TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पाद १ - खण्ड ३१

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


खण्ड ३१
१ - १०९ - अधिकारेण इयम् प्रत्ययसञ्ज्ञा क्रियते ।

२ - १०९ - सा प्रकृत्युपपदोपाधीनाम् अपि प्राप्नोति ।

३ - १०९ - तस्याः प्रतिषेधः वक्तव्यः ।

४ - १०९ - प्रकृति ।

५ - १०९ - गुप्तिज्किभ्यः सन् ।

६ - १०९ - उपपद ।

७ - १०९ - स्तम्बकर्णयोः रमजपोः ।

८ - १०९ - उपाधि ।

९ - १०९ - हरतेः दृतिनाथयोः पशौ ।

१० - १०९ - एतेषाम् प्रतिषेधः वक्तव्यः ।

११ - १०९ - किम् च स्यात् यदि एतेषाम् अपि प्रत्ययसञ्ज्ञा स्यात् ।

१२ - १०९ - परत्वम् आद्युदात्तत्वम् अङ्गसञ्ज्ञा इति एते विधयः प्रसज्येरन् ।

१३ - १०९ - अतः उत्तरम् पठति ।

१४ - १०९ - प्रत्ययाधिकारे प्रकृत्युपपदोपाधीनाम् अप्रतिषेधः ।

१५ - १०९ - अधिकारेण अपि प्रत्ययसञ्ज्ञायाम् सत्याम् प्रकृत्युपपदोपाधीनाम् अप्रतिषेधः ।

१६ - १०९ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

१७ - १०९ - प्रत्ययसञ्ज्ञा कस्मात् न भवति ।

१८ - १०९ - निमित्तस्य निमित्तिकार्यार्थत्वात् अन्यत्र अपि ।

१९ - १०९ - निमित्तानि हि निमित्तिकार्यार्थानि भवन्ति ।

२० - १०९ - किम् पुनः निमित्तम् कः वा निमित्ती ।

२१ - १०९ - प्रकृत्युपपओपाधयः निमित्तम् प्रत्ययः निमित्ती ।

२२ - १०९ - अन्यत्र अपि च एषः न्यायः दृष्टः ।

२३ - १०९ - क्व अन्यत्र ।

२४ - १०९ - लोके ।

२५ - १०९ - तत् यथा ।

२६ - १०९ - बहुषु आसीनेषु कः चित् कम् चित् पृच्छति ।

२७ - १०९ - कतमः देवदत्तः ।

२८ - १०९ - कतरः यज्ञदत्तः इति ।

२९ - १०९ - सः तस्मै आचष्टे ।

३० - १०९ - यः अश्वे यः पीठे इति उक्ते निमित्तस्य निमित्तिकार्यार्थत्वात् अध्यवस्यति अयम् देवदत्तः अयम् यज्ञ्दत्त इति ।

३१ - १०९ - न इदानीम् अश्वस्य पीठस्य वा देवदत्तः इति सञ्ज्ञा भवति ।

३२ - १०९ - किम् पुनः निमित्तम् कः वा निमित्ती ।

३३ - १०९ - निर्ज्ञातः अर्थः निमित्तम् अनिर्ज्ञातार्थः निमित्ती ।

३४ - १०९ - इह च प्रत्ययः अनिर्ज्ञातः प्रकृत्युपपदोपाधयः निर्ज्ञाताः ।

३५ - १०९ - क्व ।

३६ - १०९ - धातूपदेशे प्रातिपदिकोपदेशे च ।

३७ - १०९ - ते निर्ज्ञाताः निमित्तत्वेन उपादीयन्ते ।

३८ - १०९ - प्रधाने कार्यसम्प्रत्ययात् वा सिद्धम् । अथ वा प्रधाने कार्यसम्प्रत्ययः भविष्यति ।

३९ - १०९ - किम् च प्रधानम् ।

४० - १०९ - प्रत्ययः ।

४१ - १०९ - तत् यथा ।

४२ - १०९ - बहुषु यात्सु कः चित् कम् चित् पृच्छति ।

४३ - १०९ - कः याति इति ।

४४ - १०९ - सः आह राजा इति ।

४५ - १०९ - राजा इति उक्ते प्रधाने कार्यसम्प्रत्ययात् यः पृच्छति यः च आचष्टे उभयोः सम्प्रत्ययः भवति ।

४६ - १०९ - किङ्कृतम् पुनः प्राधान्यम् ।

४७ - १०९ - अर्थकृतम् ।

४८ - १०९ - यथा पुनः लोके अर्थकृतम् प्राधान्यम् शब्दस्य इदानीम् किङ्कृतम् प्राधान्यम् ।

४९ - १०९ - शब्दस्य अपूर्वोपदेशः प्राधान्यम् ।

५० - १०९ - यस्य अपूर्वोपदेशः सः प्रधानम् ।

५१ - १०९ - प्रकृत्युपपदोपाधयः च उपदिष्टाः ।

५२ - १०९ - क्व ।

५३ - १०९ - धातूपदेशे प्रातिपदिकोपदेशे च ।

५४ - १०९ - यदि एव निमित्तस्य निमित्तिकार्यार्थत्वात् अथ अपि प्रधाने कार्यसम्प्रत्ययात् प्रकृत्युपपदोपाधीनाम् न भवति विकारागमानाम् तु प्राप्नोति ।

५५ - १०९ - हनः त च ।

५६ - १०९ - त्रपुजतुनोः षुक् इति ।

५७ - १०९ - एतेषाम् हि अपूर्वोपदेशात् प्राधान्यम् ।

५८ - १०९ - निमित्तिनः च एते ।

५९ - १०९ - विकारागमेषु च परविज्ञानात् ।

६० - १०९ - विकारागमेषु च परविज्ञानात् प्रत्ययसञ्ज्ञा न भविष्यति ।

६१ - १०९ - प्रत्ययः परः बह्वति इति उच्यते ।

६२ - १०९ - न च विकारागमाः परे सम्भवन्ति ।

६३ - १०९ - किम् पुनः कारणम् समाने अपूर्वोपदेशे प्रत्ययः परः विकारागमाः न परे ।

६४ - १०९ - षष्ठीनिर्दिष्टस्य च तद्युक्तत्वात् ।

६५ - १०९ - षष्ठीनिर्दिष्तम् विकारागमयुक्तम् पञ्चमीनिर्द्ष्टात् च प्रत्ययः विधीयते ।

६६ - १०९ - प्रत्ययविधानानुपपत्तिः तु ।

६७ - १०९ - प्रत्ययविधिः तु न उपपप्द्यते ।

६८ - १०९ - क्व ।

६९ - १०९ - यत्र विकारागमाः विधीयन्ते ।

७० - १०९ - हनः त च ।

७१ - १०९ - तर्पुजतुनोः षुक् ।

७२ - १०९ - किम् पुनः कारणम् न सिध्यति ।

७३ - १०९ - विकारागमयुक्तत्वात् अपञ्चमीनिर्दिष्टत्वात् च ।

७४ - १०९ - तस्मात् तत्र पञ्चमीनिर्देशात् सिद्धम् ।

७५ - १०९ - तस्मात् तत्र पञ्चमीनिर्देशः कर्तव्यः ।

७६ - १०९ - न कर्तव्यः ।

७७ - १०९ - इह तावत् हनः ते इति ।

७८ - १०९ - धातोः इति वर्तते. इह त्रपुजतुनोः षुक् इति ।

७९ - १०९ - प्रातिपदिकात् इति वर्तते ।

८० - १०९ - यदि एवम् हनः त च धातोः क्यप् भवति इति धातुमात्रात् क्यप् प्राप्नोति ।

८१ - १०९ - न एषः दोषः ।

८२ - १०९ - आचार्यप्रवृत्तिः ज्ञापयति न धातुमात्रात् क्यप् भवति इति यत् अयम् एतिस्तुशस्वृदृजुषः क्यप् इति परिगणनम् करोति ।

८३ - १०९ - अथ वा हन्तिम् एव अत्र धातुग्रहणेन अभिसम्भन्त्स्यामः ।

८४ - १०९ - हनः तः भवति ।

८५ - १०९ - धातोः क्यप् भवति ।

८६ - १०९ - कस्मात् ।

८७ - १०९ - हन्तेः इति ।

८८ - १०९ - अर्थाश्रयत्वात् वा ।

८९ - १०९ - अथ वा अर्थाश्रयः प्रत्ययविधिः ।

९० - १०९ - यः तम् अर्थम् सम्प्रत्याययति सः प्रत्ययः ।

९१ - १०९ - किम् वक्तव्यम् एतत् ।

९२ - १०९ - न हि ।

९३ - १०९ - कथम् अनुच्यमानम् गंस्यते ।

९४ - १०९ - प्रत्ययः इति महती सञ्ज्ञा क्रियते ।

९५ - १०९ - सञ्ज्ञा च नाम यतः न लघीयः ।

९६ - १०९ - कुतः एतत् ।

९७ - १०९ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

९८ - १०९ - तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।

९९ - १०९ - प्रत्याययिति इति प्रत्ययः ।

१०० - १०९ - यदि प्रत्याययिति इति प्रत्ययः अविकादीनाम् प्रत्ययसञ्ज्ञा न प्राप्नोति ।

१०१ - १०९ - न हि ते किम् चित् प्रत्याययन्ति ।

१०२ - १०९ - एवम् तर्हि प्रत्याय्यते प्रत्ययः इति ।

१०३ - १०९ - एवम् अपि सनादीनाम् न प्राप्नोति ।

१०४ - १०९ - एवम् तरि उभयसाधनः अयम् कर्तृसाधनः कर्मसाधनः च ।

१०५ - १०९ - एवम् अपि कुतः एतत् समाने अपूर्वोपदेशे त्रापुषम् जातुषम् इति अत्र अकारः तम् अर्थम् सम्प्रत्याययति न पुनः षकारः इति ।

१०६ - १०९ - अन्यत्र अपि अकारेण तस्य अर्थस्य वचनात् मन्यामहे अकारः तम् अर्थम् सम्प्रत्याययतिन षकारः इति ।

१०७ - १०९ - क्व अन्यत्र ।

१०८ - १०९ - बिल्वादिभ्यः अण् ।

१०९ - १०९ - बैल्वः ।

१ - १०० - किमर्थम् इदम् उच्यते ।

२ - १०० - परः यथा स्यात् ।

३ - १०० - पूर्वः मा भूत् इति ।

४ - १०० - न एतत् अस्ति प्रयोजनम् ।

५ - १०० - यम् इच्छति पूर्वम् आह तम् ॒ विभाषा सुपः बहुच् पुरस्तात् तु इति ।

६ - १०० - मध्ये तर्हि मा भूत् इति ।

७ - १०० - मध्ये अपि यम् इच्छति आह तम् ॒ अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति ।

८ - १०० - यः इदानीम् अन्यः प्रत्ययः शेषः सः अन्तरेण वचनम् परः एव भविष्यति इति ना अर्थः परवचनेन ।

९ - १०० - एवम् अपि येषाम् एव प्रत्ययानाम् देशः नियम्यते ते एव नियतदेशाः स्युः ।

१० - १०० - यः इदानीम् अनियतदेशः सः कदा चित् पूर्वः कदा चित् परः कदा चित् मध्ये स्यात् ।

११ - १०० - तत् यथा मातुः वत्सः कदा चित् अग्रतः कदा चित् पृष्ठतः कदा चित् पार्श्वतः भवति ।

१२ - १०० - परः एव यथा स्यात् इति एवमर्थम् परवचनम् ।

१३ - १०० - परवचनम् अनर्थकम् पञ्चमीनिर्दिष्टत्वात् परस्य ।

१४ - १०० - परग्रहणम् अनर्थकम् ।

१५ - १०० - किम् कारणम् ।

१६ - १०० - पञ्चमीनिर्दिष्टत्वात् परस्य कार्यम् उच्यते ।

१७ - १०० - तत् यथा द्व्यन्तरुपसर्गेभ्यः अपः ईत् ।

१८ - १०० - विषमः उपन्यासः ।

१९ - १०० - सतः तत्र परस्य कार्यम् उच्यते ।

२० - १०० - इह इदानीम् कस्य सतः परस्य कार्यम् भवितुम् अर्हति ।

२१ - १०० - इह अपि सतः एव. कथम् ।

२२ - १०० - परत्वम् स्वाभाविकम् ।

२३ - १०० - अथ वाचनिके परत्वे सति अर्थः स्यात् परग्रहणेन ।

२४ - १०० - वाचनिके च न अर्थः ।

२५ - १०० - एतत् हि तस्य परस्य कार्यम् यत् असौ परः स्यात् ।

२६ - १०० - अथ वा यत् अस्य परस्य सतः सञ्ज्ञा स्यात् ।

२७ - १०० - यत्र तर्हि पञ्चमी न अस्ति तदर्थम् अयम् योगः वक्तव्यः ।

२८ - १०० - क्व च पञ्चमी न अस्ति ।

२९ - १०० - यत्र विकारागमाः शिष्यन्ते ।

३० - १०० - क्व च विकारागमाः शिष्यन्ते ।

३१ - १०० - हनः त च ।

३२ - १०० - त्रपुजतुनोः षुक् इति ।

३३ - १०० - विकारागमेषु च उक्तम् ।

३४ - १०० - किम् उक्तम् ।

३५ - १०० - प्रत्ययविधानानुपपत्तिः तु ।

३६ - १०० - तस्मात् तत्र पञ्चमीनिर्देशात् सिद्धम् इति ।

३७ - १०० - अत्यन्तापरदृष्टानाम् वा परभूतलोपार्थम् ।

३८ - १०० - अत्यन्तापरदृष्टानाम् तर्हि परभूतलोपार्थम् परग्रहणम् कर्तव्यम् ।

३९ - १०० - ये एते अत्यन्तापरदृष्टाः क्विबादयः लुप्यन्ते तेषाम् परभूतानाम् लोपः यथा स्यात् ।

४० - १०० - अपरभूतानाम् मा भूत् ।

४१ - १०० - किम् पुनः अत्यन्तापरदृष्टानाम् परभूतलोपवचने प्रयोजनम् ।

४२ - १०० - किति णिति इति कार्याणि यथा स्युः इति ।

४३ - १०० - एतत् अपि न अस्ति प्रयोजनम् ।

४४ - १०० - आचार्यप्रवृत्तिः ज्ञापयति अत्यन्तापरदृष्टाः परभूताः लुप्यन्ते इति यत् अयम् तेषु कादीन् अनुबन्धान् आसजति ।

४५ - १०० - कथम् कृत्वा ज्ञापकम् ।

४६ - १०० - अनुबन्धासञ्जने एतत् प्रयोजनम् किति णिति इति कार्याणि यथा स्युः इति ।

४७ - १०० - यदि च अत्र अत्यन्तापरदृष्टाः परभूताः लुप्यन्तेततः अनुबन्धासञ्जनम् अर्थवत् भवति ।

४८ - १०० - प्रयोगनियमार्थम् वा ।

४९ - १०० - प्रयोगनियमार्थम् तर्हि परग्रहणम् कर्तव्यम् ।

५० - १०० - परभूतानाम् प्रयोगः यथा स्यात् ।

५१ - १०० - अपरभूतानाम् मा भूत् इति ।

५२ - १०० - अस्ति पुनः किम् चित् अनिष्टम् यदर्थः नियमः स्यात् ।

५३ - १०० - अस्ति इति आह ।

५४ - १०० - प्रकृतेः अर्थाभिधाने प्रत्ययादर्शनात् । प्रकृतेः अर्थाभिधाने अप्रत्ययिकाः दृश्यन्ते ।

५५ - १०० - क्व सः देवदत्तः क्व सः यज्ञ्दत्तः बभ्रुः मण्डुः लमकः इति ।

५६ - १०० - बाभ्रव्यः माण्डव्यः लामकायनः इति प्रयोक्तव्ये बभ्रुः मण्डुः लमकः इति प्रयुज्यते ।

५७ - १०० - द्वयसजादीनाम् च केवलदृष्टत्वात् ।

५८ - १०० - द्वयसजादीनाम् च केवलानाम् प्रयोगः दृश्यते ।

५९ - १०० - किम् अस्य द्वयसम् ।

६० - १०० - किम् अस्य मात्रम् ।

६१ - १०० - का अद्य तिथी इति ।

६२ - १०० - द्वयसजादयः वै वृत्तिजसदृशाः अवृत्तिजाः यथा बहुः तथा ।

६३ - १०० - वावचने च अनुत्पत्त्यर्थम् । वावचने च अनुत्पत्त्यर्थम् परग्रहणम् कर्तव्यम् ।

६४ - १०० - वा वचनेन अनुत्पत्तिः यथा स्यात् ।

६५ - १०० - अथ क्रियमाणे अपि वै परग्रहणे कथम् इव वावचनेन अनुत्पत्तिः लभ्या ।

६६ - १०० - क्रियमाणे परग्रहणे वावचनेन वा परः इति एतत् अभिसम्बध्यते ।

६७ - १०० - अक्रियमाणे पुनः परग्रहणे वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।

६८ - १०० - न च सञ्ज्ञायाः भावाभावौ इष्येते ।

६९ - १०० - वावचने च उक्तम् ।

७० - १०० - किम् उक्तम् ।

७१ - १०० - वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः इति ।

७२ - १०० - प्रयोगनियमार्थम् एव तर्हि परग्रहणम् कर्तव्यम् ।

७३ - १०० - अथ एतस्मिन् प्रयोगनियमे सति किम् अयम् प्रत्ययहियमः ।

७४ - १०० - प्रकृतिपरः एव प्रत्ययः प्रयोक्तव्यः अप्रकृतिपरः न इति ।

७५ - १०० - आहोस्वित् प्रकृतिनियमः ।

७६ - १०० - प्रत्ययपरा एव प्रकृतिः प्रयोक्तव्या अप्रत्यया न इति ।

७७ - १०० - कः च अत्र विशेषः ।

७८ - १०० - तत्र प्रत्ययनियमे प्र्कृतिनियमाभावः ।

७९ - १०० - तत्र प्रत्ययनियमे सति प्र्कृतिनियमः न प्राप्नोति ।

८० - १०० - अप्रत्ययिकायाः प्रकृतेः प्रयोगः प्राप्नोति ।

८१ - १०० - क्व सः देवदत्तः क्व सः यज्ञ्दत्तः बभ्रुः मण्डुः लमकः इति ।

८२ - १०० - अस्तु तर्हि प्रकृतिनियमः ।

८३ - १०० - प्रकृतिनियमे प्रत्ययानियमः ।

८४ - १०० - प्रकृतिनियमे सति प्रत्ययस्य नियमः न प्राप्नोति ।

८५ - १०० - किम् अस्य द्वयसम् ।

८६ - १०० - किम् अस्य मात्रम् ।

८७ - १०० - का अद्य तिथी इति ।

८८ - १०० - अप्रकृतिकस्य प्रत्ययस्य प्रयोगः प्राप्नोति ।

८९ - १०० - सिद्धम् तु उभयनियमात् ।

९० - १०० - सिद्धम् एतत् ।

९१ - १०० - कथम् ।

९२ - १०० - उभयनियमात् ।

९३ - १०० - उभयनियमः अयम् ।

९४ - १०० - प्रकृतिपरः एव प्रत्ययः प्रयोक्तव्यः प्रत्ययपरा एव च प्रकृतिः इति ।

९५ - १०० - किम् वक्तव्यम् एतत् ।

९६ - १०० - न हि ।

९७ - १०० - कथम् अनुच्यमानम् गंस्यते ।

९८ - १०० - परग्रहणसामर्थ्यात् ।

९९ - १०० - अन्तरेण अपि परग्रहणम् स्यात् अयम् परः ।

१०० - १०० - परः एव यथा स्यात् इति एवमर्थम् परग्रहणम् ।

१ - १५ - किमर्थम् इदम् उच्यते ।

२ - १५ - आद्युदात्तः यथा स्यात् ।

३ - १५ - अन्तोदात्तः मा भूत् इति ।

४ - १५ - न एतत् अस्ति प्रयोजनम् ।

५ - १५ - यम् इच्छति अन्तोदात्तम् करोति तत्र चकारम् अनुबन्धम् आह च चितः अन्तः उदात्तः इति ।

६ - १५ - मध्योदात्तः तर्हि मा भूत् इति ।

७ - १५ - मद्योदात्तम् यम् इच्छति तत्र रेफम् अनुबन्धम् करोति आह च उपोत्तमम् रिति इति ।

८ - १५ - अनुदात्तः तर्हि मा भूत् इति ।

९ - १५ - अनुदात्तम् अपि यम् इच्छति तत्र पकारम् अनुबन्धम् करोति आह च अनुदात्तौ सुप्पितौ इति ।

१० - १५ - स्वरितः तर्हि मा भूत् इति ।

११ - १५ - स्वरितम् अपि यम् इच्छति करोति तत्र तकारम् अनुबन्धम् आह च तित् स्वरितम् इति ।

१२ - १५ - यः इदानीम् अतः अन्यः प्रत्ययः शेषः सः अन्तरेण अपि वचनम् आद्युदात्तः एव भविष्यति इति न अर्थः आद्युदात्तवचनेन ।

१३ - १५ - एवम् अपि येषाम् एव प्रत्ययानाम् स्वरः नियम्यते ते एव नियतस्वराः स्युः ।

१४ - १५ - यः इदानीम् अनियतस्वरः सः कदा चित् आद्युदात्तः कदा चित् अन्तोदात्तः कदा चित् मध्योदात्तः कदा चित् अनुदात्तः कचा चित् स्वरितः स्यात् ।

१५ - १५ - आद्युदात्तः एव यथा स्यात् इति एवम् अर्थम् इदम् उच्यते ।

१ - ११३ - अथ किमर्थम् प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते अनुदात्तत्वम् च न यत्र एव अन्यः स्वरः तत्र एव अयम् उच्येत ।

२ - ११३ - ञ्निति आदिः नित्यम् प्रत्ययस्य च ।

३ - ११३ - अदुपदेशात् लसार्वधातुकम् अनुदात्तम् सुप्पितौ च इति ।

४ - ११३ - तत्र अयम् अपि अर्थः द्विः आद्युदात्तग्रहणम् द्विः च अनुदात्तग्रहणम् न कर्तव्यम् भवति ।

५ - ११३ - प्रकृतम् अनुवर्तते ।

६ - ११३ - अतः उत्तरम् पठति ॒ आद्युदात्तत्वस्य प्रत्ययसञ्ज्ञासन्नियोगे प्रयोजनम् यस्य सञ्ज्ञाकरणम् तस्य आद्युदात्तार्थम् ।

७ - ११३ - आद्युदात्तत्वस्य प्रत्ययसञ्ज्ञासन्नियोगकरणे एतत् प्रयोजनम् यस्य सञ्ज्ञाकरणम् तस्य आद्युदात्तत्वम् यथा स्यात् ।

८ - ११३ - असन्नियोगे हि यस्मात् सः तदादेः आद्युदात्तत्वम् तदन्तस्य च अनुदात्तत्वम् ।

९ - ११३ - अक्रियमाणे हि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति तदादेः आद्युदात्तत्वम् प्रसज्येत तदन्तस्य च अनुदात्तत्वम् ।

१० - ११३ - अथ क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे अनुदात्तत्वे च कस्मात् एव तदादेः आद्युदात्तत्वम् न भवति तदन्तस्य च अनुदात्तत्वम् ।

११ - ११३ - उत्पन्नः प्रत्ययः प्रत्ययाश्रयाणाम् कार्याणाम् निमित्तम् भवति न उत्पद्यमानः ।

१२ - ११३ - तत् यथा घटः कृतः घटाश्रयाणाम् कार्याणाम् निमित्तम् भवति न क्रियमाणः ।

१३ - ११३ - न वा प्रकृतेः आद्युदात्तवचनम् ज्ञापकम् तदादेः अग्रहणस्य ।

१४ - ११३ - न वा एषः दोषः ।

१५ - ११३ - किम् कारणम् ।

१६ - ११३ - यत् अयम् ञ्निति आदिः नित्यम् इति प्रकृतेः आद्युदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः न तदादेः आद्युदात्तत्वम् भवति इति ।

१७ - ११३ - तदन्तस्य तर्हि अनुदात्तत्वम् प्राप्नोति ।

१८ - ११३ - प्रकृतिस्वरस्य च विधानसामर्थ्यात् प्रत्ययस्वराभावः । यत् अयम् धातोः अन्तः प्रातिपदिकस्य अन्तः इति प्रकृतेः अन्तोदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः न तदन्तस्य अनुदात्तत्वम् भवति इति ।

१९ - ११३ - कथम् कृत्वा ज्ञापकम् ।

२० - ११३ - यत्र हि अनुदात्तःप्रत्ययः प्रकृतिस्वरः तत् प्रयोजयति ।

२१ - ११३ - आगमानुदात्तार्थम् वा ।

२२ - ११३ - आगमानुदात्तार्थम् तर्हि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते ।

२३ - ११३ - प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते आगमाः अनुदात्ताः यथा स्युः इति ।

२४ - ११३ - न वा आगमस्य अनुदात्तवचनात् ।

२५ - ११३ - न वा एतत् अपि प्रयोजनम् अस्ति ।

२६ - ११३ - किम् कारणम् ।

२७ - ११३ - आगमस्य अनुदात्तवचनात् ।

२८ - ११३ - आगमाः अनुदात्ताः भवन्ति इति वक्ष्यामि ।

२९ - ११३ - के पुनः आगमाः अनुदात्तत्वम् प्रयोजयन्ति ।

३० - ११३ - इट् ।

३१ - ११३ - लविता ।

३२ - ११३ - इट् तावत् न प्रयोजयति ।

३३ - ११३ - इदम् इह सम्प्रधार्यम् ।

३४ - ११३ - इट् क्रियताम् आद्युदात्तत्वम् इति ।

३५ - ११३ - किम् अत्र कर्तव्यम् ।

३६ - ११३ - परत्वात् इडागमः ।

३७ - ११३ - नित्यम् आद्युदात्तत्वम् ।

३८ - ११३ - कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति ।

३९ - ११३ - इट् अपि नित्यः ।

४० - ११३ - कृते अपि आद्युदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति ।

४१ - ११३ - अनित्यः इट् ।

४२ - ११३ - अन्यथास्वरस्य कृते आद्युदात्तत्वे प्रप्नोति अन्यथास्वरस्य अकृते ।

४३ - ११३ - स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

४४ - ११३ - आद्युदात्तत्वम् अपि अनित्यम् ।

४५ - ११३ - अन्यस्य कृते इटि प्राप्नोति अन्यस्य अकृते ।

४६ - ११३ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

४७ - ११३ - उभयोः अनित्ययोः परत्वात् इडागमः ।

४८ - ११३ - अन्तरङ्गम् तर्हि आद्युदात्तत्वम् ।

४९ - ११३ - का अन्तरङ्गता ।

५० - ११३ - उत्पत्तिसन्नियोगेन आद्युदात्तत्वम् उच्यते ।

५१ - ११३ - उत्पन्ने प्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य इडागमः ।

५२ - ११३ - आद्युदात्तत्वम् अपि न अन्तरङ्गम् यावता प्रत्यये आश्रीयमाणे प्रकृतिः अपि आश्रिता भवति ।

५३ - ११३ - अन्तरङ्गम् एव आद्युदात्तत्वम् ।

५४ - ११३ - कथम् ।

५५ - ११३ - इदानीम् एव हि उक्तम् न प्रत्ययस्वरविधौ तदादिविधिः भवति इति ।

५६ - ११३ - सीयुट् तर्हि प्रयोजयति ।

५७ - ११३ - अवचने हि सीयुडादेः आद्युदात्तत्वम् । अक्रियमाणे हि आगमानुदात्तत्वे क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे सीयुडादेः लिङः आद्युदात्तत्वम् प्रसज्येत ।

५८ - ११३ - लविषीय पविषीय ।

५९ - ११३ - तत् तर्हि वक्तव्यम् आगमाः अनुदात्ताः भवन्ति इति ।

६० - ११३ - न वक्तव्यम् ।

६१ - ११३ - आचार्यप्रवृत्तिः ज्ञापयति आगमाः अनुदात्ताः भवन्ति इति यत् अयम् यासुट् परसमैपदेषु उदात्तः ङित् च इति आह ।

६२ - ११३ - न एतत् अस्ति ज्ञापकम् वक्ष्यति एतत् ।

६३ - ११३ - यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति ।

६४ - ११३ - शक्यम् अनेन वक्तुम् ॒ यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति ।

६५ - ११३ - सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञपयति आचार्यः आगमाः अनुदात्ताः भवन्ति इति ।

६६ - ११३ - शक्यम् इदम् लब्धुम् ।

६७ - ११३ - यदि एव वचनात् अथ अपि ज्ञापकात् आगमाः अनुदात्ताः भवन्ति ।

६८ - ११३ - आगमैः तु व्यवहितत्वात् आद्युदात्तत्वम् न प्राप्नोति ।

६९ - ११३ - आगमाः अविद्यमानवत् भवन्ति इति वक्ष्यामि ।

७० - ११३ - यदि आगमाः अविद्यमानवत् भवन्ति इति उच्यते लविता अवादेशः न प्राप्नोति ।

७१ - ११३ - स्वरविधौ इति वक्ष्यामि ।

७२ - ११३ - एवम् अपि लविता उदात्तात् अनुदात्तस्य स्वरितः इति स्वरितः न प्राप्नोति ।

७३ - ११३ - षाष्ठिके स्वरे इति वक्ष्यामि ।

७४ - ११३ - एवम् अपि शिक्षितः निष्ठा च द्व्यच् अनात् इत् एषः स्वरः प्राप्नोति ।

७५ - ११३ - प्रत्ययस्वरविधौ इति वक्ष्यामि ।

७६ - ११३ - तत् तर्हि वक्तव्यम् अविद्यमानवत् भवन्ति इति ।

७७ - ११३ - न वक्तव्यम् ।

७८ - ११३ - आचार्यप्रवृत्तिः ज्ञापयति आगमाः अविद्यमानवत् भवन्ति इति यत् अयम् यासुट् परसमैपदेषु उदात्तः ङित् च इति आह ।

७९ - ११३ - न एतत् अस्ति ज्ञापकम् ।

८० - ११३ - वक्ष्यति एतत् ।

८१ - ११३ - यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति ।

८२ - ११३ - शक्यम् अनेन वक्तुम् ।

८३ - ११३ - यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति ।

८४ - ११३ - सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञपयति आचार्यः आगमाः अविद्यमानवत् भवन्ति इति ।

८५ - ११३ - आद्युदात्तस्य वा लोपार्थम् ।

८६ - ११३ - आद्युदात्तस्य तर्हि लोपार्थम् प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते ।

८७ - ११३ - प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते उदात्तनिवृत्तिस्वरः सिद्धः भवति ॒ स्रौघ्नी माथुरी ।

८८ - ११३ - अत्र हि परत्वात् लोपः प्रत्यय्स्वरम् बाधेत ।

८९ - ११३ - न वा बहिरङ्गलक्षणत्वात् ।

९० - ११३ - न वा एतत् प्रयोजयति ।

९१ - ११३ - किम् कारणम् ।

९२ - ११३ - बहिरङ्गलक्षणत्वात् ।

९३ - ११३ - बहिरङ्गलक्षणः लोपः अन्तरङ्गलक्षणः स्वरः ।

९४ - ११३ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

९५ - ११३ - अवश्यम् च एषा परिभाषा आश्रयितव्या ।

९६ - ११३ - अवचने हि ञिन्नित्कित्सु अतिप्रसङ्गः ।

९७ - ११३ - अनाश्रीयमाणायाम् अस्याम् परिभाषायाम् क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वेञिन्नित्कित्सु अतिप्रसङ्गः स्यात् ।

९८ - ११३ - औत्सी कंसिकी आत्रेयी इति ।

९९ - ११३ - अत्र हि परत्वात् लोपः ञिन्नित्कित्स्वरान् बाधेत ।

१०० - ११३ - न एषः दोषः ।

१०१ - ११३ - ञिन्नित्कित्स्वराः प्रत्यय्स्वरापवादाः ।

१०२ - ११३ - न च अपवादविषये उत्सर्गः भिनिविशते ।

१०३ - ११३ - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः ।

१०४ - ११३ - प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

१०५ - ११३ - न तावत् अत्र कदा चित् प्रत्ययाद्युदात्तत्वम् भवति ।

१०६ - ११३ - अपवादान् ञिन्नित्कित्स्वरान् प्रतीक्षते ।

१०७ - ११३ - कंसिक्याम् भूयान् अपहारः ।

१०८ - ११३ - अन्यस्य अत्र उदात्तत्वम् अन्यस्य लोपः ।

१०९ - ११३ - आदेः उदात्तत्वम् अन्त्यस्य लोपः ।

११० - ११३ - इदम् तर्हि आत्रेयी इति ।

१११ - ११३ - अत्र हि परत्वात् लोपः कित्स्वरम् बाधेत ।

११२ - ११३ - तस्मात् एषा परिभाषा आश्रयितव्या ।

११३ - ११३ - एतस्याम् च सत्याम् शक्यम् प्रत्ययसन्नियोगेन आद्युदात्तत्वम् अवक्तुम् ।

१ - ५८ - प्रत्ययाद्युदात्तत्वात् धातोः अन्तः ।

२ - ५८ - प्रत्ययाद्युदात्तत्वात् धातोः अन्तः इति एतत् भवति विप्रतिषेधेन ।

३ - ५८ - प्रत्ययाद्युदात्तत्वस्य अवकाशः यत्र अनुदात्ता प्रकृतिः ।

४ - ५८ - समत्वम् सिमत्वम् ।

५ - ५८ - धातोः अन्तः इति अस्य अवकाशः यत्र अनुदात्तः प्रत्ययः ।

६ - ५८ - पचति पठति ।

७ - ५८ - इह उभयम् प्राप्नोति ।

८ - ५८ - गोपायति धपायति ।

९ - ५८ - धातोः अन्तः इति एतत् भवति विप्रतिषेधेन. पित्स्वरात् तित्स्वरः टापि । पित्स्वरात् तित्स्वरः टापि भवति विप्रतिषेधेन ।

१० - ५८ - पित्स्वरस्य अवकाशः ।

११ - ५८ - पचति पठति ।

१२ - ५८ - तित्स्वरस्य अवकाशः ।

१३ - ५८ - कार्यम् हार्यम् ।

१४ - ५८ - इह उभयम् प्राप्नोति ।

१५ - ५८ - कार्या हार्या ।

१६ - ५८ - तित्स्वरः भवति विप्रतिषेधेन ।

१७ - ५८ - चित्स्वरः चापि पित्स्वरात् । चित्स्वरः चापि पित्स्वरात् भवति विप्रतिषेधेन ।

१८ - ५८ - चित्स्वरस्य अवकाशः ।

१९ - ५८ - चलनः चोपनः ।

२० - ५८ - पित्स्वरस्य सः एव ।

२१ - ५८ - इह उभयम् प्राप्नोति ।

२२ - ५८ - आम्बष्ठ्या सौवीर्या ।

२३ - ५८ - चित्स्वरः भवति विप्रतिषेधेन ।

२४ - ५८ - न वा आद्युतात्तस्य प्रत्ययसञ्ज्ञासन्नियोगात् । न वा अर्थः विप्रतिषेधेन ।

२५ - ५८ - किम् कारणम् ।

२६ - ५८ - आद्युतात्तस्य प्रत्ययसञ्ज्ञासन्नियोगात् ।

२७ - ५८ - प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते सतिशिष्टत्वात् धातुस्वरः भविष्यति ।

२८ - ५८ - अयम् च अपि अयुक्तः विप्रतिषेधः पित्स्वरस्य तित्स्वरस्य च ।

२९ - ५८ - किम् कारणम् ।

३० - ५८ - टापि स्वरितेनैकादेशः ।

३१ - ५८ - टापि स्वरितेन एकादेशः भवति ।

३२ - ५८ - इदम् इह सम्प्रधार्यम् ।

३३ - ५८ - स्वरितत्वम् क्रियताम् एकादेशः इति ।

३४ - ५८ - किम् अत्र कर्तव्यम् ।

३५ - ५८ - परत्वात् स्वरितत्वम् ।

३६ - ५८ - नित्यः एकादेशः ।

३७ - ५८ - कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि प्राप्नोति ।

३८ - ५८ - । स्वरितत्वम् अपि नित्यम् ।

३९ - ५८ - कृते अपि एकादेशे प्राप्नोति अकृते अपि ।

४० - ५८ - अनित्यम् स्वरितत्वम् ।

४१ - ५८ - अन्यस्य कृते एकादेशे प्राप्नोति अन्यस्य अकृते ।

४२ - ५८ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

४३ - ५८ - एकादेशः अपि अनित्यः ।

४४ - ५८ - अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते ।

४५ - ५८ - स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

४६ - ५८ - अन्तरङ्गः तर्हि एकादेशः ।

४७ - ५८ - का अन्तरङ्गता ।

४८ - ५८ - वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वम् ।

४९ - ५८ - स्वरितत्वम् अपि अन्तरङ्गम् ।

५० - ५८ - कथम् ।

५१ - ५८ - वक्ष्यति एतत् ।

५२ - ५८ - पदग्रहणम् परिमाणार्थम् इति ।

५३ - ५८ - उभयोः अन्तरङ्गयोः परत्वात् स्वरितत्वम् ।

५४ - ५८ - स्वरितत्वे कृते आन्तर्यतः स्वरिदानुदात्तयोः स्वरितः भविष्यति ।

५५ - ५८ - अयम् च अपि अयुक्तः विप्रतिषेधः पित्स्वरस्य चित्स्वरस्य च ।

५६ - ५८ - किम् कारणम् ।

५७ - ५८ - चापि चित्करणात् ।

५८ - ५८ - चापि चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति ।

१ - १७ - गुपादिषु अनुबन्धकरणम् किमर्थम् ।

२ - १७ - गुपादिषु अनुबन्धकरणम् आत्मनेपदार्थम् । गुपादिषु अनुबन्धाः क्रियन्ते आत्मनेपदम् यथा स्यात् ।

३ - १७ - क्रियमाणेषु अपि अनुबन्धेषु आत्मनेपदम् न एव प्राप्नोति ।

४ - १७ - किम् कारणम् ।

५ - १७ - सना व्यवहितत्वात् ।

६ - १७ - पूर्ववत् सनः इति एवम् भविष्यति ।

७ - १७ - पूर्ववत् सनः इति उच्यते ।

८ - १७ - न चे एतेभ्यः प्राक् सनः आत्मनेपदम् न अपि परस्मैपदम् पश्यामः ।

९ - १७ - एवम् तर्हि अनुबन्धकरणसामर्थ्यात् भविष्यति ।

१० - १७ - अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भविष्यति ।

११ - १७ - तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः विशेषकम् भवति ।

१२ - १७ - यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति जुगुप्सयति मीमांसयति इति अत्र अपि प्राप्नोति ।

१३ - १७ - अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति ।

१४ - १७ - यम् समुदायम् यः अवयवः न व्यभिचरति ।

१५ - १७ - सनम् च न व्हभिचरति ।

१६ - १७ - णिचम् पुनः व्यभिचरति ।

१७ - १७ - तत् यथा तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः विशेषकम् भवति न गोमण्डलस्य ।

१ - २७ - अभ्यासदीर्घत्वे अवर्णस्य दीर्घप्रसङ्गः ।

२ - २७ - अभ्यासदीर्घत्वे अवर्णस्य दीर्घत्वम् प्राप्नोति ।

३ - २७ - मीमांसते ।

४ - २७ - ननु चे इत्त्वे कृते दीर्घत्वम् भविष्यति ।

५ - २७ - कथम् पुनः उत्पत्तिसन्नियोगेन दीर्घत्वम् उच्यमानम् इत्त्वम् प्रतीक्षते ।

६ - २७ - अथ कथम् अभ्यासम् प्रतीक्षते ।

७ - २७ - वचनात् अभ्यासम् प्रतीक्षते ।

८ - २७ - इत्त्वम् पुनः न प्रतीक्षते ।

९ - २७ - न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् ।

१० - २७ - न वा एषः दोषः ।

११ - २७ - किम् कारणम् ।

१२ - २७ - अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् ।

१३ - २७ - अभ्यासविकारेषु अपवादाः उत्सर्गान् न बाधन्ते इति एवम् दीर्घत्वम् उच्यमानम् इत्त्वम् न बाधिष्यते ।

१४ - २७ - अथ वा मान्बधदान्शन्भ्यः ई च अभ्यासस्य इति वक्ष्यामि ।

१५ - २७ - एवम् अपि हलादिशेषापवादः ईकारः प्राप्नोति ।

१६ - २७ - ई च अचः इति वक्ष्यामि ।

१७ - २७ - अथ वा मान्बधदान्शन्भ्यः दीर्घः च इतः अभ्यासस्य इति वक्ष्यामि ।

१८ - २७ - सिध्यति ।

१९ - २७ - सूत्रम् तर्हि भिद्यते ।

२० - २७ - यथान्यासम् एव अस्तु ।

२१ - २७ - ननु च उक्तम् अभ्यासदीर्घत्वे अवर्णस्य दीर्घप्रसङ्गः इति ।

२२ - २७ - परिहृतम् एतत् न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् इति ।

२३ - २७ - अथ वा न एवम् विज्ञायते दीर्घः च अभ्यासस्य इति ।

२४ - २७ - कथम् तर्हि ।

२५ - २७ - दीर्घः च आभ्यासस्य इति ।

२६ - २७ - किम् इदम् आभ्यासस्य इति ।

२७ - २७ - अभ्यासविकारः आभ्यासः तस्य इति ।

१ - ९० - धातोः इति किमर्थम् ।

२ - ९० - प्रकर्तुम् ऐच्छत् प्राचिकीर्षत् ।

३ - ९० - सोपसर्गात् मा भूत् ।

४ - ९० - कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् ।

५ - ९० - कर्मग्रहणात् सन्विधौ धातुग्रहणम् अनर्थकम् ।

६ - ९० - कर्मणः समानकर्तृकात् इच्छायाम् वा सम्भवति इति एव धातोः उत्पत्तिः भविष्यति ।

७ - ९० - सोपर्सर्गम् वै कर्म ।

८ - ९० - ततः उत्पत्तिः प्राप्नोति ।

९ - ९० - सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म ।

१० - ९० - सोपसर्गम् कर्म इति चेत् कर्मविशेषकः उपसर्गः ।

११ - ९० - अनुपसर्गम् हि कर्म ।

१२ - ९० - अवश्यम् च एतत् एवम् विज्ञेयम् अनुपसर्गम् कर्म इति ।

१३ - ९० - सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् ।

१४ - ९० - यः हि मन्यते सोपसर्गम् कर्म इति क्रियमाणे अपि तस्य धातुग्रहणे सनः अविधिः स्यात् ।

१५ - ९० - किम् कारणम् ।

१६ - ९० - अकर्मत्वात् ।

१७ - ९० - इदम् तर्हि प्रयोजनम् ।

१८ - ९० - सुबन्तात् उत्पत्तिः मा भूत् ।

१९ - ९० - सुबन्तात् च अप्रसङ्गः क्यजादीनाम् अपवादत्वात् ।

२० - ९० - सुबन्तात् च सनः अप्रसङ्गः ।

२१ - ९० - किम् कारणम् ।

२२ - ९० - क्यजादीनाम् अपवादत्वात् ।

२३ - ९० - सुबन्तात् क्यजादयः विधीयन्ते ।

२४ - ९० - ते अपवादत्वात् बाधकाः भविष्यन्ति ।

२५ - ९० - अनभिधानात् वा ।

२६ - ९० - अथ वा अनभिधानात् सुबन्तात् उत्पत्तिः न भविष्यति ।

२७ - ९० - न हि सुबन्तात् उत्पद्यमानेन सना इच्छाया अभिधानम् स्यात् ।

२८ - ९० - अनभिधानात् ततः उत्पत्तिः न भविष्यति ।

२९ - ९० - इयम् तावत् अगतिका गतिः यत् उच्यते अनभिधानात् इति ।

३० - ९० - यत् अपि उच्यते सुबन्तात् च अप्रसङ्गः क्यजादीनाम् अपवादत्वात् इति ।

३१ - ९० - भवेत् कस्मात् चित् अप्रसङ्गः स्यात् आत्मेच्छायाम् ।

३२ - ९० - परेच्छायाम् तु प्राप्नोति ॒ राज्ञः पुत्रम् इच्छति इति ।

३३ - ९० - एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति ।

३४ - ९० - किम् ।

३५ - ९० - समानकर्तृकात् इति उच्यते ।

३६ - ९० - न च सुबन्तस्य समानः कर्ता अस्ति ।

३७ - ९० - एवम् अपि भवेत् कस्मात् चित् अप्रसङ्गः यस्य कर्ता न अस्ति ।

३८ - ९० - इह तु प्राप्नोति ॒ आसितुम् इच्छति शयितुम् इच्छति ।

३९ - ९० - इच्छायाम् अर्थे सन् विधीयते इच्छार्थेषु च तुमुन् ।

४० - ९० - तत्र तुमुना उक्ततत्वात् तस्य अर्थस्य सन् न भविष्यति ।

४१ - ९० - एवम् अपि इह प्राप्नोति ॒ आसनम् इच्छति शयनम् इच्छति इति ।

४२ - ९० - इह यः विशेषः उपाधिः वा उपादीयते द्योत्ये तस्मिन् तेन भवितव्यम् ।

४३ - ९० - यः च इह अर्थः गम्यते आसितुम् इच्छति शयितुम् इच्छति स्वयम् ताम् क्रियाम् कर्तुम् इच्छति इति न असौ इह गम्यते आसनम् इच्छति शयनम् इच्छति इति ।

४४ - ९० - अन्यस्य अपि आसनम् इच्छति इति एषः अपि अर्थः गम्यते ।

४५ - ९० - अवश्यम् च एतत् एवम् विज्ञेयम् ।

४६ - ९० - यः हि मन्यते अद्योत्ये तस्मिन् तेन भवितव्यम् इति क्रियमाणे अपि तस्य धातुग्रहणे इह प्रसज्येत ॒ सङ्गतम् इच्छति देवदत्तः यज्ञदत्तेन इति ।

४७ - ९० - कर्मसमानकर्तृकग्रहणानर्थक्यम् च इच्छाभिधाने प्रत्ययविधानात् ।

४८ - ९० - कर्मसमानकर्तृकग्रहणम् च अनर्थकम् ।

४९ - ९० - किम् कारणम् ।

५० - ९० - इच्छाभिधाने प्रत्ययविधानात् ।

५१ - ९० - इच्छायाम् अभिधेयायाम् सन् विधीयते ।

५२ - ९० - अकर्मणः हि असमानकर्तृकात् वा अनभिधानम् । इच्छायाम् अभिधेयायाम् सन् विधीयते ।

५३ - ९० - न च अकर्मणः असमानकर्तृकात् वा उत्पद्यमानेन सना इच्छाया अभिधानम् स्यात् ।

५४ - ९० - अनभिधानात् ततः उत्पत्तिः न भविष्यति ।

५५ - ९० - अङ्गपरिमाणार्थम् तु ।

५६ - ९० - अङ्गपरिमाणार्थम् तर्हि अन्यतरत् कर्तव्यम् कर्मग्रहणम् धातुग्रहणम् वा ।

५७ - ९० - अङ्गपरिमाणम् ज्ञास्यामि इति ।

५८ - ९० - किम् पुनः अत्र ज्यायः ।

५९ - ९० - धातुग्रहणम् एव ज्यायः ।

६० - ९० - अङ्गपरिमाणम् च एव विज्ञातम् भवति ।

६१ - ९० - अपि च धातोः विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञः भवति इति सनः आर्धधातुकसञ्ज्ञा सिद्धा भवति ।

६२ - ९० - यत् च अपि एतत् उक्तम् कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति स्वपक्षः अनेन वर्णितः ।

६३ - ९० - युक्तम् इह द्रष्टव्यम् किम् न्याय्यम् कर्म इति ।

६४ - ९० - एतत् च अत्र युक्तम् यत् सोपसर्गम् कर्म स्यात् ।

६५ - ९० - ननु च उक्तम् सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति ।

६६ - ९० - न एषः दोषः ।

६७ - ९० - कर्मणः इति न एषा धातुसमानाधिकरणा पञ्चमी ।

६८ - ९० - कर्मणः धातोः इति ।

६९ - ९० - किम् तर्हि ।

७० - ९० - अवयवयोगा एषा षष्ठी ।

७१ - ९० - कर्मणः यः धातुः अवयवः ।

७२ - ९० - यदि अवयवयोगा एषा षष्ठीकेवलात् उत्पत्तिः न प्राप्नोति ।

७३ - ९० - चिकीर्षति जिहीर्षति इति ।

७४ - ९० - एषः अपि व्यपदेशिवद्भावेन कर्मणः धातुः अवयः भवति ।

७५ - ९० - कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः ।

७६ - ९० - महान्तम् पुत्रम् इच्छति ।

७७ - ९० - कर्मणः यत् सुबन्तम् अवययः इति ।

७८ - ९० - न कर्तव्यः ।

७९ - ९० - असामर्थ्यात् न भविष्यति ।

८० - ९० - कथम् असामर्थ्यम् ।

८१ - ९० - सापेक्षम् असमर्थम् भवति इति ।

८२ - ९० - वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः ।

८३ - ९० - वावचनम् च अनर्थकम् ।

८४ - ९० - किम् कारणम् ।

८५ - ९० - तत्र नित्यत्वात् सनः ।

८६ - ९० - इह हि द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च ।

८७ - ९० - स्वभावतः च एतत् भवति वाक्यम् च प्रत्ययः च ।

८८ - ९० - तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।

८९ - ९० - न च सञ्ज्ञायाः भावाभावौ इष्येते ।

९० - ९० - तस्मात् न अर्थः वावचनेन ।

१ - ४८ - तुमुनन्तात् वा तस्य च लुग्वचनम् ।

२ - ४८ - तुमुनन्तात् वा सन् वक्तव्यः तस्य च तुमुनः लुक् वक्तव्यः ।

३ - ४८ - कर्तुम् इच्छति चिकीर्षति ।

४ - ४८ - लिङुत्तमात् वा ।

५ - ४८ - लिङुत्तमात् वा सन् वक्तव्यः तस्य च लिङः लुक् वक्तव्यः ।

६ - ४८ - कुर्याम् इति इच्छति चिकीर्षति ।

७ - ४८ - आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् ।

८ - ४८ - आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् कर्तव्यम् ।

९ - ४८ - अश्मा लुलुठिषते ।

१० - ४८ - कूलम् पिपतिषति इति ।

११ - ४८ - किम् पुनः कारणम् न सिध्यति ।

१२ - ४८ - एवम् मन्यते ।

१३ - ४८ - चेतनावतः एतत् भवति इच्छा इति ।

१४ - ४८ - कूलम् च अचेतनम् ।

१५ - ४८ - अचेतनग्रहणेन न अर्थः ।

१६ - ४८ - आशङ्कायाम् इति एव ।

१७ - ४८ - इदम् अपि सिद्धम् भवति ।

१८ - ४८ - श्वा मुमूर्षति ।

१९ - ४८ - न वा तुल्यकारणत्वात् इच्छयाः हि प्रवृत्तितः उपलब्धिः ।

२० - ४८ - न वा कर्तव्यम् ।

२१ - ४८ - किम् कारणम् ।

२२ - ४८ - तुल्यकारणत्वात् ।

२३ - ४८ - तुल्यम् हि कारणम् चेतनावति देवदत्ते कूले च अचेतने ।

२४ - ४८ - किम् कारणम् ।

२५ - ४८ - इच्छयाः हि प्रवृत्तितः उपलब्धिः ।

२६ - ४८ - इच्छयाः हि प्रवृत्तितः उपलब्धिः भवति ।

२७ - ४८ - यः अपि असु कटम् चिकीर्षुः भवति न असौ आघोषयति ।

२८ - ४८ - कटम् करिष्यामि इति ।

२९ - ४८ - किम् तर्हि ।

३० - ४८ - सन्नद्धम् रज्जुकीलक्पूलपाणिम् दृष्ट्वा ततः इच्छा गम्यते ।

३१ - ४८ - कूलस्य अपि पिपतिषतः लोष्टाः शीर्यन्ते भिदा जायन्ते देशात् देशान्तरम् उपसङ्क्रामति ।

३२ - ४८ - श्वानः खलु अपि मुमूर्षवः एकान्तशीलाः शूनाक्षाः च भवन्ति ।

३३ - ४८ - उपमानात् वा सिद्धम् ।

३४ - ४८ - उपमानात् वा सिद्धम् एतत् ।

३५ - ४८ - कथम् ।

३६ - ४८ - लुलुठिषते इव लुलुठिषते ।

३७ - ४८ - पिपतिषति इव पिपतिषति ।

३८ - ४८ - न तिङन्तेन उपमानम् अस्ति ।

३९ - ४८ - एवम् तर्हि इच्छा इव इच्छा ।

४० - ४८ - सर्वस्य वा चेतनावत्त्वात् ।

४१ - ४८ - अथ वा सर्वम् चेतनावत् ।

४२ - ४८ - एवम् हि आह ।

४३ - ४८ - कंसकाः सर्पन्ति ।

४४ - ४८ - शिरीषः अधः स्वपिति ।

४५ - ४८ - सुवर्चला आदित्यम् अनु पर्येति ।

४६ - ४८ - आस्कन्द कपिलक इति उक्ते तृणम् आस्कन्दति ।

४७ - ४८ - अयस्कान्तम् अयः सङ्क्रामति ।

४८ - ४८ - ऋषिः पठति श्र्णोत ग्रावाणः

१ - ३३ - इमे इषवः बहवः पठ्यन्ते ।

२ - ३३ - तत्र न ज्ञायते कस्य अयम् अर्थे सन् विधीयते इति ।

३ - ३३ - इषेः छत्वभाविनः ।

४ - ३३ - यदि एवम् कर्तुम् अन्विच्छति कर्तुम् अन्वेषणा अत्र अपि प्राप्नोति ।

५ - ३३ - एवम् तर्हि यस्य स्त्रियाम् इच्छा इति एतत् रूपम् निपात्यते ।

६ - ३३ - कस्य च एतत् निपात्यते ।

७ - ३३ - कान्तिकर्मणः ।

८ - ३३ - अथ इह ग्रामम् गन्तुम् इच्छति इति कस्य किम् कर्म ।

९ - ३३ - इषेः उभे कर्मणी ।

१० - ३३ - यदि एवम् ग्रामम् गन्तुम् इच्छति ग्रामाय गन्तुम् इच्छति इति गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः ।

११ - ३३ - एवम् तर्हि गमेः ग्रामः कर्म इषेः गमिः कर्म ।

१२ - ३३ - एवम् अपि इष्यते ग्रामः गन्तुम् इति परसाधने उत्पद्यमानेन लेन ग्रामस्य अभिधानम् न प्राप्नोति ।

१३ - ३३ - एवम् तर्हि गमेः ग्रामः कर्म इषेः उभे कर्मणी ।

१४ - ३३ - अथ सनन्तात् सना भवितव्यम् ॒ चिकीर्षितुम् इच्छति जिहीर्षितुम् इच्छति इति ।

१५ - ३३ - न भवितव्यम् ।

१६ - ३३ - किम् कारणम् ।

१७ - ३३ - अर्थगत्यर्थः शब्दप्रयोगः ।

१८ - ३३ - अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते ।

१९ - ३३ - तत्र एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगेण न भवितव्यम् ।

२० - ३३ - किम् कारणम् ।

२१ - ३३ - उक्तार्थानाम् अप्रयोगः ।

२२ - ३३ - न तर्हि इदानीम् इदम् भवति ॒ एषितुम् इच्छति एषिषिषति इति ।

२३ - ३३ - अस्ति अत्र विशेषः ।

२४ - ३३ - एकस्य अत्र इषेः इषिः साधनम् वर्तमानकालः च प्रत्ययः ।

२५ - ३३ - अपरस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः ।

२६ - ३३ - इह अपि तर्हि एकस्य इषेः करोतिविषिष्टः इषिः साधनम् वर्तमानकालः च प्रत्ययः ।

२७ - ३३ - अपरस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः ।

२८ - ३३ - येन एव खलु अपि हेतुना एतत् वाक्यम् भवति चिकीर्षितुम् इच्छति जिहीर्षितुम् इच्छति इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति ।

२९ - ३३ - तस्मात् सनन्तात् सनः प्रतिषेधः वक्तव्यः ।

३० - ३३ - तम् च अपि ब्रुवता इषिसनः इति वक्तव्यम् ।

३१ - ३३ - भवति हि जुगुप्सिषते मीमांसिषते इति ।

३२ - ३३ - शैषिकात् मतुबर्थीयात् शैषिकः मतुबर्थिकः सरूपः प्रत्ययः न इष्टः ।

३३ - ३३ - सनन्तात् न सन् इष्यते ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-17T19:36:16.3470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

self-defence activities

  • स्वसंरक्षणात्मक कार्यक्रम 
  • स्वसंरक्षणात्मक उपक्रम 
RANDOM WORD

Did you know?

Sarva namaskar havet.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.