संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ३|पाद १| खण्ड ३५ पाद १ खण्ड ३१ खण्ड ३२ खण्ड ३३ खण्ड ३४ खण्ड ३५ खण्ड ३६ पाद १ - खण्ड ३५ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ३५ Translation - भाषांतर १ - ६ - अनुपसर्गात् इति किमर्थम् ।२ - ६ - आयस्यति प्रयस्यति ।३ - ६ - अनुपसर्गात् इति शक्यम् अकर्तुम् ।४ - ६ - कथम् आयस्यति प्रयस्यति ।५ - ६ - संयसः च इति एतत् नियमार्थम् भविष्यति ।६ - ६ - सम्पूर्वात् यसः न अन्यपूर्वात् इति ।१ - ६४ - किमर्थः शकारः ।२ - ६४ - सार्वधातुकाऋथः ।३ - ६४ - शित् सार्वधातुकम् इति सार्वधातुकसञ्ज्ञा ।४ - ६४ - सार्वधातुकम् अपित् इति ङित्त्वम् ।५ - ६४ - ङिति इति गुणप्रतिषेधः यथा स्यात् ।६ - ६४ - भिनत्ति छिनत्ति इति ।७ - ६४ - न एतत् अस्ति प्रयोजनम् ।८ - ६४ - सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते यस्मात् च प्रत्ययविधिः तदादि प्रत्यये अङ्गसञ्ज्ञम् भवति ।९ - ६४ - यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः ।१० - ६४ - यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः ।११ - ६४ - इदम् तर्हि प्रयोजनम् ।१२ - ६४ - आर्धधातुकसञ्ज्ञा मा भूत् इति ।१३ - ६४ - किम् च स्यात् ।१४ - ६४ - वलादिलक्षणः इट् प्रसज्येत ।१५ - ६४ - एतत् अपि न अस्ति प्रयोजनम् ।१६ - ६४ - वलादेः आर्धधातुकस्य अङ्गस्य इट् उच्यते ।१७ - ६४ - यस्मात् च प्रत्ययविधिः तदादि प्रत्यये अङ्गसञ्ज्ञम् भवति ।१८ - ६४ - यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः ।१९ - ६४ - यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः ।२० - ६४ - अतः उत्तरम् पठति ।२१ - ६४ - श्नमि शित्करणम् प्वादिह्रस्वार्थम् ।२२ - ६४ - श्नमि शित्करणम् क्रियते प्वादीनाम् शिति ह्रस्वत्वम् यथा स्यात् ।२३ - ६४ - पृणसि मृणसि इति ।२४ - ६४ - न वा धात्वन्यत्वात् ।२५ - ६४ - न वा कर्तव्यम् ।२६ - ६४ - किम् कारणम् ।२७ - ६४ - धात्वन्यत्वात् ।२८ - ६४ - धात्वन्तरम् पृणिमृणी ।२९ - ६४ - यत्र भूम्याम् वृणसे ।३० - ६४ - न एषः श्नम् ।३१ - ६४ - श्नः एतत् ह्रस्वत्वम् ।३२ - ६४ - यदि श्नः ह्रस्वत्वम् स्वरः न सिध्यति ।३३ - ६४ - वृणसे ।३४ - ६४ - अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः न प्राप्नोति ।३५ - ६४ - तस्मात् श्नम् एषः ।३६ - ६४ - यदि श्नम् स्नसोः अल्लोपः इति लोपः प्राप्नोति ।३७ - ६४ - उपधायाः इति वर्तते ।३८ - ६४ - अनुपधात्वात् न भविष्यति ।३९ - ६४ - न सः शख्यः उपधायाः इति विज्ञातुम् ।४० - ६४ - इह हि दोषः स्यात् ।४१ - ६४ - अङ्क्तः अञ्जन्ति ।४२ - ६४ - तस्मात् श्नः एव ह्रस्वत्वम् ।४३ - ६४ - स्वरः कथम् ।४४ - ६४ - बहुलम् पित् सार्वधातुकम् छन्दसि । सार्वधातुकस्य भलुलम् छन्दसि पित्त्वम् वक्तव्यम् ।४५ - ६४ - पितः च अपित्त्वम् दृश्यते अपितः च पित्त्वम् ।४६ - ६४ - पितः तावत् अपित्त्वम् ।४७ - ६४ - मातरम् प्रमिणीमि जनित्रीम् ।४८ - ६४ - अपितः पित्त्वम् ।४९ - ६४ - शृणोत ग्रावाणः ।५० - ६४ - तत् तर्हि ह्रस्वत्वम् वक्तव्यम् ।५१ - ६४ - अवश्यम् छन्दसि ह्रस्वत्वम् वक्तव्यम् उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति एवमर्थम् ।५२ - ६४ - विशेषणाऋथः तर्हि ।५३ - ६४ - क्व विशेषणाऋथेन अर्थः ।५४ - ६४ - श्नात् नलोपः इति ।५५ - ६४ - नात् नलोपः इति उच्यमाने यज्ञानाम् यत्नानाम् इति अत्र अपि प्रसज्येत ।५६ - ६४ - दीर्घत्वे कृते न भविष्यति ।५७ - ६४ - इदम् इह सम्प्रधार्यम् ।५८ - ६४ - दीर्घत्वम् क्रियताम् नलोपः इति ।५९ - ६४ - किम् अत्र कर्तव्यम् ।६० - ६४ - परत्वात् न लोपः स्यात् ।६१ - ६४ - तस्मात् शकारः कर्तव्यः ।६२ - ६४ - अथ क्रियमाणे अपि शकारे इह कस्मात् न भवति ।६३ - ६४ - विश्नानाम् प्रश्नानाम् इति ।६४ - ६४ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।१ - २१ - अथ किमर्थम् करोतेः पृथग्ग्रहणम् क्रियते न तनादिभ्यः इति एव उच्यते ।२ - २१ - अन्यानि तनोत्यादिकार्याणि मा भूवन् इति ।३ - २१ - कानि ।४ - २१ - अनुनासिकलोपादीनि ।५ - २१ - दैवरक्ताः किंसुकाः ।६ - २१ - अनुनासिकाभावात् एव अनुनासिकलोपः न भविष्यति ।७ - २१ - इदम् तर्हि तनादिकार्यम् मा भूत् तनादिभ्यः तथासोः इति ।८ - २१ - ननु च भवति एव अत्र ह्रस्वात् अङ्गात् इति ।९ - २१ - तेन एव यथा स्यात् ।१० - २१ - अनेन मा भूत् इति ।११ - २१ - कः च अत्र विशेषः तेन वा सति अनेन वा ।१२ - २१ - तेन सति सिज्लोपस्य असिद्धत्वात् चिण्वद्भावः सिद्धः भवति ।१३ - २१ - अनेन पुनः सति चिण्वद्भावः न स्यात् ।१४ - २१ - अनेन अपि सति चिण्वद्भावः सिद्धः ।१५ - २१ - कथम् ।१६ - २१ - विभाषा लुक् ।१७ - २१ - यदा न लुक् तदा तेन लोपः ।१८ - २१ - तत्र सिज्लोपस्य असिद्धत्वात् चिण्वद्भावः सिद्धः भवति ।१९ - २१ - तनादित्वात् कृञः सिद्धम् सिज्लोपे च न दुष्यति ।२० - २१ - चिण्वद्भावे अत्र दोषः स्यात् ।२१ - २१ - सः अपि प्रोक्तः विभाषया ।१ - २७ - क्व अयम् अकारः श्रूयते ।२ - २७ - न क्व चित् श्रूयते ।३ - २७ - लोपः अस्य भवति अतः लोपः आर्धधातुके इति ।४ - २७ - यदि न क्व चित् श्रूयते किमर्थम् अत्वम् उच्यते न लोपः एव उच्यते ।५ - २७ - न एवम् शक्यम् ।६ - २७ - लोपे हि सति गुणः प्रसज्येत ।७ - २७ - ननु च लोपे अपि सति न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति ।८ - २७ - आर्धधातुकनिमित्ते लोपे सः प्रतिषेधः ।९ - २७ - न च एषः आर्धधातुकनिमित्तः लोपः ।१० - २७ - अपि च प्रत्याख्यायते सः योगः ।११ - २७ - तस्मिन् प्रत्याख्याते गुणः स्यात् एव ।१२ - २७ - तस्मात् अत्वम् वक्तव्यम् ।१३ - २७ - अथ किमर्थम् नुमनुषक्तयोः ग्रहणम् क्रियते न धिविकृव्योः इति एव उच्यते ।१४ - २७ - धिविकृव्योः इति उच्यमाने अत्वे कृते अनिष्टे देशे नुम् प्रसज्येत ।१५ - २७ - इदम् इह सम्प्रधार्यम् ।१६ - २७ - अत्वम् क्रियताम् नुम् इति ।१७ - २७ - किम् अत्र कर्तव्यम् ।१८ - २७ - परत्वात् नुमागमः ।१९ - २७ - अन्तरङ्गम् अत्वम् ।२० - २७ - का अन्तरङ्गता ।२१ - २७ - प्रत्ययोत्पत्तिसन्नियोगेन अत्वम् उच्यते ।२२ - २७ - उत्पन्नेप्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य नुमागमः ।२३ - २७ - नुम् अपि अन्तरङ्गः ।२४ - २७ - कथम् ।२५ - २७ - वक्ष्यति एतत् नुम्विधौ उपदेशिवद्वचनम् प्रत्ययविध्यर्थम् इति ।२६ - २७ - उभयोः अन्तरङ्गयोः परत्वात् नुमागमः ।२७ - २७ - तस्मात् धिविकृव्योः इति वक्तव्यम् ।१ - ५८ - किमर्थः शकारः ।२ - ५८ - शित् सार्वधातुकम् इति सार्वधातुकसञ्ज्ञा सार्वधातुकम् अपित् इति ङित्त्वम् ङिति इति प्रतिषेधः यथा स्यात् ।३ - ५८ - कुषाण पुषाण इति ।४ - ५८ - अतः उत्तरम् पठति ।५ - ५८ - श्नाविकारस्य शित्करणानर्थक्यम् स्थानिवत्वात् ।६ - ५८ - श्नाविकारस्य शित्करणम् अनर्थकम् ।७ - ५८ - किम् कारणम् ।८ - ५८ - स्थानिवत्वात् ।९ - ५८ - शितः अयम् आदेशः स्थानिवद्भावात् शित् भविष्यति ।१० - ५८ - अर्थवत् तु ज्ञापकम् सार्वधातुकादेशे अनुबन्धास्थानिवत्त्वस्य ।११ - ५८ - अर्थवत् तु श्नाविकारस्य शित्करणम् ।१२ - ५८ - कः अर्थः ।१३ - ५८ - ज्ञापकार्थम् ।१४ - ५८ - किम् ज्ञाप्यम् ।१५ - ५८ - एतत् ज्ञापयति आचार्यः सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति ।१६ - ५८ - किम् एतस्य ज्ञपने प्रयोजनम् ।१७ - ५८ - प्रयोजनम् हितातङोः अपित्त्वम् ।१८ - ५८ - हेः पित्त्वम् न प्रतिषेध्यम् ।१९ - ५८ - पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।२० - ५८ - सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् भविष्यति ।२१ - ५८ - तातङि च ङकारः न उच्चार्यः भवति ।२२ - ५८ - पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।२३ - ५८ - सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् भविष्यति ।२४ - ५८ - तबादिषु च अङित्त्वम् ।२५ - ५८ - तबादिषु च अङित्त्वम् प्रयोजनम् ।२६ - ५८ - शृणोत ग्रावाणः ।२७ - ५८ - ङितः इमे आदेशाः स्थानिवद्भावात् ङितः स्युः ।२८ - ५८ - सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न इमे ङितः भवन्ति ।२९ - ५८ - तस्य दोषः मिपः आदेशे पिदभावः ।३० - ५८ - तस्य एतस्य लक्षणस्य दोषः मिपः आदेशे पितः अभावः ।३१ - ५८ - अचिनवम् असुनवम् अकरवम् ।३२ - ५८ - पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।३३ - ५८ - सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् स्यात् ।३४ - ५८ - अत्यल्पम् इदम् उच्यते ।३५ - ५८ - तिप्सिब्मिपाम् आदेशाः इति वक्तव्यम् ।३६ - ५८ - वेद वेत्थ ।३७ - ५८ - विदेः वसोः शित्त्वम् ।३८ - ५८ - विदेः उत्तरस्य वसोः शित्त्वम् वक्तव्यम् ।३९ - ५८ - शितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।४० - ५८ - सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् शित् स्यात् ।४१ - ५८ - कित्करणात् वा सिद्धम् । अथ वा अवश्यम् अत्र सामान्यग्रहणाविघातार्थः ककारः अनुबन्धः कर्तव्यः ।४२ - ५८ - क्व सामान्यग्रहणाविघातार्थेन अर्थः ।४३ - ५८ - वसोः सम्प्रसारणम् ।४४ - ५८ - तेन एव यत्नेन गुणः न भविष्यति ।४५ - ५८ - अस्य ज्ञापकस्य सन्ति दोषाः सन्ति प्रयोजनानि ।४६ - ५८ - समाः दोषाः भूयांसः वा ।४७ - ५८ - तस्मात् न अर्थः अनेन ज्ञापकेन ।४८ - ५८ - कथम् यानि प्रयोजनानि ।४९ - ५८ - तानि क्रियन्ते न्यासे एव ।५० - ५८ - एवम् अपि भवेत् पित्करणसामर्थ्यात् पित्कृतम् स्यात् ङित्करणसामर्थ्यात् ङित्कृतम् ।५१ - ५८ - यत् तु खलु पिति ङित्कृतम् प्राप्नोति ङिति च पित्कृतम् केन तत् न स्यात् ।५२ - ५८ - तस्मात् वक्तव्यम् पित् न ङिद्वत् भवति ङित् च न पिद्वत् भवति इति ।५३ - ५८ - न वक्तव्यम् ।५४ - ५८ - एवम् वक्ष्यामि ।५५ - ५८ - सार्वधातुकम् ङित् भवति पित् न ।५६ - ५८ - एवम् तावत् पितः ङित्त्वम् प्रतिषिद्धम् ।५७ - ५८ - ततः असंयोगात् लिट् कित् भवति इति ङित् च पित् न भवति ।५८ - ५८ - एवम् ङितः पित्त्वम् प्रतिषिद्धम् ।१ - ६ - शायच् छन्दसि सर्वत्र ।२ - ६ - शायच् छन्दसि सर्वत्र इति वक्तव्यम् ।३ - ६ - क्व सर्वत्र ।४ - ६ - हौ च अहौ च ।५ - ६ - किम् प्रयोजनम् ।६ - ६ - महीअस्कभायत् यः अस्कभायत् उद्गृभायत उन्मथायत इत्यर्थम् ।१ - ४३ - योगविभागः कर्तव्यः ।२ - ४३ - व्यत्ययः भवति स्यादीनाम् इति ।३ - ४३ - आण्डा शुष्णस्य भृ̄दति ।४ - ४३ - भिनत्ति इति प्राप्ते ।५ - ४३ - सः च न मरति ।६ - ४३ - मिर्यते इति प्राप्ते ।७ - ४३ - ततः बहुलम्. बहुलम् छन्दसि विषये सर्वे विधयः भवन्ति इति ।८ - ४३ - सुपाम् व्यत्ययः ।९ - ४३ - तिङाम् व्यत्ययः ।१० - ४३ - वर्णव्यत्ययः ।११ - ४३ - लिङ्गव्यत्ययः ।१२ - ४३ - कालव्यत्ययः ।१३ - ४३ - पुरुषव्यत्ययः ।१४ - ४३ - आत्मनेपदव्यत्ययः ।१५ - ४३ - परस्मैपदव्यत्ययः ।१६ - ४३ - सुपाम् व्यत्ययः ।१७ - ४३ - युक्ता माता आसीत् धुरि दक्षिणायाः ।१८ - ४३ - दक्षिणायाम् इति प्राप्ते ।१९ - ४३ - तिङाम् व्यत्ययः ।२० - ४३ - चषालम् ये अश्वयूपाय तक्षति ।२१ - ४३ - तक्षन्ति इति प्राप्ते ।२२ - ४३ - वर्णव्यत्ययः ।२३ - ४३ - त्रिष्टुभौजः शुभितम् उग्रवीरम् ।२४ - ४३ - सुहितम् इति प्राप्ते ।२५ - ४३ - लिङ्गव्यत्ययः ।२६ - ४३ - मधोः गृह्णाति ।२७ - ४३ - मधोः तृप्ताः इव आसते ।२८ - ४३ - मधुनः इति प्राप्ते ।२९ - ४३ - कालव्यत्ययः ।३० - ४३ - श्वः अग्नीन् आधास्यमानेन ।३१ - ४३ - श्वः सोमेन यक्ष्यमाणेन ।३२ - ४३ - आधाता यष्टा इति एवम् प्राप्ते ।३३ - ४३ - पुरुषव्यत्ययः ।३४ - ४३ - अधा सः वीरैः दशभिः वियूयाः ।३५ - ४३ - वियूयात् इति प्राप्ते ।३६ - ४३ - आत्मनेपदव्यत्ययः ।३७ - ४३ - ब्रह्म्नचारिणम् इच्छते ।३८ - ४३ - इच्छति इति प्राप्ते ।३९ - ४३ - परस्मैपदव्यत्ययः ।४० - ४३ - प्रतीपम् अन्यः ऊर्मिः युध्यति ।४१ - ४३ - युध्यते इति प्राप्ते ।४२ - ४३ - सुप्तिङुपग्रहलिङ्गनराणाम् काल्हलच्स्वरकर्तृयङाम् च व्यत्ययम् इच्छति शास्त्रकृत् एषाम् ।४३ - ४३ - सः अपि च सिध्यति बाहुलकेन ।१ - २७ - अयम् आशिषि अङ् विधीयते ।२ - २७ - तस्य किम् प्रयोजनम् ।३ - २७ - आशिषि अङः प्रयोजनम् स्थागागमिवचिविदयः ।४ - २७ - स्था ।५ - २७ - उप स्थेषम् वृषभम् ।६ - २७ - स्था ।७ - २७ - गा ।८ - २७ - अञ्जसा सत्यम् उप गेषम् ।९ - २७ - गा ।१० - २७ - गमि ।११ - २७ - यज्ञेन प्रतिष्ठाम् गमेयम् ।१२ - २७ - गमि ।१३ - २७ - वचि ।१४ - २७ - मन्त्रम् वोचेम अग्नये ।१५ - २७ - वचि ।१६ - २७ - विदि ।१७ - २७ - विदेयम् एनाम् मनसि प्रविष्टाम् ।१८ - २७ - शकिरुहोः च इति वक्तव्यम् ।१९ - २७ - शकेम त्वा समिधम् ।२० - २७ - अस्रवन्तीम् आ रुहेम स्वस्तये ।२१ - २७ - दृशोः अक् पितरम् च दृशेयम् मातरम् च ।२२ - २७ - दृशोः अक् वक्तव्यः पितरम् च दृशेयम् मातरम् च इति एवमर्थम् ।२३ - २७ - इह उपस्थेयाम इति आट् अपि वक्तव्यः ।२४ - २७ - न हि अङा एव सिध्यति ।२५ - २७ - न वक्तव्यः ।२६ - २७ - सार्वधातुकत्वात् सलोपः आर्धधातुकत्वात् एत्वम् ।२७ - २७ - द्तत्र उभयलिङ्गत्वात् सिद्धम् ।१ - १५ - वत्करणम् किमर्थम् ।२ - १५ - स्वाश्रयम् अपि यथा स्यात् ।३ - १५ - भिद्यते कुशूलेन इति ।४ - १५ - अकर्मकाणाम् भावे लः भवति इति लः यथा स्यात् ।५ - १५ - कर्मणा इति किमर्थम् ।६ - १५ - करणाधिकरणाभ्याम् तुल्यक्रियः कर्ता यः सः कर्मवत् मा भूत् ।७ - १५ - साधु असिः छिनत्ति ।८ - १५ - साधु स्थाली पचति ।९ - १५ - तुल्यक्रियः इति किमर्थम् ।१० - १५ - पचति ओदनम् देवदत्तः ।११ - १५ - तुल्यक्रियः इति उच्यमाने अपि अत्र प्राप्नोति ।१२ - १५ - अत्र अपि हि कर्मणा तुल्यक्रियः कर्ता ।१३ - १५ - न तुल्यक्रियग्रहणेन समानक्रियत्वम् अभिसम्बध्यते ।१४ - १५ - किम् तर्हि ।१५ - १५ - यस्मिन् कर्मणि कर्तृभूते अपि तद्वत् क्रिय लक्ष्यते यथा कर्मणि सः कर्मणा तुल्यक्रियः कर्ता कर्मवत् भवति इति ।१ - ३१ - कर्मवत् अकर्मकस्य कर्ता ।२ - ३१ - अकर्मकस्य कर्ता कर्मवत् भवति इति वक्तव्यम् ।३ - ३१ - किम् प्रयोजनम् ।४ - ३१ - सकर्मकस्य कर्ता कर्मवत् मा भूत् इति ।५ - ३१ - भिद्यमानः कुशूलः पात्राणि भिनत्ति ।६ - ३१ - तथा कर्म दृष्टः चेत् समानधातौ ।७ - ३१ - कर्म दृष्टः चेत् समानधातौ इति वक्तव्यम् ।८ - ३१ - इह मा भूत् ।९ - ३१ - पचति ओदनम् देवदत्तः ।१० - ३१ - राध्यति ओधनः स्वयम् एव ।११ - ३१ - तथा कर्मस्थभावकानम् कर्मस्थक्रियाणाम् च ।१२ - ३१ - कर्मस्थभावकानम् कर्मस्थक्रियाणाम् वा कर्ता कर्मवत् भवति इति वक्तव्यम् ।१३ - ३१ - कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्ता कर्मवत् मा भूत् इति ।१४ - ३१ - यत् तावत् उच्यते अकर्मकस्य कर्ता कर्मवत् भवति इति वक्तव्यम् इति ।१५ - ३१ - न वक्तव्यम् ।१६ - ३१ - वक्ष्यति एतत् ।१७ - ३१ - सकर्मकाणाम् प्रतिषेधः अन्योन्यम् आश्लिष्यतः इति ।१८ - ३१ - यत् अपि उच्यते कर्म दृष्टः चेत् समानधातौ इति वक्तव्यम् इति ।१९ - ३१ - न वक्तव्यम् ।२० - ३१ - धातोः इति वर्तते ।२१ - ३१ - धातोः कर्मणः कतुर्ः अयम् कर्मवद्भावः अतिदिश्यते ।२२ - ३१ - तत्र सम्बन्धात् एतत् गन्तव्यम् यस्य धातोः यत् कर्म तस्य चेत् कर्ता स्यात् इति ।२३ - ३१ - तत् यथा धातोः कर्मणि अण् भवति इति ।२४ - ३१ - तत्र सम्बन्धात् एतत् गम्यते यस्य धातोः यत् कर्म इति ।२५ - ३१ - इह मा भूत् ।२६ - ३१ - आहर कुम्भम् करोति कटम् इति ।२७ - ३१ - यत् अपि उच्यते कर्मस्थभावकानम् कर्मस्थक्रियाणाम् वा कर्ता कर्मवत् भवति इति वक्तव्यम् ।२८ - ३१ - कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्ता कर्मवत् मा भूत् इति ।२९ - ३१ - न वक्तव्यम् ।३० - ३१ - कर्मस्थया क्रियया अयम् कर्तारम् उपमिमीते ।३१ - ३१ - न च कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्मणि क्रियायाः प्रवृत्तिः अस्ति ।१ - १४ - किम् पुनः कर्मकर्तरि कर्माश्रयम् एव भवति आहोस्वित् कर्त्राश्रयम् अपि ।२ - १४ - किम् च अतः ।३ - १४ - यदि कर्माश्रयम् एव चङ्शप्कृद्विधयः न सिध्यन्ति ।४ - १४ - चङ् ।५ - १४ - अचीकरत कटः स्वयम् एव ।६ - १४ - शप् ।७ - १४ - नमते दण्डः स्वयम् एव ।८ - १४ - कृद्विधिः ।९ - १४ - भिदुरम् काष्ठम् स्वयम् एव ।१० - १४ - अथ कर्त्राश्रयम् अपि सिद्धम् एतत् भवति ।११ - १४ - किम् तर्हि इति ।१२ - १४ - आत्मनेपदशबादिविधिप्रतिषेधः ।१३ - १४ - आत्मनेपदम् विधेयम् शबादीनाम् च प्रतिषेधः वक्तव्यः ।१४ - १४ - उभयम् क्रियते न्यासे एव ।१ - ६८ - किमर्थम् पुनः इदम् उच्यते ।२ - ६८ - कर्मकर्तरि कर्तृत्वम् स्वातन्त्र्यस्य विवक्षितत्वात् । कर्मकर्तरि कर्तृत्वम् अस्ति ।३ - ६८ - कुतः ।४ - ६८ - स्वातन्त्र्यस्य विवक्षितत्वात् ।५ - ६८ - स्वातन्त्र्येण एव अत्र कर्ता विवक्षितः ।६ - ६८ - किम् पुनः सतः स्वातन्त्र्यस्य विवक्षा आहोस्वित् विवक्षामात्रम् ।७ - ६८ - सतः इति आह ।८ - ६८ - कथम् ज्ञायते ।९ - ६८ - भिद्यते कुशूलेन इति ।१० - ६८ - न च अन्यः कर्ता दृश्यते क्रिया च उपलभ्यते ।११ - ६८ - किम् च भोः विग्रहवता एव क्रियायाः कर्त्रा भवितव्यम् न पुनः वातातपकालाः अपि कर्तारः स्युः ।१२ - ६८ - भवेत् सिद्धम् यदि वातातपकालानाम् अन्यतमः कर्ता स्यात् ।१३ - ६८ - यः तु खलु निवाते निरभिवर्षे अचिरकालकृतः कुशूलः भिद्यते तस्य न अन्यः कर्ता भवति अन्यत् अतः कुशूलात् ।१४ - ६८ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्यः कर्ता न अस्ति इह तु कथम् न स्यात् लूयते केदारः स्वयम् एव इति यत्र असु देवदत्तः दात्रहस्तः समन्ततः विपरिपतन् दृश्यते ।१५ - ६८ - अत्र अपि या असौ सुकरता नाम तस्याः न अन्यत् कर्ता भवति अन्यत् अतः केदारात् ।१६ - ६८ - अस्ति प्रयोजनम् एतत् ।१७ - ६८ - किम् तर्हि इति ।१८ - ६८ - तत्र लान्तस्य कर्मवदनुदेशः ।१९ - ६८ - तत्र लान्तस्य कर्मवदनुदेशः कर्तव्यः ।२० - ६८ - लान्तस्य कर्ता कर्मवत् भवति इति वक्तव्यम् ।२१ - ६८ - इतरथा हि कृत्यक्तखलर्थेषु प्रतिषेधः ।२२ - ६८ - अक्रियमाणे हि लग्रहणे कृत्यक्तखलर्थेषु प्रतिषेधः वक्तव्यः स्यात् ।२३ - ६८ - कृत्य ।२४ - ६८ - भेत्तव्यः कुशूलः इति कर्म ।२५ - ६८ - सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् ।२६ - ६८ - तस्य प्रतिषेधः वक्तव्यः ।२७ - ६८ - तस्मिन् प्रतिषिद्धि अकर्मकाणाम् भावे कृत्या भवन्ति इति भावे यथा स्यात् ।२८ - ६८ - भेत्तव्यम् कुशूलेन इति ।२९ - ६८ - क्त ।३० - ६८ - भिन्नः कुशूलः इति कर्म ।३१ - ६८ - सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् ।३२ - ६८ - तस्य प्रतिषेधः वक्तव्यः ।३३ - ६८ - तस्मिन् प्रतिषिद्धि अकर्मकाणाम् भावे क्तः भवति इति भावे क्तः यथा स्यात् ।३४ - ६८ - भिन्नम् कुशूलेन ।३५ - ६८ - खलर्थः ।३६ - ६८ - ईषद्भेद्यः कुशूलः इति कर्म ।३७ - ६८ - सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् ।३८ - ६८ - तस्य प्रतिषेधः वक्तव्यः ।३९ - ६८ - तस्मिन् प्रतिषिद्धे अकर्मकाणाम् भावे खल् भवति इति भावे यथा स्यात् ।४० - ६८ - ईषद्भेद्यम् कुशूलेन इति ।४१ - ६८ - तत् तर्हि लग्रहणम् कर्तव्यम् ।४२ - ६८ - न कर्तव्यम् ।४३ - ६८ - क्रियते न्यासे एव ।४४ - ६८ - लिङि आशिषि अङ् इति द्विलकारकः निर्देशः ।४५ - ६८ - सिद्धम् तु प्राकृतकर्मत्वात् ।४६ - ६८ - सिद्धम् एतत् ।४७ - ६८ - कथम् ।४८ - ६८ - प्राकृतकर्मत्वात् ।४९ - ६८ - प्राकृतम् एव एतत् कर्म यथा कटम् करोति शकटम् करोति ।५० - ६८ - कथम् पुनः ज्ञायते प्राकृतम् एव एतत् कर्म इति ।५१ - ६८ - आत्मसंयोगे अकर्मकर्तुः कर्मदर्शनात् ।५२ - ६८ - आत्मसंयोगे अकर्मकर्तुः कर्म दृश्यते ।५३ - ६८ - क्व ।५४ - ६८ - हन्ति आत्मानम् ।५५ - ६८ - हन्यत आत्मना इति ।५६ - ६८ - विषमः उपन्यासः ।५७ - ६८ - हन्ति आत्मानम् इति कर्म दृश्यते ।५८ - ६८ - कर्ता न दृश्यते ।५९ - ६८ - आत्मना हन्यते इति कर्ता दृश्यते ।६० - ६८ - कर्म न दृश्यते ।६१ - ६८ - पदलोपः च ।६२ - ६८ - पदलोपः च द्रष्टव्यः ।६३ - ६८ - हन्ति आत्मानम् आत्मना ।६४ - ६८ - आत्मना हन्यते आत्मा इति ।६५ - ६८ - कः पुनः आत्मानम् हन्ति कः वा आत्मना हन्यते ।६६ - ६८ - द्वौ आत्मानौ अन्तरात्मा शरीरात्मा च ।६७ - ६८ - अन्तरात्मा तत् कर्म करोति येन शरीरात्मा सुखदुःके अनुभवति ।६८ - ६८ - शरीरात्मा तत् कर्म करोति येन अन्तरात्मा सुखदुःके अनुभवति ।१ - ७४ - सकर्मकाणाम् प्रतिषेधः अन्योन्यम् आश्लिष्यतः इति ।२ - ७४ - सकर्मकाणाम् प्रतिषेधः वक्तव्यः ।३ - ७४ - किम् प्रयोजनम् ।४ - ७४ - अन्योन्यम् आश्लिष्यतः ।५ - ७४ - अन्योन्यम् संस्पृशतः ।६ - ७४ - अन्योन्यम् गृह्णीतः इति ।७ - ७४ - तपेः वा सकर्मकस्य वचनम् नियमार्थम् ।८ - ७४ - तपेः वा सकर्मकस्य वचनम् नियमार्थम् भविष्यति ।९ - ७४ - तपेः एव सकर्मकस्य न अन्यस्य सकर्मकस्य इति ।१० - ७४ - तस्य तर्हि अन्यकर्मकस्य अपि प्राप्नोति ।११ - ७४ - उत्तपति सुवर्णम् सुवर्णकारः ।१२ - ७४ - उत्तप्यमानम् सुवर्णम् सुवर्णकारम् उत्तपति ।१३ - ७४ - तस्य च तपःकर्मकस्य एव ।१४ - ७४ - तस्य च तपःकर्मकस्य एव कर्ता कर्मवत् भवति न अन्यकर्मकस्य इति ।१५ - ७४ - किम् इदम् तपः इति ।१६ - ७४ - तपेः अयम् औणादिकः अस्कारः भावसाधनः ।१७ - ७४ - कः प्रकृत्यर्थः कः प्रत्ययार्थः ।१८ - ७४ - सः एव सन्तपः ।१९ - ७४ - कथम् पुनः सः एव नाम प्रकृत्यर्थः स्यात् सः एव प्रत्ययार्थः ।२० - ७४ - सामान्यतपेः अवयवतपिः कर्म भवति ।२१ - ७४ - तत् यथा ।२२ - ७४ - सः एतान् पोषान् अपुष्यत् गोपोषम् अश्वपोषम् रैपोषम् इति ।२३ - ७४ - सामान्यपुषेः अवयविपुषिः कर्म भवति ।२४ - ७४ - एवम् इह अपि सामान्यतपेः अवयवतपिः कर्म भवति ।२५ - ७४ - दुहिपच्योः बहुलम् सकर्मकयोः ।२६ - ७४ - दुहिपच्योः सकर्मकयोः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् ।२७ - ७४ - दुग्धे गौः पयः ।२८ - ७४ - तस्मात् उदुम्बरः सः लोहितम् फलम् पच्यते ।२९ - ७४ - बहुलवचनम् किमर्थम् ।३० - ७४ - परस्मैपदार्थम् ।३१ - ७४ - यदि एवम् न अर्थः बहुलवचनेन ।३२ - ७४ - न हि परस्मैपदम् इष्यते ।३३ - ७४ - सृजियुज्योः श्यन् तु ।३४ - ७४ - सृजियुज्योः सकर्मकयोः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् ।३५ - ७४ - श्यन् तु भवति ।३६ - ७४ - सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावः वाच्यः चिणात्मनेपदार्थः ।३७ - ७४ - सृज्यते मालाम् ।३८ - ७४ - असर्जि मालाम् ।३९ - ७४ - यजेः तु न्याय्ये कर्मकर्तरि यकः अभावाय ।४० - ७४ - युज्यते ब्रह्मचारी योगम् ।४१ - ७४ - करणेन तुल्यक्रियः कर्ता बहुलम् ।४२ - ७४ - करणेन तुल्यक्रियः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् ।४३ - ७४ - परिवारयन्ति कण्टकैः वृक्षम् ।४४ - ७४ - परिवारयन्ते कण्टकाः वृक्षम् इति ।४५ - ७४ - स्रवत्यादीनाम् प्रतिषेधः ।४६ - ७४ - स्रवत्यादीनाम् प्रतिषेधः वक्तव्यः ।४७ - ७४ - स्रवति कुण्डिका उदकम् ।४८ - ७४ - स्रवति कुण्डिकायाः उदकम् ।४९ - ७४ - स्रवन्ति वलीकानि उदकम् ।५० - ७४ - स्रवति वलीकेभ्यः उदकम् इति ।५१ - ७४ - सः तर्हि प्रतिषेधः वक्तव्यः ।५२ - ७४ - न वक्तव्यः ।५३ - ७४ - तुल्यक्रियः इति उच्यते ।५४ - ७४ - क्रियान्तरम् च अत्र गम्यते ।५५ - ७४ - इह तावत् स्रवति कुण्डिका उदकम् इति ।५६ - ७४ - विसृजति इति गम्यते ।५७ - ७४ - स्रवति कुण्डिकायाः उदकम् इति ।५८ - ७४ - निष्क्रामति इति गम्यते ।५९ - ७४ - स्रवन्ति वलीकानि उदकम् इति ।६० - ७४ - विसृजन्ति इति गम्यते ।६१ - ७४ - स्रवति वलीकेभ्यः उदकम् इति ।६२ - ७४ - पतति इति गम्यते ।६३ - ७४ - भूषाकर्मकिरतिसनाम् च अन्यत्र आत्मनेपदात् ।६४ - ७४ - भूषाकर्मकिरतिसनाम् च प्रतिषेधः वक्तव्यः अन्यत्र आत्मनेपदात् ।६५ - ७४ - भूषयते कन्या स्वयम् एव ।६६ - ७४ - अबुभूषत कन्या स्वयम् एव ।६७ - ७४ - मण्डयते कन्या स्वयम् एव ।६८ - ७४ - अममण्डत कन्या स्वयम् एव ।६९ - ७४ - किरति ।७० - ७४ - अवकिरते हस्ती स्वयम् एव ।७१ - ७४ - अवाकीर्ष्ट हस्ती स्वयम् एव ।७२ - ७४ - सन् ।७३ - ७४ - चिकीर्षते कटः स्वयम् एव ।७४ - ७४ - अचिकीर्षिष्ट कटः स्वयम् एव ।१ - १५ - यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् ।२ - १५ - यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् कर्तव्यम् ।३ - १५ - णि ।४ - १५ - कारयते कटः स्वयम् एव ।५ - १५ - अचीकरत कटः स्वयम् एव ।६ - १५ - णि ।७ - १५ - श्रि ।८ - १५ - उच्छ्रयते दण्डः स्वयम् एव ।९ - १५ - उदशिश्रियत दण्डः स्वयम् एव ।१० - १५ - श्रि ।११ - १५ - ब्रूञ् ।१२ - १५ - ब्रूते कथा स्वयम् एव ।१३ - १५ - अवोचत कथा स्वयम् एव ।१४ - १५ - भारद्वाजीयाः पठन्ति ।१५ - १५ - यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञात्मनेपदाकर्मकाणाम् उपसङ्ख्यानम् इति ।१ - ५७ - कुषिरजोः श्यन्विधाने सार्वधातुकवचनम् ।कुषिरजोः श्यन्विधाने सार्वधातुकग्रहणम् कर्तव्यम् ।२ - ५७ - अवचने हि लिङ्लिटोः प्रतिषेधः ।३ - ५७ - अक्रियमाणे हि सार्वधातुकग्रहणे लिङ्लिटोः प्रतिषेधः वक्तव्यः स्यात् ।४ - ५७ - चुकुषे पादः स्वयम् एव ।५ - ५७ - ररञ्जे वस्त्रम् स्वयम् एव ।६ - ५७ - कोषिषीष्ट पादः स्वयम् एव ।७ - ५७ - रङ्क्षीष्ट वस्त्रम् स्वयम् एव ।८ - ५७ - क्रियमाणे अपि सार्वधातुकग्रहणे इह प्राप्नोति ।९ - ५७ - कति इह कुष्णाणाः पादाः ।१० - ५७ - श्यना च स्यादीनाम् बाधनम् प्राप्नोति ।११ - ५७ - कोषिष्यते पादः स्वयम् एव ।१२ - ५७ - रङ्क्ष्यते वस्त्रम् स्वयम् एव ।१३ - ५७ - अकोषि पादः स्वयम् एव ।१४ - ५७ - अरञ्जि वस्त्रम् स्वयम् एव ।१५ - ५७ - यत् तावत् उच्यते सार्वधातुकग्रहणम् कर्तव्यम् इति ।१६ - ५७ - प्रकृतम् अनुवर्तते ।१७ - ५७ - क्व प्रकृतम् ।१८ - ५७ - सार्वधातुके यक् इति ।१९ - ५७ - यदि तत् अनुवर्तते पूर्वस्मिन् योगे किम् समुच्चयः ।२० - ५७ - ले च सार्वधातुके च इति ।२१ - ५७ - आहोस्वित् लग्रहणम् सार्वधातुकविशेषणम् ।२२ - ५७ - किम् च अतः ।२३ - ५७ - यदि समुच्चयः कति इह भिन्दानाः कुशूलाः इति अत्र अपि प्राप्नोति ।२४ - ५७ - अथ लग्रहणम् सार्वधातुकविशेषणम् लिङ्लिटोः न सिध्यति ।२५ - ५७ - बिभिदे कुशूलः स्वयम् एव ।२६ - ५७ - भित्सीष्ट कुशूलः स्वयम् एव इति ।२७ - ५७ - अस्तु लग्रहणम् सार्वधातुकविशेषणम् ।२८ - ५७ - ननु च उक्तम् लिङ्लिटोः न सिध्यति इति ।२९ - ५७ - लिङ्लिड्ग्रहणम् अपि प्रकृतम् अनुवर्तते ।३० - ५७ - क्व प्रकृतम् ।३१ - ५७ - कास् प्रत्ययात् आम् अमन्त्रे लिटि लिङि आशिषि आङ् इति ।३२ - ५७ - एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् कति इह कुष्णाणाः पादाः इति प्राप्नोति ।३३ - ५७ - अत्र अपि लविशिष्टम् सार्वधातुकग्रहणम् अनुवर्तते ।३४ - ५७ - यत् अपि उच्यते श्यना च स्यादीनाम् बाधनम् प्राप्नोति ।३५ - ५७ - यक्प्रतिषेधसम्बन्धेन श्यनं वक्ष्यामि ।३६ - ५७ - न दुहस्नुनमाम् यक्चिणौ ।३७ - ५७ - ततः कुषिरजोः प्राचाम् यक्चिणौ न भवतः ।३८ - ५७ - ततः श्यन् परस्मैपदम् च इति ।३९ - ५७ - यथा एव तर्हि यकः विषये श्यन् भवति एवम् चिणः अपि विषये प्राप्नोति ।४० - ५७ - अकोषि पादः स्वयम् एव ।४१ - ५७ - अरञ्जि वस्त्रम् स्वयम् एव इति ।४२ - ५७ - एवम् तर्हि द्वितीयः योगविभागः करिष्यते ।४३ - ५७ - न दुहस्नुनमाम् चिण् भवति ।४४ - ५७ - ततः यक् ।४५ - ५७ - यक् च न भवति दुहस्नुनमाम् ।४६ - ५७ - ततः कुषिरजोः प्राचाम् यक् न भवति ।४७ - ५७ - ततः श्यन् परस्मैपदम् च ।४८ - ५७ - अथ वा अनुवृत्तिः करिष्यते ।४९ - ५७ - स्यतासी लृलुटोः ।५० - ५७ - च्लि लुङि ।५१ - ५७ - च्लेः सिच् भवति ।५२ - ५७ - कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।५३ - ५७ - कुषिरजोः प्राचाम् श्यन् परस्मैपदम् च स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति इति ।५४ - ५७ - अथ वा अन्तरङ्गाः स्यादयः ।५५ - ५७ - का अन्तरङ्गता ।५६ - ५७ - लकारावस्थायाम् एव स्यादयः ।५७ - ५७ - सार्वधातुके श्यन् ।१ - ९५ - आ कुतः अयम् धात्वधिकारः ।२ - ९५ - किम् प्राक् लादेशात् आहोस्वित् आ तृतीयाध्यायपरिसमाप्तेः ।३ - ९५ - धातुवधिकारः प्राक् लादेशात् ।४ - ९५ - प्राक् लादेशात् धात्वधिकारः ।५ - ९५ - लादेशे हि व्यवहितत्वात् अप्रसिद्धिः ।६ - ९५ - अनुवर्तमाने हि लादेशे धात्वधिकारे व्यवहितव्ता अप्रसिद्धिः स्यात् ।७ - ९५ - किम् च स्यात् ।८ - ९५ - आद्ये योगे न व्यवाये तिङः स्युः । आद्ये योगे विकरणैः व्यवहितत्वात् तिङः न स्युः ।९ - ९५ - पचति पठति ।१० - ९५ - इदम् इह सम्प्रधार्यम् ।११ - ९५ - विकरणाः क्रियन्ताम् आडेशाः इति ।१२ - ९५ - किम् अत्र कर्तव्यम् ।१३ - ९५ - परत्वात् आदेशाः ।१४ - ९५ - नित्याः विकरणाः ।१५ - ९५ - कृतेषु आदेशेषु प्राप्नुवन्ति अकृतेषु अपि प्राप्नुवन्ति ।१६ - ९५ - नित्यत्वात् विकरणेषु कृतेषु विकरणैः व्यवहितत्वात् आदेशाः न प्राप्नुवन्ति ।१७ - ९५ - अनवकाशः तर्हि आदेशाः ।१८ - ९५ - सावकाशाः आदेशाः ।१९ - ९५ - कः अवकाशः ।२० - ९५ - ये एते लुग्विकरणाः श्लुविकरणाः च लिङ्लिटौ च ।२१ - ९५ - न स्यात् एत्वम् टेः टिताम् यत् विधत्ते ।२२ - ९५ - यत् च टित्सञ्ज्ञानाम् एत्वम् विधत्ते तत् च विकरणैः व्यवहितत्वात् न स्यात् ।२३ - ९५ - एशः शित्त्वम् । एकारः च शित् कर्तव्यः ।२४ - ९५ - किम् प्रयोजनम् ।२५ - ९५ - शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।२६ - ९५ - अक्रियमाणे हि शकारे तस्मात् इति उत्तरस्य आदेः इति तकारस्य एत्वे कृते द्वयोः एकारयोः श्रवणम् प्रसज्येत ।२७ - ९५ - निवृत्ते पुनः लादेशे धात्वधिकारे अलः अन्त्यस्य विधयः भवन्ति इति एकारस्य एकार्वचनने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति ।२८ - ९५ - यत् च लोटः विधत्ते ।२९ - ९५ - तत् च विकरणैः व्यवहितत्वात् न स्यात् ।३० - ९५ - किम् पुनः तत् ।३१ - ९५ - लोटः लङ्वत् एः उः सेः हि अपित् च वा छन्दसि इति ।३२ - ९५ - यत् च अपि उक्तम् लङ्लिङोः तत् च न स्यात् ।३३ - ९५ - किम् पुनः तत् ।३४ - ९५ - नित्यम् ङितः इतः च तस्थस्थमिपाम् ताम्तम्तामः लिङः सीयुट् यासुट् परस्मैपदेषु उदात्तः ङित् च इति ।३५ - ९५ - तस्मात् प्राक् लादेशात् धात्वधिकारः ।३६ - ९५ - यदि प्राक् लादेशात् धात्वधिकारः अकारः शित् कर्तव्यः ।३७ - ९५ - किम् प्रयोजनम् ।३८ - ९५ - शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।३९ - ९५ - अनुवर्तमाने पुनः लादेशे धात्वधिकारे तस्मात् इति उत्तरस्य आदेः इति थकारस्य अत्वे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् ।४० - ९५ - पेच यूयम् ।४१ - ९५ - चक्र यूयम् इति ।४२ - ९५ - ननु च निवृत्ते अपि लादेशे धात्वधिकारे अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य अकार्वचनने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति ।४३ - ९५ - अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् ।४४ - ९५ - किम् ।४५ - ९५ - वक्ष्यति एतत् तत् अकारस्य अकारवचनम् समसङ्ख्यार्थम् इति ।४६ - ९५ - आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् कर्तव्यम् धातोः परस्य आर्धधातुकसञ्ज्ञा यथा स्यात् ।४७ - ९५ - इह मा भूत् ॒ वृक्ष्त्वम् वृक्षता इति ।४८ - ९५ - तस्मात् लादेशे धात्वधिकारः अनुवर्त्यः ।४९ - ९५ - ननु च उक्तम् आद्ये योगे न व्यवाये तिङः स्युः इति ।५० - ९५ - न एषः दोषः ।५१ - ९५ - आनुपूर्व्यात् सिद्धम् एतत् ।५२ - ९५ - न अत्र अकृतेषु आदेशेषु विकरणाः प्राप्नुवन्ति ।५३ - ९५ - किम् कारणम् ।५४ - ९५ - सार्वधातुके विकरणाः उच्यन्ते ।५५ - ९५ - न च अकृतेषु आदेशेषु सार्वधातुकत्वम् भवति ।५६ - ९५ - ये तर्हि न एतस्मिन् विशेषे विधीयन्ते ।५७ - ९५ - के पुनः ते ।५८ - ९५ - स्यादयः ।५९ - ९५ - तत्र अपि विहितविशेषणम् धातुग्रहणम् ।६० - ९५ - धातोः विहितस्य लस्य इति ।६१ - ९५ - यदि एवम् विन्दति इति णलादयः प्राप्नुवन्ति ।६२ - ९५ - धातुना अत्र विहितम् विशेषयिष्यामः विदिना च आनतर्यम् ।६३ - ९५ - धातोः विहितस्य लस्य विदेः अनन्तरस्य इति ।६४ - ९५ - इह तर्हि अजक्षिष्यन् अजागैर्ष्यन् इति अभ्यस्तात् झेः जुस् भवति इति जुस्भावः प्राप्नोति ।६५ - ९५ - अत्र अपि धातुना विहितम् विशेषयिष्यामः अभ्यस्तेन आनन्तर्यम् ।६६ - ९५ - धातोः विहितस्य अभस्तात् अनन्तरस्य इति ।६७ - ९५ - आतः इति अत्र कथम् विशेषयिष्यसि ।६८ - ९५ - यदि तावत् धातुग्रहणम् विहितविशेषणम् आकारग्रहणम् आनन्तर्यविशेषणम् अलुनन् इति अत्र अपि प्राप्नोति ।६९ - ९५ - अथ आकारग्रहणम् विहितविशेषणम् धातुग्रहणम् आनन्तर्यविशेषणम् अपिबन् इति अत्र अपि प्राप्नोति ।७० - ९५ - अस्तु तर्हि धातुग्रहणम् विहितविशेषणम् आकारग्रहणम् आनन्तर्यविशेषणम् ।७१ - ९५ - ननु च उक्तम् अलुनन् इति अत्र अपि प्राप्नोति इति ।७२ - ९५ - न एषः दोषः ।७३ - ९५ - लोपे कृते न भविष्यति ।७४ - ९५ - न अत्र लोपः प्राप्नोति ।७५ - ९५ - किम् कारणम् ।७६ - ९५ - ईत्वेन बाध्यते ।७७ - ९५ - न अत्र ईत्वम् प्राप्नोति ।७८ - ९५ - किम् कारणम् ।७९ - ९५ - अन्तिभावेन बाध्यते ।८० - ९५ - न अत्र अन्तिभावः प्राप्नोति ।८१ - ९५ - किम् कारणम् ।८२ - ९५ - जुस्भावेन बाध्यते ।८३ - ९५ - न अत्र जुस्भावः प्राप्नोति ।८४ - ९५ - किम् कारणम् ।८५ - ९५ - लोपेन बाध्यते ।८६ - ९५ - लोपः ईत्वेन ईत्वम् अन्तिभावेन अन्तिभावः जुस्भावेन जुस्भावः लोपेन इति चक्रकम् अव्यवस्था प्रसज्येत ।८७ - ९५ - न अस्ति चक्रकप्रसङ्गः ।८८ - ९५ - न हि अव्यवस्थाकारिणा शास्त्रेण भवितव्यम् ।८९ - ९५ - शास्त्रेण नाम व्यवस्थाकारिणा भवितव्यम् ।९० - ९५ - न च अत्र हलादिना मुहूर्तम् अपि शक्यम् अवस्थातुम् ।९१ - ९५ - तावति एव अन्तिभावेन भवितव्यम् ।९२ - ९५ - अन्तिभावे कृते लोपः ।९३ - ९५ - लोपेन व्यवस्था भविष्यति ।९४ - ९५ - यत् अपि उच्यते एशः शित्त्वम् इति ।९५ - ९५ - क्रियते न्यासे एव ।१ - ४१ - कानि पुनः अस्य योगस्य प्रयोजनानि ।२ - ४१ - प्रयोजनम् प्रातिपदिकप्रतिषेधः ।३ - ४१ - प्रातिपदिकप्रतिषेधः प्रयोजनम् ।४ - ४१ - धातोः तव्यादयः यथा स्युः ।५ - ४१ - प्रातिपदिकात् मा भूवन् इति ।६ - ४१ - न एतत् अस्ति प्रयोजनम् ।७ - ४१ - साधने ताव्यादयः विधीयन्ते साधनम् च क्रियायाः ।८ - ४१ - क्रियाभावात् साधनाभावः ।९ - ४१ - साधनाभावात् असति अपि धात्वधिकारे प्रातिपदिकात् तव्यादयः न भविष्यन्ति ।१० - ४१ - स्वपादिषु ।११ - ४१ - स्वपादिषु तर्हि प्रयोजनम् ।१२ - ४१ - स्वपिति ।१३ - ४१ - सुपति इति मा भूत् ।१४ - ४१ - अङ्गसञ्ज्ञा च ।१५ - ४१ - अङ्गसञ्ज्ञा च प्रयोजनम् ।१६ - ४१ - यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति धातोः अङ्गसञ्ज्ञा सिद्धा भवति ।१७ - ४१ - कृत्सञ्ज्ञा च ।१८ - ४१ - कृत्सञ्ज्ञा च प्रयोजनम् ।१९ - ४१ - धातुविहितस्य प्रत्ययस्य कृत्सञ्ज्ञा सिद्धा भवति ।२० - ४१ - उपपदसञ्ज्ञा च. उपपदसञ्ज्ञा च प्रयोजनम् ।२१ - ४१ - तत्र एतस्मिन् धात्वधिकारे सप्तमीनिर्दिष्टम् उपपदस्ञ्ज्ञम् भवति इति उपपदसञ्ज्ञा सिद्धा भवति ।२२ - ४१ - कृदुपपदसञ्ज्ञे तावन् न प्रयोजनम् ।२३ - ४१ - अधिकारात् अपि एते सिद्धे ।२४ - ४१ - स्वपादिषु तर्हि अङ्गसञ्ज्ञा च प्रयोजनम् ।२५ - ४१ - धातुग्रहणम् अनर्थकम् यङ्विधौ धात्वधिकारात् ।२६ - ४१ - धातुग्रहणम् अनर्थकम् ।२७ - ४१ - किम् कारणम् ।२८ - ४१ - यङ्विधौ धात्वधिकारात् ।२९ - ४१ - यङ्विधौ धातुग्रहणम् प्रकृतम् अनुवर्तते ।३० - ४१ - तत् च अवश्यम् अनुवर्त्यम् ।३१ - ४१ - अनधिकारे हि अङ्गसञ्ज्ञाभावः ।३२ - ४१ - अनधिकारे हि सति अङ्गसञ्ज्ञायाः अभावः स्यात् ।३३ - ४१ - करिष्यति हरिष्यति इति ।३४ - ४१ - यद् तत् अनुवर्तते चूर्णचुरादिभ्यः णिच् भवति धातोः च इति धातुमात्रात् णिच् प्राप्नोति ।३५ - ४१ - हेतुमद्वचनम् तु ज्ञापकम् अन्यत्राभावस्य ।३६ - ४१ - यत् अयम् हेतुमति च इति आह तत् ज्ञापयति आचार्यः न धातुमात्रात् णिच् भवति इति ।३७ - ४१ - इह तर्हि कण्ड्वादिभ्यः यक् भवति धातोः च इति धातुमात्रात् यक् प्राप्नोति ।३८ - ४१ - कण्ड्वादिषु च व्यपदेशिवद्वचनात् ।३९ - ४१ - यत् अयम् कण्ड्वादिभ्यः यक् भवति इति आह तत् ज्ञापयति आचार्यः न धातुमात्रात् यक् भवति इति ।४० - ४१ - अथ वा कण्ड्वादिभ्यः धातुग्रहणेन अभिसम्भन्त्स्यामः ।४१ - ४१ - कण्ड्वादिभ्यः धातुभ्यः इति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP