अयम् प्रत्ययविधिः ।४१ - ५० - विहितः प्रत्ययः ।४२ - ५० - प्रकृतः च अनुवर्तते ।४३ - ५० - अथ वा अनुवृत्तिः करिष्यते ।४४ - ५० - सार्वधातुके यक् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।४५ - ५० - कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।४६ - ५० - दिवादिभ्यः श्यन् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।४७ - ५० - अथ वा अन्तरङ्गाः स्यादयः ।४८ - ५० - का अन्तरङ्गता ।४९ - ५० - लावस्थायाम् एव स्यादयः ।५० - ५० - सार्वधातुके श्यनादयः ।१ - १३ - सिपा- उत्सर्गः छन्दसि ।२ - १३ - सिप् उत्सर्गः छन्दसि कर्तव्यः ।३ - १३ - सनाद्यन्ते नेषत्वाद्यर्थः ।४ - १३ - सनाद्यन्ते च कर्तव्यः ।५ - १३ - किम् प्रजोजनम् ।६ - १३ - नेषत्वाद्यर्थः ।७ - १३ - इन्द्रः नः तेन नेषतु ।८ - १३ - गा वः नेष्टात् ।९ - १३ - प्रकृत्यन्तरत्वात् सिद्धम् ।१० - १३ - प्रकृत्यन्तरत्वात् सिद्धम् एतत् ।११ - १३ - प्र्कृत्यन्तरम् नेषतिः ।१२ - १३ - नेषतु नेष्टात् इति दर्शनात् ।१३ - १३ - नेषतु नेष्टात् इति दृश्यते ।१ - २९ - अथ किमर्थः पकारः ।२ - २९ - स्वरार्थः ।३ - २९ - अनुदात्तौ सुप्पितौ इति एषः स्वरः यथा स्यात् ।४ - २९ - पित्करणानर्थक्यम् च अनच्कत्वात् ।५ - २९ - पित्करणम् च अनर्थकम् ।६ - २९ - किम् कारणम् ।७ - २९ - अनच्कत्वात् ।८ - २९ - अनच्कः अयम् ।९ - २९ - तत्र न अर्थः स्वरार्थेन पकारेण अनुबन्धेन ।१० - २९ - इटि कृते साच्कः भविष्यति ।११ - २९ - इटः अनुदात्तार्थम् इति चेत् आगमानुदात्तत्वात् सिद्धम् । आगमानुदात्तत्वेन इटः अनुदात्तत्वम् भविष्यति ।१२ - २९ - एवम् तर्हि सप् अयम् कर्तव्यः ।१३ - २९ - किम् प्रयोजनम् ।१४ - २९ - यत् एव यासिषीष्ठाः ।१५ - २९ - एकाज्लक्षणः इट्प्रतिषेधः मा भूत् इति ।१६ - २९ - क्व अयम् अकारः श्रूयते ।१७ - २९ - न क्व चित् श्रूयते ।१८ - २९ - लोपः अस्य भविष्यति अतः लोपः आर्धधातुके इति ।१९ - २९ - यदि न क्व चित् श्रूयते न अर्थः स्वरार्थेन पकारेण अनुबन्धेन ।२० - २९ - एवम् अपि कर्तव्यः एव ।२१ - २९ - किम् प्रयोजनम् ।२२ - २९ - अनुदात्तस्य लोपः यथा स्यात् ।२३ - २९ - उदात्तस्य मा भूत् इति ।२४ - २९ - किम् च स्यात् ।२५ - २९ - उदात्तनिवृत्तिस्वरः प्रसज्येत ।२६ - २९ - सिपा- बहुलम् छन्दसि णित् ।२७ - २९ - सिप् बहुलम् छन्दसि णित् वक्तव्यः ।२८ - २९ - सविता धर्मम् दाविषत् ।२९ - २९ - प्र णः आयूंषि तारिषत् ।१ - २१ - कास्ग्रहणे चकासः उपसङ्ख्यानम् ।२ - २१ - कास्ग्रहणे चकासः उपसङ्ख्यानम् कर्तव्यम् ।३ - २१ - चकासाम् चकार ।४ - २१ - न कर्तव्यम् ।५ - २१ - चकास्प्रतययात् इति वक्ष्यामि ।६ - २१ - चकास्ग्रहणे कासः उपसङ्ख्यानम् कर्तव्यम् ।७ - २१ - कासाम् चक्रे ।८ - २१ - सूत्रम् च भिद्यते ।९ - २१ - यथान्यासम् एव अस्तु ।१० - २१ - ननु च उक्तम् कास्ग्रहणे चकासः उपसङ्ख्यानम् इति ।११ - २१ - न एषः दोषः ।१२ - २१ - चकास्शब्दे कास्शब्दः अस्ति ।१३ - २१ - तत्र कास्प्रत्ययात् इति एव सिद्धम् ।१४ - २१ - न सिध्यति ।१५ - २१ - किम् कारणम् ।१६ - २१ - अर्थवतः कास्शब्दस्य ग्रहणम् ।१७ - २१ - न च चकास्शब्दे कास्शब्दः अर्थवान् ।१८ - २१ - एवम् तर्हि कासि अनेकाचः इति वक्तव्यम् ।१९ - २१ - किम् प्रयोजनम् ।२० - २१ - चुलुम्पाद्यर्थम् ।२१ - २१ - चुलुम्पाम् चकार दरिद्राम् चकार । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP