संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ३|पाद १| खण्ड ३२ पाद १ खण्ड ३१ खण्ड ३२ खण्ड ३३ खण्ड ३४ खण्ड ३५ खण्ड ३६ पाद १ - खण्ड ३२ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ३२ Translation - भाषांतर १ - ८४ - किमर्थः चकारः ।२ - ८४ - स्वरार्थः ।३ - ८४ - चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।४ - ८४ - न एतत् अस्ति प्रयोजनम् ।५ - ८४ - एकाच् अयम् ।६ - ८४ - तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।७ - ८४ - प्रत्ययस्वरेण एव सिद्धम् ।८ - ८४ - विशेषणार्थः तर्हि ।९ - ८४ - क्व विशेषणार्थेन अर्थः ।१० - ८४ - अस्य च्वौ क्यचि च इति ।११ - ८४ - क्ये च इति उच्यमाने अपि काकः श्येनायते अत्र अपि प्रसय्जेत ।१२ - ८४ - न एतत् अस्ति ।१३ - ८४ - तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणम् न इति एवम् एतस्य न भविष्यति ।१४ - ८४ - सामान्यग्रहणाविघातार्थः तर्हि ।१५ - ८४ - क्व च सामान्यग्रहणाविघातार्थेन अर्थः ।१६ - ८४ - नः क्ये इति ।१७ - ८४ - अथ आत्मन्ग्रहणम् किमर्थम् ।१८ - ८४ - आत्मेच्छायाम् यथा स्यात् ।१९ - ८४ - परेच्छायाम् मा भूत् इति ।२० - ८४ - राज्ञः पुत्रम् इच्छति इति ।२१ - ८४ - क्रियमाणे अपि आत्मग्रहणे परेच्छायाम् प्राप्नोति ।२२ - ८४ - किम् कारणम् ।२३ - ८४ - आत्मनः इति इयम् कर्तरि षष्ठी ।२४ - ८४ - इच्छा इति अकारः भावे ।२५ - ८४ - सः यदि एव आत्मनः इच्छा अथ अपि परस्य आत्मेच्छा एव असौ भवति ।२६ - ८४ - न आत्मग्रहणेन इच्छा अभिसम्बध्यते ।२७ - ८४ - किम् तर्हि ।२८ - ८४ - सुबन्तम् अभिसम्बध्यते ।२९ - ८४ - आत्मनः यत् सुबन्तम् इति ।३० - ८४ - यदि आत्मग्रहणम् क्रियते छन्दसि परेच्छायाम् न प्राप्नोति ।३१ - ८४ - म त्वा वृकाः अघायवः विदन् ।३२ - ८४ - तस्मात् न अर्थः आत्मग्रहणेन ।३३ - ८४ - इह कस्मात् न भवति ॒ राज्ञः पुत्रम् इच्छति इति ।३४ - ८४ - असामर्थ्यात् ।३५ - ८४ - कथम् असामर्थ्यम् ।३६ - ८४ - सापेक्षम् असमर्थम् भवति इति ।३७ - ८४ - छन्दसि अपि तर्हि न प्राप्नोति ।३८ - ८४ - म त्वा वृकाः अघायवः विदन् ।३९ - ८४ - अस्ति अत्र विशेषः ।४० - ८४ - अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते ।४१ - ८४ - कथम् पुनः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते ।४२ - ८४ - ते च एव वृकाः एवमात्मकः हिंस्राः ।४३ - ८४ - कः च आत्मनः अघम् एषितुम् अर्हति ।४४ - ८४ - अतः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते ।४५ - ८४ - यथा एव तर्हि छन्दसि अघशब्दात् परेच्छायाम् ख्यच् भवति एवम् भाषायाम् अपि प्राप्नोति ।४६ - ८४ - अघम् इच्छति इति ।४७ - ८४ - तस्मात् आत्मग्रहणम् कर्तव्यम् ।४८ - ८४ - छन्दसि कथम् ।४९ - ८४ - आचार्यप्रवृत्तिः ज्ञापयति भवति छन्दसि अघशब्दात् परेच्छायाम् क्यच् इति यत् अयम् अश्वाघस्यात् इति क्यचि प्रत्कृते ईत्वबाधनार्थम् आकारम् शास्ति ।५० - ८४ - अथ सुब्ग्रहणम् किमर्थम् ।५१ - ८४ - सुबन्तात् उत्पत्तिः यथ स्यात् ।५२ - ८४ - प्रातिपदिकात् मा भूत् इति ।५३ - ८४ - न एतत् अस्ति प्रयोजनम् ।५४ - ८४ - न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा अयम् अस्ति विशेषः ।५५ - ८४ - सुबन्तात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा भवति ।५६ - ८४ - प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा न प्राप्नोति ।५७ - ८४ - ननु च प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा ।५८ - ८४ - कथम् ।५९ - ८४ - आरभ्यते नः क्ये इति ।६० - ८४ - तत् च अवश्यम् कर्तव्यम् सुबन्तात् उत्पत्तौ सत्याम् नियमार्थम् ।६१ - ८४ - तत् एव प्रातिपदिकात् उत्पत्तौ सत्याम् विध्यर्थम् भविष्यति ।६२ - ८४ - इदम् तर्हि प्रयोजनम् ।६३ - ८४ - सुबन्तात् उत्पत्तिः यथ स्यात् ।६४ - ८४ - धातोः मा भूत् इति ।६५ - ८४ - एतत् अपि न अस्ति प्रयोजनम् ।६६ - ८४ - धातोः सन् विधीयते ।६७ - ८४ - सः बाधकः भविष्यति ।६८ - ८४ - अनवकाशाः हि विधयः बाधकाः भवन्ति सावकाशः च सन् ।६९ - ८४ - कः अवकाशः ।७० - ८४ - परेच्छा ।७१ - ८४ - न परेच्छायाम् सना भवितव्यम् ।७२ - ८४ - किम् कारणम् ।७३ - ८४ - समानकर्तृकात् इति उच्यते ।७४ - ८४ - यावत् च इह आत्मग्रहणम् तावत् तत्र समानकर्तृकग्रहणम् ।७५ - ८४ - इदम् तर्हि प्रयोजनम् ।७६ - ८४ - सुबन्तात् उत्पत्तिः यथ स्यात् ।७७ - ८४ - वाक्यात् मात् भूत् इति ।७८ - ८४ - महान्तम् पुत्रम् इच्छति इति ।७९ - ८४ - न वा भवति महापुत्रीयति इति ।८० - ८४ - भवति यदा एतत् वाक्यम् भवति ।८१ - ८४ - महान् पुत्रः महापुत्रः ।८२ - ८४ - महापुत्रम् इच्छति महापुत्रीयति इति ।८३ - ८४ - यदा तु एतत् वाक्यम् भवति महान्तम् पुत्रम् इच्छति इति तदा न भवितव्यम् तदा च प्राप्नोति ।८४ - ८४ - तदा मा भूत् इति ।१ - ६३ - अथ क्रियमाणे अपि सुब्ग्रहणे कस्मात् एव अत्र न भवति ।२ - ६३ - सुबन्तम् हि एतत् वाक्यम् ।३ - ६३ - न एतत् सुबन्तम् ।४ - ६३ - कथम् ।५ - ६३ - प्रत्ययग्रहणे यस्मात् तदादेः ग्रहणम् भवति इति ।६ - ६३ - अथ यत् अत्र सुबन्तम् तस्मात् उत्पत्तिः कस्मात् न भवति ।७ - ६३ - समानाधिकरणानाम् सर्वत्र अवृत्तिः अयोगात् एकेन ।८ - ६३ - समानाधिकरणानाम् सर्वत्र एव वृत्तिः न भवति ।९ - ६३ - क्व सर्वत्र ।१० - ६३ - समासविधौ प्रत्ययविधौ ।११ - ६३ - समासविधौ तावत् ।१२ - ६३ - ऋद्धस्य राज्ञः पुरुषः ।१३ - ६३ - महत् कष्टम् श्रितः इति ।१४ - ६३ - प्रत्ययविधौ ।१५ - ६३ - ऋद्धस्य उपगोः अपत्यम् ।१६ - ६३ - महान्तम् पुत्रम् इच्छति ।१७ - ६३ - इति ।१८ - ६३ - किम् पुनः कारणम् समानाधिकरणानाम् सर्वत्र वृत्तिः न भवति ।१९ - ६३ - अयोगात् एकेन ।२० - ६३ - न हि एकेन पदेन योगः भवति ।२१ - ६३ - इह तावत् ऋद्धस्य राज्ञः पुरुषः इति षष्ठ्यन्तेन सुबन्तेन सामर्थ्ये सति समासः विधीयते ।२२ - ६३ - यत् च अत्र षष्थ्यन्तम् न तस्य सुबन्तेन सामर्थ्यम् ।२३ - ६३ - यस्य च सामर्थ्यम् न तत् षष्ठ्यन्तम् ।२४ - ६३ - वाक्यम् तत् ।२५ - ६३ - ऋद्धस्य उपगोः अपत्यम् इति च ।२६ - ६३ - षष्ठीसमर्थात् अपत्येन योगे प्रत्ययः विधीयते ।२७ - ६३ - यत् च अत्र षष्ट्ःीसमर्थम् न तस्य अपतत्येन योगः यस्य च अप्तत्येन योगः न तत् षष्ठ्यन्तम् ।२८ - ६३ - वाक्यम् तत् ।२९ - ६३ - समानाधिकरणानाम् इति उच्यते ।३० - ६३ - अथ व्यधिकरणानाम् कथम् ।३१ - ६३ - राज्ञः पुत्रम् इच्छति इति ।३२ - ६३ - एवम् तर्हि इदम् पठितव्यम् ।३३ - ६३ - सविशेषणानाम् सर्वत्र अवृत्तिः अयोगात् एकेन ।३४ - ६३ - द्वितीयानुपपत्तिः तु ।३५ - ६३ - द्वितीया तु न उपपद्यते ।३६ - ६३ - महान्तम् पुत्रम् इच्छति इति ।३७ - ६३ - किम् कारणम् ।३८ - ६३ - न पुत्रः इषिकर्म ।३९ - ६३ - यदि पुत्रः न इषिकर्म न च अवश्यम् द्वितीया एव ।४० - ६३ - किम् तर्हि ।४१ - ६३ - सर्वाः द्वितीयादयः विभक्तयः ।४२ - ६३ - महता पुत्रेण कृतम् ।४३ - ६३ - महते पुत्राय देहि ।४४ - ६३ - महः पुत्रात् आनय ।४५ - ६३ - महतः पुत्रस्य स्वम् ।४६ - ६३ - महति पुत्रे निधेहि ।४७ - ६३ - तस्मात् न एवम् शक्यम् वक्तुम् न पुत्रः इषिकर्म इति ।४८ - ६३ - पुत्र एव इषिकर्म ।४९ - ६३ - तत्सामानाधिकरण्यात् द्वितीयादयः भविष्यन्ति ।५० - ६३ - वृत्तिः तर्हि कस्मात् न भवति ।५१ - ६३ - सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति वक्तव्यम् ।५२ - ६३ - यदि सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति उच्यते मुण्डयति माणवकम् इति अत्र वृत्तिः न प्राप्नोति ।५३ - ६३ - अमुण्डादीनाम् इति वक्तव्यम् ।५४ - ६३ - तत् तर्हि वक्तव्यम् सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते अमुण्डादीनाम् इति ।५५ - ६३ - न वक्तव्यम् ।५६ - ६३ - वृत्तिः कस्मात् न भवति महान्तम् पुत्रम् इच्छति इति ।५७ - ६३ - अगमकत्वात् ।५८ - ६३ - इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च ।५९ - ६३ - यः च इह अर्थः वाक्येन गम्यते महान्तम् पुत्रम् इच्छति इति न असौ जातु चित् प्रत्ययान्तेन गम्यते महान्तम् पुत्रीयति इति ।६० - ६३ - एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति ।६१ - ६३ - न ब्रूमः अपशब्दः स्यात् इति ।६२ - ६३ - यत्र च गमकत्वम् भवति तत्र वृत्तिः ।६३ - ६३ - तत् यथा मुण्डयति माणवकम् इति ।१ - ७२ - अथ अस्य क्यजन्तस्य कानि साधनानि भवन्ति ।२ - ७२ - भावः कर्ता च ।३ - ७२ - अथ कर्म ।४ - ७२ - न अस्ति कर्म ।५ - ७२ - ननु च अयम् इषिः सकर्मकः यस्य अयम् अर्थे क्यच् विधीयते ।६ - ७२ - अभिहितम् तत् कर्म अन्तर्भूतम् धात्वर्थः सम्पन्नः ।७ - ७२ - न च इदानीम् अन्यत् कर्म अस्ति येन सकर्मकः स्यात् ।८ - ७२ - कथम् तर्हि अयम् सकर्मकः भवति अपुत्रम् पुत्रम् इव आचरति पुत्रीयति माणवकम् इति ।९ - ७२ - अस्ति अत्र विशेषः ।१० - ७२ - द्वे हि अत्र कर्मणी उपमानकर्म उपमेयकर्म च ।११ - ७२ - उपमानकर्म अन्तर्भूतम् ।१२ - ७२ - उपमेयेन कर्मणा सकर्मकः भवति ।१३ - ७२ - तत् यथा ।१४ - ७२ - अपि काकः श्येनायते इति अत्र द्वौ कर्तारौ उपमानकर्ता च उपमेयकर्ता च. उपमानकर्ता अन्तर्भूतः ।१५ - ७२ - उपेमेयकर्त्रा सक्र्तृकः भवति ।१६ - ७२ - अयम् तर्हि कथम् सकर्मकः भवति ।१७ - ७२ - मुण्डयति माणवकम् इति ।१८ - ७२ - अत्र अपि द्वे कर्मणी सामान्यकर्म विशेषकर्म च ।१९ - ७२ - सामान्यकर्म अन्तर्भूतम् ।२० - ७२ - विशेषकर्मणा सकर्मकः भवति ।२१ - ७२ - ननु च वृत्त्या एव अत्र न भवितव्यम् ।२२ - ७२ - किम् कारणम् ।२३ - ७२ - असामर्थ्यात् ।२४ - ७२ - कथम् असामर्थ्यम् ।२५ - ७२ - सापेक्षम् असमर्थम् भवति इति ।२६ - ७२ - न एषः दोषः ।२७ - ७२ - न अत्र उभौ करोतियुक्तौ मुण्डः माणवकः च ।२८ - ७२ - न हि माणवकः क्रियते ।२९ - ७२ - यदा च उभौ करोतियुक्तौ भवतः न भवति तदा वृत्तिः ।३० - ७२ - तत् यथा बलीवर्दम् करोति मुण्डम् च एनम् करोति इति ।३१ - ७२ - कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः माणवकम् मुण्डम् इच्छति इति ।३२ - ७२ - न उभौ इषियुक्तौ इति ।३३ - ७२ - न कर्तव्यः ।३४ - ७२ - उभौ अत्र इषियुक्तौ मुण्डः माणवकः च ।३५ - ७२ - कथम् ।३६ - ७२ - न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति ।३७ - ७२ - माणवकस्थम् असौ मौण्ड्यम् इच्छति ।३८ - ७२ - इह अपि तर्हि न प्राप्नोति मुण्डयति माणवकम् इति ।३९ - ७२ - अत्र अपि हि उभौ करोतियुक्त मुण्डः माणवकः च ।४० - ७२ - न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति ।४१ - ७२ - माणवकस्थम् असु मौण्ड्यम् निर्वर्तयति ।४२ - ७२ - एवम् तर्हि मुण्डादयः गुअणवचनाः ।४३ - ७२ - गुणवचनाः च सापेक्षाः ।४४ - ७२ - वचनात् सापेक्षाणाम् अपि वृत्तिः भविष्यति ।४५ - ७२ - अथ वा धातवः एव मुण्डादयः ।४६ - ७२ - न न एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते ।४७ - ७२ - अथ वा न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च ।४८ - ७२ - यदा वाक्यम् न तदा प्रत्ययः ।४९ - ७२ - यदा प्रत्ययः सामान्येन तदा वृत्तिः ।५० - ७२ - तत्र अव्श्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।५१ - ७२ - मुण्डयति ।५२ - ७२ - कम् ।५३ - ७२ - माणवकम् इति ।५४ - ७२ - मुण्डविशिष्टेन वा करोतिन तम् आप्तुम् इच्छति ।५५ - ७२ - अथ वा उक्तम् एतत् ।५६ - ७२ - न अत्र व्यापारः अनुगन्तव्यः इति ।५७ - ७२ - गमक्त्वात् इह वृत्तिः भविष्यति ।५८ - ७२ - मुण्डयति माणवकम् इति ।५९ - ७२ - अथ इह क्यचा भवितव्यम् ।६० - ७२ - इष्टः पुत्रः ।६१ - ७२ - इष्यते पुत्रः इति ।६२ - ७२ - के चित् तावत् आहुः न भवितव्यम् इत् ।६३ - ७२ - किम् कारणम् ।६४ - ७२ - स्वशब्देन उक्तत्वात् इति ।६५ - ७२ - अपरे आहुः ॒ भवितव्यम् इति ।६६ - ७२ - किम् कारणम् ।६७ - ७२ - धात्वर्थे अयम् क्यच् विधीयते ।६८ - ७२ - सः च धात्वर्थः केन चित् एव शब्देन निर्देष्टव्यः इति ।६९ - ७२ - इहभवन्तः तु आहुः न भवितव्यम् इति ।७० - ७२ - किम् कारणम् ।७१ - ७२ - इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च ।७२ - ७२ - यः च इह अर्थः वाक्येन गम्यते इष्टः पुत्रः इष्यते पुत्रः इति न असौ जातु चित् प्रत्ययान्तेन गम्यते ।१ - १३ - क्यचि मान्ताव्ययप्रतिषेधः ।२ - १३ - क्यचि मान्ताव्ययानाम् प्रतिषेधः वक्तव्यः ।३ - १३ - इह मात् भूत् ।४ - १३ - इदम् इच्छति ।५ - १३ - किम् इच्छति ।६ - १३ - उच्चैः इच्छति ।७ - १३ - नीचैः इच्छति ।८ - १३ - गोसमानाक्षरनान्तात् इति एके ।९ - १३ - गाम् इच्छति गव्यति ।१० - १३ - समानाक्षरात् ।११ - १३ - दधीयति मधति कर्त्रीयति हर्त्रीयति ।१२ - १३ - नान्तात् ।१३ - १३ - राजीयति तक्षीयति ।१ - ३८ - किमर्थः चकारः ।२ - ३८ - स्वरार्थः ।३ - ३८ - चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।४ - ३८ - न एतत् अस्ति प्रयोजनम् ।५ - ३८ - धातुस्वरेण अपि एतत् सिद्धम् ।६ - ३८ - ककारस्य तर्हि इत्सञ्ज्ञापरित्राणार्थः आदितः चकारः कर्तव्यः ।७ - ३८ - अतः उत्तरम् पठति ।८ - ३८ - काम्यचः चित्करणानर्थक्यम् कस्य इदर्थाभावात् ।९ - ३८ - काम्यचः चित्करणम् अनर्थकम् ।१० - ३८ - ककारस्य तर्हि इत्सञ्ज्ञा कस्मात् न भवति ।११ - ३८ - इदर्थाभावात् ।१२ - ३८ - इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।१३ - ३८ - ननु च लोपः एव इत्कार्यम् ।१४ - ३८ - अकार्यम् लोपः ।१५ - ३८ - इह हि शब्दस्य कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा ।१६ - ३८ - कर्यम् च इह न अस्ति ।१७ - ३८ - कार्ये असति यदि श्रवणम् अपि न स्यात् उपदेशः अनर्थकः स्यात् ।१८ - ३८ - इदम् तर्हि इत्कार्यम् ।१९ - ३८ - अग्निचित्कम्यति ।२० - ३८ - किति इति गुणप्रतिषेधः यथा स्यात् ।२१ - ३८ - न एतत् अस्ति प्रयोजनम् ।२२ - ३८ - सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते ।२३ - ३८ - धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते ।२४ - ३८ - न च अयम् धातोः विधीयते ।२५ - ३८ - इदम् तर्हि ।२६ - ३८ - उपयट्काम्यति ।२७ - ३८ - किति इति सम्प्रसारणम् यथा स्यात् ।. एतत् अपि न अस्ति प्रयोजनम् ।२८ - ३८ - यजादिभिः अत्र कितम् विशेषयिष्यामः ।२९ - ३८ - यजादीनाम् यः कित् इति ।३० - ३८ - कः च यजादीनाम् कित् ।३१ - ३८ - यजादिभ्यः यः विहितः इति ।३२ - ३८ - अथ अपि कथम् चित् इत्कार्यम् स्यात् ।३३ - ३८ - एवम् अपि न दोषः ।३४ - ३८ - क्रियते न्यासे एव द्विचकारकः निर्देशः ।३५ - ३८ - सुपः आत्मनः क्यच् च्काम्यत् च इति ।३६ - ३८ - अथ वा छान्दसम् एतत् ।३७ - ३८ - दृष्टानुविधिः छन्दसि भवति ।३८ - ३८ - न च अत्र सम्प्रसारणम् दृश्यते ।१ - ३ - अधिकरणात् च ।२ - ३ - अधिकरणात् च इति वक्तव्यम् ।३ - ३ - प्रासादयति कुट्याम् कुटीयति प्रासादे इति अत्र अपि यथा स्यात् ।१ - २५ - सलोपसन्नियोगेन अयम् क्यङ् विधीयते ।२ - २५ - तेन यत्र एव सलोपः तत्र एव स्यात् ।३ - २५ - पयायते ।४ - २५ - इह न स्यात् ।५ - २५ - अपि काकः श्येनायते ।६ - २५ - न एषः दोषः ।७ - २५ - प्रधान्शिष्टः क्यङ् ।८ - २५ - अन्वाचयशिष्टः सलोपः ।९ - २५ - यत्र च सकारम् पश्यसि इति ।१० - २५ - तत् यथ ।११ - २५ - कः चित् उक्तः ग्रामे भिक्षाम् चर देवदत्तम् च आनय इति ।१२ - २५ - सः ग्रामे भिक्षाम् चरति ।१३ - २५ - यदि देवदत्तम् पश्यति तम् अपि आनयति ।१४ - २५ - सलोपः वा ।१५ - २५ - सलोपः वा इति वक्तव्यम् ।१६ - २५ - पयायते पयस्यते ।१७ - २५ - ओजोप्सरसोः नित्यम् ।१८ - २५ - ओजोप्सरसोः नित्यम् सलोपः वक्तव्यः ।१९ - २५ - ओजायमानम् यः अहिम् जघान ।२० - २५ - अप्सरायते ।२१ - २५ - अप्रः आह सलोपः अप्सरसः एव ।२२ - २५ - पयस्यते इति एव भवितव्यम् इति ।२३ - २५ - कथम् ओजायमानम् यः अहिम् जघन इति ।२४ - २५ - छान्दसः प्रयोगः ।२५ - २५ - छन्दसि च दृष्टानुविधिः विधीयते ।१ - २९ - आचारे गल्भक्लीबहोडेभ्यः क्विप् वा ।२ - २९ - आचारे गल्भक्लीबहोडेभ्यः क्विप् वा वक्तव्यः ।३ - २९ - अवगल्भते अवगल्भायते ।४ - २९ - क्लीब ।५ - २९ - विक्लीबते विक्लीबायते ।६ - २९ - क्लीब ।७ - २९ - होड ।८ - २९ - विहोडते विहोडायते ।९ - २९ - किम् प्रयोजनम् ।१० - २९ - क्रियावचनता यथा स्यात् ।११ - २९ - न एतत् अस्ति प्रयोजनम् ।१२ - २९ - धातवः एव गल्भादयः ।१३ - २९ - न च एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते ।१४ - २९ - इदम् तर्हि प्रयोजनम् ।१५ - २९ - अवगल्भा विक्लीबा विहोडा ।१६ - २९ - अ प्रत्ययात् इति अकारः यथा स्यात् ।१७ - २९ - मा भूत् एवम् ।१८ - २९ - गुरोः च हलः इति एवम् भविष्यति ।१९ - २९ - इदम् तर्हि ।२० - २९ - अवगल्भाम् चक्रे ।२१ - २९ - विक्लीबाम् चक्रे ।२२ - २९ - विहोडाम् चक्रे ।२३ - २९ - कास्प्रत्ययात् आम् अमन्त्रे इति आम् यथा स्यात् ।२४ - २९ - अपरः आह ॒ सर्वप्रातिपदिकेभ्यः आचारे क्विप् वक्तव्यः अश्वति गर्दभति इति एवमर्थम् ।२५ - २९ - न तर्हि इदानीम् गल्भाद्यनुक्रमणम् कर्तव्यम् ।२६ - २९ - कर्तव्यम् च ।२७ - २९ - किम् प्रयोजनम् ।२८ - २९ - आत्मनेपदार्थम् अनुबन्धान् आसङ्क्ष्यामि इति ।२९ - २९ - गल्भ क्लीब होड ।१ - ६ - हलः लोपसन्नियोगेन अयम् क्यङ् विधीयते ।२ - ६ - तेन यत्र एव हलः लोपः तत्र एव प्रसज्येत ।३ - ६ - न एषः दोषः ।४ - ६ - प्रधानशिष्टः क्यङ् ।५ - ६ - अन्वाचयशिष्टः हलः लोपः ।६ - ६ - यत्र च हलम् पश्यसि इति ।१ - ३० - भृशादिषु अभूततद्भावग्रहणम् ।२ - ३० - भृशादिषु अभूततद्भावग्रहणम् कर्तव्यम् ।३ - ३० - इह मा भूत् ।४ - ३० - क्व दिवा भृशाः भवन्ति इति ।५ - ३० - च्विप्रतिषेधानर्थक्यम् च भवत्यर्थे क्यङ्वचनात् । च्विप्रतिषेधः च अनर्थकः ।६ - ३० - किम् कारणम् ।७ - ३० - भवत्यर्थे क्यङ्वचनात् ।८ - ३० - भवत्यर्थे हि क्यङ् विधीयते ।९ - ३० - भवतियोगे च्विविधानम् । भवतिना योगे च्विः विधीयते ।१० - ३० - तत्र च्विना उक्तत्वात् तस्य अर्थस्य क्यङ् न भविष्यति ।११ - ३० - डाजन्तात् अपि तर्हि न प्राप्नोति ।१२ - ३० - पटपटायते ।१३ - ३० - डाच् अपि हि भवतिना योगे विधीयते ।१४ - ३० - भवत्यर्थे क्यष् ।१५ - ३० - डाचि वचनप्रामाण्यात् ।१६ - ३० - डाचि वचनप्रामाण्यात् भविष्यति ।१७ - ३० - किम् वचनप्रामाण्यम् ।१८ - ३० - लोहितादिडाज्भ्यः क्यष् इति ।१९ - ३० - इह किम् चित् अक्रियमाणम् चोद्यते किम् चित् क्रियमाणम् प्रत्याख्यायते ।२० - ३० - सः सूत्रभेदः कृतः भवति ।२१ - ३० - यथान्यासम् एव अस्तु ।२२ - ३० - ननु च उक्तम् इह कस्मात् न भवति क्व दिवा भृशाः भवन्ति इति ।२३ - ३० - नञिवयुक्तम् अन्यसदृशाधिकरणे तथा हि अर्थगतिः ।२४ - ३० - नञ्युक्तम् इवयुक्तम् व यत् किम् चित् इह दृश्यते तत्र अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते ।२५ - ३० - तथा हि अर्थः गम्यते ।२६ - ३० - अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशः आनीयते ।२७ - ३० - न असौ लोष्टम् आनीय कृती भवति ।२८ - ३० - एवम् इह अपि अच्वेः इति च्विप्रतिषेधात् अन्यस्मिन् अच्व्यन्ते च्विसदृशे कार्यम् विज्ञास्यते ।२९ - ३० - किम् च अतः अन्यत् अद्व्यन्तम् च्विसदृसम् ।३० - ३० - अभूततद्भावः ।१ - ४९ - इह काः चित् प्रकृतयः सोपसर्गाः पठ्यन्ते ॒ अभिमनस् , सुमनस् , उन्मनस् , दुर्मनस् ।२ - ४९ - तत्र विचार्यते ॒ भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् वा स्यात् ॒ अभिभवतौ सुभवतौ उद्भवतौ दुर्भवतौ इति ।३ - ४९ - प्रकृत्यर्थविशेषणम् वा ।४ - ४९ - अभिमनस्शब्दात् सुमनस्शब्दात् उन्मनस्शब्दात् दुर्मनस्शब्दात् इति ।५ - ४९ - युक्तम् पुनः इदम् विचारयतुम् ।६ - ४९ - ननु तेन असन्दिग्धेन प्रकृत्यर्थविशेषणम् भवितव्यम् यावता प्राक् प्रकृतेः पठ्यन्ते ।७ - ४९ - यदि हि प्रत्ययार्थविशेषणम् स्यात् प्राक् भवतेः पठ्येरन् ।८ - ४९ - न इमे शक्याः प्राक् भवतेः पठितुम् ।९ - ४९ - एवम् विशिष्टे हि प्रत्ययाऋथे भृशादिमात्रात् उत्पत्तिः प्रसज्येत ।१० - ४९ - तस्मात् न एवम् शक्यम् कर्तुम् ।११ - ४९ - न चेत् एवम् जायते विचारणा ।१२ - ४९ - कः च अत्र विशेषः ।१३ - ४९ - भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः ।१४ - ४९ - भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः भवति ।१५ - ४९ - अभिमनायते ।१६ - ४९ - तिङ् अतिङः इति निघातः प्रसज्यते ।१७ - ४९ - अस्तु तर्हि प्रकृत्यर्थविशेषणम् ।१८ - ४९ - सोपसर्गात् इति चेत् अटि दोषः । सोपसर्गात् इति चेत् अटि दोषः भवति ।१९ - ४९ - स्वमनयत इति ।२० - ४९ - अत्यल्पम् इदम् उच्यते ॒ अटि दोषः भवति इति ।२१ - ४९ - अड्ल्यव्द्विर्वचनेषु इति वक्तव्यम् ।२२ - ४९ - अटि ॒ उदाहृतम् ।२३ - ४९ - ल्यपि ॒ सुमनाय्य ।२४ - ४९ - द्विर्वचने ॒ अभिमिमनायिषते ।२५ - ४९ - न एषः दोषः ।२६ - ४९ - अवश्यम् सङ्ग्रामयतेः सोपसर्गात् उत्पत्तिः वक्तव्या असङ्ग्रामयत शूरः इति एवमर्थम् ।२७ - ४९ - तत् नियमार्थम् भविष्यति ।२८ - ४९ - सङ्ग्रामयतेः एव सोपसर्गात् न अन्यस्मात् सोपसर्गात् इति ।२९ - ४९ - यदि नियमः क्रियते स्वरः न सिध्यति ।३० - ४९ - एवम् तर्हि भृशादिषु उपसर्गस्य पराङ्गवद्भावम् वक्ष्यामि ।३१ - ४९ - यदि पराङ्गवद्भावः उच्यते अड्ल्यव्द्विर्वचनानि न सिध्यन्ति ।३२ - ४९ - स्वरविधौ इति वक्ष्यामि ।३३ - ४९ - एवम् च कृत्वा अस्तु प्रत्ययार्थविशेषणम् ।३४ - ४९ - ननु च उक्तम् भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः इति ।३५ - ४९ - स्वरे पराङ्गवद्भावेन परिहृतम् ।३६ - ४९ - अयम् तर्हि प्रत्ययार्थविशेषणे सति दोषः ।३७ - ४९ - क्यङा उक्तत्वात् तस्य अर्थस्य उपसर्गस्य प्रयोगः न प्राप्नोति ।३८ - ४९ - किम् कारणम् ।३९ - ४९ - उक्तार्थानाम् अप्रयोगः इति ।४० - ४९ - तत् यथा ।४१ - ४९ - अपि काकः श्येनायते इति क्यङा उक्तत्वात् आचारार्थस्य आङः प्रयोगः न भवति ।४२ - ४९ - अस्ति अत्र विशेषः ।४३ - ४९ - एकेन अत्र विशिष्टे प्रत्ययार्थे प्रत्ययः उत्पद्यते इह पुनः अनेकेन ।४४ - ४९ - तत्र मनायते इति उक्ते सन्देहः स्यात् अभिभवतौ सुभवतौ दुर्भवतौ इति ।४५ - ४९ - तत्र असन्देहार्थम् उपसर्गः प्रयुज्यते ।४६ - ४९ - यत्र तर्हि एकेन ।४७ - ४९ - उत्पुच्छयते ।४८ - ४९ - अत्र अपि अनेकेन ।४९ - ४९ - पुच्छात् उदसने पुच्छात् व्यसने पुच्छात् पर्यसने इति ।१ - ५१ - किमर्थः ककारः ।२ - ५१ - क्ङिति इति गुणप्रतिषेधः यथा स्यात् ।३ - ५१ - न एतत् अस्ति प्रयोजनम् ।४ - ५१ - सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते ।५ - ५१ - धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते ।६ - ५१ - न च अयम् धातोः विधीयते ।७ - ५१ - लोहितादीनि प्रातिपदिकानि ।८ - ५१ - सामान्यग्रहणार्थः तर्हि ।९ - ५१ - क्व सामान्यग्रहणेन अर्थः ।१० - ५१ - नः क्ये इति ।११ - ५१ - न अयम् नान्तात् विधीयते ।१२ - ५१ - इह तर्हि ।१३ - ५१ - यस्य हलः क्यस्य विभाषा इति ।१४ - ५१ - न अयम् हलन्तात् विधीयते ।१५ - ५१ - इह तर्हि ।१६ - ५१ - आपत्ययस्य च तद्धिते अनाति क्यच्व्योः च इति ।१७ - ५१ - न अयम् आपत्यात् विधीयते ।१८ - ५१ - इह तर्हि ।१९ - ५१ - क्यात् छन्दसि इति ।२० - ५१ - यात् छन्दसि इति एतावत् वक्तव्यम् चरण्यूः तुरण्युः भुरण्युः इति एवमर्थम् ।२१ - ५१ - इदम् तर्हि प्रयोजनम् ।२२ - ५१ - यत् तत् अकृत्यकारे इति दीर्घत्वम् तत्र क्ङिद्ग्रहणम् अनुवर्तते ।२३ - ५१ - तत् इह अपि यथा स्यात् ।२४ - ५१ - लोहितायते ।२५ - ५१ - किम् पुनः कारणम् तत्र क्ङिद्ग्रहणम् अनुवर्तते ।२६ - ५१ - इह मा भूत् ।२७ - ५१ - उरुया धृष्णुया इति ।२८ - ५१ - यदि क्ङिद्ग्रहणम् अनुवर्तते íत्र्यम् इति पितुः रीङ्भावः न प्राप्नोति ।२९ - ५१ - रीङ्भावे क्ङिद्ग्रहणम् निवर्तिष्यते ।३० - ५१ - यदि निवर्तते कथम् असूया वसूया च यमामहे ।३१ - ५१ - असूयतेः असूया वसूयतेः वसूया ।३२ - ५१ - अथ वा छान्दसम् एतत् ।३३ - ५१ - दृष्टानुविधिः च छन्दसि भवति इति ।३४ - ५१ - यदि छान्दसत्वम् हेतुः न अर्थः क्ङिद्ग्रहणेन अनुवर्तमानेन ।३५ - ५१ - कस्मात् न भवति उरुया धृष्णुया इति ।३६ - ५१ - छान्दसत्वात् ।३७ - ५१ - अथ वा अस्तु अत्र दीर्घत्वम् ।३८ - ५१ - छान्दसम् ह्रस्वत्वम् भविष्यति ।३९ - ५१ - तत् यथा उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति ।४० - ५१ - अथ किमर्थः षकारः ।४१ - ५१ - विशेषणार्थः ।४२ - ५१ - क्व विशेषणार्थेन अर्थः ।४३ - ५१ - वा क्यषः इति ।४४ - ५१ - वा यात् इति हि उच्यमाने अतः अपि प्रसज्येत ।४५ - ५१ - न एतत् असि प्रयोजनम् ।४६ - ५१ - परस्मैपदम् इति उच्यते ।४७ - ५१ - न च अतः परस्मैपदम् न अपि आत्मनेपदम् पश्यामः ।४८ - ५१ - सामान्यग्रहणाविघातार्थः तर्हि भविष्यति ।४९ - ५१ - क्व सामान्यग्रहणाविघातार्थेन अर्थः ।५० - ५१ - क्यात् छन्दसि इति ।५१ - ५१ - यात् छन्दसि इति एवम् वक्तव्यम् चरण्यूः तुरण्युः भुरण्युः इति एवमर्थम् ।१ - ८ - लोहितडाज्भ्यः क्यष्वचनम् ।२ - ८ - लोहितडाज्भ्यः क्यष् वक्तव्यः ।३ - ८ - लोहितायति लोहितायते पटपटायति पटपटायते ।४ - ८ - अथ अन्यानि लोहितादीनि ।५ - ८ - भृशादिषु इतराणि ।६ - ८ - भृशादिषु इतराणि पठितव्यानि ।७ - ८ - किम् प्रयोजनम् ।८ - ८ - ङितः इति आत्मनेपदम् यथा स्यात् इति ।१ - २६ - कष्टाय इति किम् निपात्यते ।२ - २६ - कष्टशब्दात् चतुर्थीसमर्थात् क्रमणे अनार्जवे क्य्ङ् निपात्यते ।३ - २६ - कष्टाय कर्मणे क्रामति कष्टायते ।४ - २६ - अत्यल्पम् इदम् उच्यते ॒ कष्टाय इति ।५ - २६ - सत्त्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम् ।६ - २६ - सत्त्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम् इति वक्तव्यम् ।७ - २६ - सत्त्रायते ।८ - २६ - सत्त्र. ककष. कक्षायते ।९ - २६ - कष्ट ।१० - २६ - कष्टायते ।११ - २६ - कष्ट ।१२ - २६ - गहन ।१३ - २६ - गहनायते ।१४ - २६ - अपरः आह॒. सत्त्रादिभ्यः चतुर्थ्यन्तेभ्यः क्रमणे अनार्जवे क्यङ् वक्तव्यः ।१५ - २६ - एतानि एव उदाहरणानि ।१६ - २६ - सत्त्रादिभ्यः इति किमर्थम् ।१७ - २६ - कुटिलाय क्रामति अनुवाकाय ।१८ - २६ - चतुर्थ्यन्तेभ्यः इति किमर्थम् ।१९ - २६ - अजः कष्टम् क्रामति ।२० - २६ - तत् तर्हि वक्तव्यम् ।२१ - २६ - न वक्तव्यम् ।२२ - २६ - न एतत् प्रत्ययान्तनिपातनम् ।२३ - २६ - किम् तर्हि ।२४ - २६ - तादर्थ्ये एषा चतुर्थी ।२५ - २६ - कष्टाय यत् प्रातिपदिकम् ।२६ - २६ - कष्टार्थे यत् प्रातिपदिकम् इति ।१ - १६ - रोमन्थे इति उच्यते ।२ - १६ - कः रोमन्थः नाम ।३ - १६ - उद्गीर्णस्य वा अवगीर्णस्य वा मन्थः रोमन्थः इति ।४ - १६ - यदि एवम् हनुचलने इति वक्तव्यम् ।५ - १६ - इह मा भूत् ।६ - १६ - कीटः रोमथम् वर्तयति ।७ - १६ - तत् तर्हि वक्तव्यम् ।८ - १६ - न वक्तव्यम् ।९ - १६ - कस्मात् न भवति ।१० - १६ - कीटः रोमथम् वर्तयति इति ।११ - १६ - अनभिधानात् ।१२ - १६ - तपसः परस्मैपदम् च ।१३ - १६ - तपसः परस्मैपदम् च इति वक्तव्यम् ।१४ - १६ - तपः चरति तपस्यति ।१५ - १६ - कथम् तपस्यते लोकजिगीषुः अग्नेः ।१६ - १६ - छान्दसत्वात् भविष्यति ।१ - २ - फेनात् च इति वक्तव्यम् ।२ - २ - फेनायते ।१ - २४ - अटाट्ताशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणम् कर्तव्यम् ।२ - २४ - अटा ।३ - २४ - अटायते ।४ - २४ - अट्टा ।५ - २४ - अट्टायते ।६ - २४ - शीका ।७ - २४ - शीकायते ।८ - २४ - कोटा ।९ - २४ - कोटायते ।१० - २४ - पोटा ।११ - २४ - पोटायते ।१२ - २४ - सोटा ।१३ - २४ - सोटायते ।१४ - २४ - प्रुष्टा ।१५ - २४ - प्रुष्टयते ।१६ - २४ - प्लुष्टा ।१७ - २४ - प्लुष्टायते ।१८ - २४ - सुदिनदुर्दिनाभ्याम् च ।१९ - २४ - सुदिनदुर्दिनाभ्याम् च इति वक्तव्यम् ।२० - २४ - सुदिनायते ।२१ - २४ - दुर्दिनायते ।२२ - २४ - नीहारात् च ।२३ - २४ - नीहारात् च इति वक्तव्यम् ।२४ - २४ - नीहारायते ।१ - १२ - कर्तृवेदनायाम् इति किमर्थम् ।२ - १२ - इह मा भूत् ।३ - १२ - सुखम् वेदयते प्रसाधकः देवदत्तस्य ।४ - १२ - कर्तृवेदनायाम् इति उच्यमाने अपि अत्र प्राप्नोति ।५ - १२ - किम् कारणम् ।६ - १२ - कर्तुः इति इयम् कर्तरि षष्ठी ।७ - १२ - वेदनायाम् इति च अनः भावे ।८ - १२ - सः यदि एव आत्मनः वेदयते अथ अपि परस्य कर्तृवेदना एव असौ भवति ।९ - १२ - न कर्तृग्रहणेन वेदना अभिसम्बध्यते ।१० - १२ - किम् तर्हि ।११ - १२ - सुखादीनि अभिसम्बध्यन्ते ।१२ - १२ - कर्तुः यानि सुखादीनि ।१ - १४ - नमसः क्यचि द्वितीयानुपपत्तिः ।२ - १४ - नमसः क्यचि द्वितीया न उपपद्यते ।३ - १४ - नमस्यति देवान् ।४ - १४ - किम् कारणम् ।५ - १४ - नमःशब्देन योगे चतुर्थी विधीयते ।६ - १४ - सा प्राप्नोति ।७ - १४ - प्रकृत्यन्तरत्वात् सिद्धम् ।८ - १४ - नमःशब्देन योगे चतुर्थी विधीयते नमस्यतिशब्दः च अयम् ।९ - १४ - ननु च नमस्यतिशब्दे नमःशब्दः अस्ति ।१० - १४ - तेन योगे प्राप्नोति ।११ - १४ - न एषः दोषः ।१२ - १४ - अर्थवतः नमःसाब्दस्य ग्रहणम् ।१३ - १४ - न च नमस्यतिशब्दे नमःशब्दः अर्थवान् ।१४ - १४ - अथ वा उपपदविभक्तेः कारकविभक्तिः बलीयसी इति द्वितीया भविष्यति ।१ - ४३ - क्यजादिषु प्रत्ययार्थनिर्देशः ।२ - ४३ - क्यजादिषु प्रत्ययार्थनिर्देशः कर्तव्यः ।३ - ४३ - नमसः पूजायाम् ।४ - ४३ - वरिवसः परिचर्यायाम् ।५ - ४३ - चित्रङः आश्चर्ये ।६ - ४३ - भाण्डात् समाचयने ।७ - ४३ - चीवरात् अर्जने परिधाने वा ।८ - ४३ - पुच्छात् उदसने व्य्ससने च इति ।९ - ४३ - किम् प्रयोजनम् ।१० - ४३ - क्रियावचनता यथा स्यात् ।११ - ४३ - न एतत् अस्ति प्रयोजनम् ।१२ - ४३ - आचार्यप्रवृत्तिः ज्ञापयति क्रियावचनाः क्यजादयः इति यत् अयम् सनाद्यन्ताः धातवः इति धातुसञ्ज्ञाम् शास्ति ।१३ - ४३ - धातुसञ्ज्ञावचने एतत् प्रयोजनम् ॒ धातोः इति तव्यदादीनाम् उत्पत्तिः यथा स्यात् ।१४ - ४३ - यदि च अत्र क्रियावचनता न स्यात् धातुसञ्ज्ञावचनम् अनर्थकम् स्यात् ।१५ - ४३ - सत्याम् अपि धातुसञ्ज्ञायाम् तव्यदादयः न स्युः ।१६ - ४३ - किम् कारणम् ।१७ - ४३ - साधने ताव्यादयः विधीयन्ते साधनम् च क्रियायाः ।१८ - ४३ - क्रियाभावात् साधनाभावः ।१९ - ४३ - साधनाभावात् सत्याम् अपि धातुसञ्ज्ञायाम् तव्यदादयः न स्युः ।२० - ४३ - पश्यति तु आचार्यः क्रियावचनाः क्यजादयः इति ततः सनाद्यन्ताः धातवः इति धातुसञ्ज्ञाम् शास्ति ।२१ - ४३ - ननु च इदम् प्रयोजनम् स्यात् ।२२ - ४३ - परसाधने उत्पत्तिम् वक्ष्यामि इति ।२३ - ४३ - न परसाधने उत्पत्त्या भवितव्यम् ।२४ - ४३ - किम् कारणम् ।२५ - ४३ - साधनम् इति सम्बन्धिशब्दः अयम् ।२६ - ४३ - सम्बन्धिशब्दाः च पुनः एवमात्मकाः यत् उत सम्बन्धिनम् आक्षिपन्ति ।२७ - ४३ - तत् यथा ।२८ - ४३ - मातरि वर्तितत्व्यम् , पितरि शुश्रूषितव्यम् इति ।२९ - ४३ - न च उच्यते स्वस्याम् मातरि स्वस्मिन् वा पितरि इति , सम्बन्धात् च एतत् गम्यते या यस्य माता यः च यस्य पिता इति ।३० - ४३ - एवम् इह अपि सम्बन्धात् एतत् गन्तव्यम् यस्य धातोः यत् साधनम् इति ।३१ - ४३ - अथ वा धातवः एव क्यजादयः ।३२ - ४३ - न च एव हि अर्थाः आदिश्यन्ते ।३३ - ४३ - क्रियावचनता च गम्यते ।३४ - ४३ - कः खलु अपि पचादीनाम् क्रियावचनत्वे यत्नम् करोति ।३५ - ४३ - येन एव खलु अपि हेतुना पचादयः क्रियावचनाः तेन एव क्यजादयः अपि ।३६ - ४३ - एवमर्थम् आचार्यः चित्रयति ।३७ - ४३ - क्व चित् अर्थान् आदिशति क्व चित् न ।३८ - ४३ - एवम् अपि अर्थादेशनम् कर्तव्यम् ।३९ - ४३ - कथम् इमे अबुधाः बुध्येरन् इति ।४० - ४३ - अथ वा शक्यम् आदेशनम् अकर्तुम् ।४१ - ४३ - कथम् ।४२ - ४३ - करणे इति वर्तते ।४३ - ४३ - करणम् च करोतेः करोतिः च क्रियासामान्ये वर्तते ।१ - २९ - इमौ हलिकली स्तः इकारान्तौ ।२ - २९ - अस्ति हलशब्दः कलशब्दः च अकारान्तः ।३ - २९ - कयोः इदम् ग्रहणम् ।४ - २९ - यौ इकारान्तौ तयोः अत्वम् निपात्यते ।५ - २९ - किम् प्रयोजनम् ।६ - २९ - हलिकल्योः अत्वनिपातनम् सन्वद्भावप्रतिषेधार्थम् ।७ - २९ - हलिकल्योः अत्वनिपातनम् क्रियते सन्वद्भावः मा भूत् इति ।८ - २९ - अजहलत् अचकलत् ।९ - २९ - न एतत् अस्ति प्रयोजनम् ।१० - २९ - इकारलोपे कृते अग्लोपिनाम् न इति प्रतिषेधः भविष्यति ।११ - २९ - वृद्धौ कृतायाम् लोपः ।१२ - २९ - तत् न अग्लोपि अङ्गम् भवति ।१३ - २९ - इदम् इह सम्प्रधार्यम् ।१४ - २९ - वृद्धिः क्रियताम् अग्लोपः इति ।१५ - २९ - किम् अत्र कर्तव्यम् ।१६ - २९ - परत्वात् वृद्धिः ।१७ - २९ - नित्यः लोपः ।१८ - २९ - कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि प्राप्नोति ।१९ - २९ - अनित्यः लोपः ।२० - २९ - अन्यस्य कृतायाम् वृद्धौ प्राप्नोति अन्यस्य अकृतायाम् ।२१ - २९ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।२२ - २९ - वृद्धिः अपि अनित्या ।२३ - २९ - अन्यस्य कृते लोपे प्राप्नोति अन्यस्य अकृते ।२४ - २९ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।२५ - २९ - उभयोः अनित्ययोः परत्वात् वृद्धिः ।२६ - २९ - वृद्धौ कृतायाम् लोपः ।२७ - २९ - तत् न अग्लोपि अङ्गम् भवति ।२८ - २९ - अत्वे पुनः सति वृद्धिः क्रियताम् लोपः इति यदि अपि परत्वात् वृद्धिः वृद्धौ कृतायाम् अपि अक् एव लुप्यते ।२९ - २९ - तस्मात् सुष्ठु उच्यते हलिकल्योः अत्वनिपातनम् सन्वद्भावप्रतिषेधार्थम् ।१ - १२ - समभिहारः इति कः अयम् शब्दः ।२ - १२ - समभिपूर्वात् हरतेः भावसाधनः घञ् ।३ - १२ - समभिहरणम् समभिहारः ।४ - १२ - तत् यथ पुष्पाभिहारः फलाभिहारः इति ।५ - १२ - विषमः उपन्यासः ।६ - १२ - बह्व्यः हि ताः सुमनसः ।७ - १२ - तत्र युक्तः समभिहारः ।८ - १२ - इह पुनः एका क्रिया ।९ - १२ - यदि अपि एका सामान्यक्रिया अवयवक्रियाः तु बह्व्यः अधिश्रयणोदकासेचनतण्डुलावपनैध्कोपकर्षण्क्रियाः ।१० - १२ - ताः कः चित् कार्त्स्न्येन करोति कः चित् अकार्त्स्न्येन ।११ - १२ - यः कार्त्स्न्येन करोति सः उच्यते पापच्यते इति ।१२ - १२ - पुनः पुनः वा पचति पापच्यते इति ।१ - २८ - अथ धातुग्रहणम् किमर्थम् ।२ - २८ - इह मा भूत् प्राटति भृशम् इति ।३ - २८ - अतः उत्तरम् पठति ।४ - २८ - यङ्विधौ धातुग्रहणे उक्तम् ।५ - २८ - किम् उक्तम् ।६ - २८ - तत्र तावत् उक्तम् कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् ।७ - २८ - सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म ।८ - २८ - सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति ।९ - २८ - एवम् इह अपि क्रियासमभिहारग्रहणात् यङ्विधौ धातुग्रहणानर्थक्यम् ।१० - २८ - सोपसर्गः क्रियासमभिहारः इति चेत् क्रियासमभिहारविशेषकत्वात् उपसर्गस्य अनुपसर्गः क्रियासमभिहारः ।११ - २८ - सोपसर्गस्य हि क्रियासमहिभारत्वे धात्वधिकारे अपि यङः अविधानम् अक्रियासमभिहारत्वात् इति ।१२ - २८ - अथ एकाज्झलादिग्रहणम् किमर्थम् ।१३ - २८ - इह मा भूत् ॒ जागर्ति भृशम् ।१४ - २८ - ईक्षते भृशम् ।१५ - २८ - एकाज्झलादिग्रहणे च ।१६ - २८ - एकाज्झलादिग्रहणे च उक्तम् ।१७ - २८ - किम् उक्तम् ।१८ - २८ - तत्र तावत् उक्तम् कर्मसमानकर्तृकग्रहणानर्थक्यम् च इच्छाभिधाने प्रत्ययविधानात् ।१९ - २८ - अकर्मणः हि असमानकर्तृकात् वा अनभिधानम् इति ।२० - २८ - इह अपि एकाज्झलादिग्रहणानर्थक्यम् क्रियासमभिहारे यङ्वचनात् अनेकाचः अहलादेः हि अनभिधानम् इति ।२१ - २८ - तत् च अवश्यम् अनभिदानम् आश्रयितव्यम् ।२२ - २८ - क्रियमाणे अपि हि एकाज्झलादिग्रहणे यत्र एकाचः हलादेः च उत्पद्यमानेन यङा अर्थस्य अभिधानम् न भवति न भवति तत्र उत्पत्तिः ।२३ - २८ - तत् यथा ।२४ - २८ - भृशम् शोभते ।२५ - २८ - भृशम् रोचते ।२६ - २८ - यत्र च अनेकाचः अहलादेः वो उत्पद्यमानेन यङा अर्थस्य अभिधानम् भवति भवति तत्र उत्पत्तिः ।२७ - २८ - तत् यथा ।२८ - २८ - अटाट्यते अरार्यते अशाश्यते सोसूच्यते सोसूत्र्यते मोमूत्र्यते ।१ - ११ - ऊर्णोतेः च उपसङ्ख्यानम् ।२ - ११ - ऊर्णोतेः च उपसङ्ख्यानम् कर्तव्यम् ।३ - ११ - प्रोर्णोनूयते ।४ - ११ - अत्यल्पम् इदम् उच्यते ॒ ऊर्णोतेः इति ।५ - ११ - सूचिसूत्रिमूत्र्यट्यर्त्यश्यूर्णुग्रहणम् यङ्विधौ अनेकाजहलाद्यर्थम् ।६ - ११ - सूचिसूत्रिमूत्र्यट्यर्त्यश्यूर्णोतीनाम् ग्रहणम् कर्तव्यम् ।७ - ११ - किम् प्रयोजनम् ।८ - ११ - यङ्विधौ अनेकाजहलाद्यर्थम् ।९ - ११ - सोसूच्यते सोसूत्र्यते मोमूत्र्यते अटाट्यते अरार्यते अशाश्यते प्रोर्णोनूयते ।१० - ११ - वाच्यः ऊर्णोर्णुवद्भावः यङ्प्रसिद्धिः प्रयोजनम् ।११ - ११ - आमः च प्रतिषेधार्थम् एकाचः च इडुपग्रहात् ।१ - २४ - क्रियासमभिहारे यङः विप्रतिषेधेन लोड्विधानम् ।२ - २४ - क्रियासमभिहारे लोट् भवति यङः विप्रतिषेधेन ।३ - २४ - क्रियासमभिहारे यङ् भवति इति अस्य अवकाशः धातुः यः एकाच् हलादिः क्रियासमभिहारे वर्तते अधातुसम्बन्धः ॒ लोलूयते ।४ - २४ - लोटः अवकाशः धातुः यः अनेकाच् अहलादिः क्रियासमभिहारे वर्तते धातुसम्बन्धः ॒ सः भवान् जागृहि जागृहि इति एव अयम् जागर्ति ।५ - २४ - सः भवान् ईहस्व ईहस्व इति एव अयम् ईहते ।६ - २४ - धातुः यः एकाच् हलादिः क्रियासमभिहारे वर्तते धातुसम्बन्धः च तस्मात् उभयम् प्राप्नोति ॒ सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति ।७ - २४ - लोट् भवति विप्रतिषेधेन ।८ - २४ - न तर्हि इदानीम् इदम् भवति ॒ सः भवान् लोलूयस्व लोलूयस्व इति एव अयम् लोलूयते ।९ - २४ - भवति च ।१० - २४ - न वा नानार्थत्वात् ।११ - २४ - कर्तृकर्मणोः हि लविधानम् क्रियाविशेषे स्वार्थे यङ् ।१२ - २४ - न वा अर्थः विप्रतिषेधेन ।१३ - २४ - किम् कारणम् ।१४ - २४ - नानार्थत्वात् ।१५ - २४ - का नानार्थता ।१६ - २४ - कर्तृकर्मणोः हि लविधानम् ।१७ - २४ - कर्तृकर्मणोः हि लोट् विधीयते ।१८ - २४ - क्रियाविशेषे स्वार्थे यङ् ।१९ - २४ - तत्र अन्तरङ्गत्वात् यङा भवितव्यम् ।२० - २४ - न तर्हि इदम् इदानीम् भवति ।२१ - २४ - सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति ।२२ - २४ - भवति च ।२३ - २४ - विभाषा यङ् ।२४ - २४ - यदा न यङ् तदा लोट् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP