चतुष्षष्टितमः पटलः - मन्त्रसंग्रह ७

कण्ठभेदविज्ञानविन्यासः


कायकल्पनिरुपणम्
नानापीठे त्वसाध्ये च चक्षुरिन्दियवर्जिते ।
मनोगम्ये स्थिरो स्वदेहमपि कल्पयेत् ॥३००॥

वारानस्यादिपीठे च महाज्वालामुखीपदे ।
कुरुक्षेत्रे प्रयागे च दक्षिणे द्वारकादिषु ॥३०१॥

हरिद्वारोदये तीर्थे मार्कण्डेये च कापिले ।
वृन्दावने गुह्यपीठे गङायमुनयोस्तटे ॥३०२॥

पुष्करे पृथिवीतीर्थे कायतीर्थे गयादिषु ।
कालकल्पनमाकृत्य श्रद्धावान् पूजयेत्परम् ॥३०३॥

सदाशिवं साकिनीशं शाकिनीयोगिनीगणैः ।
वेष्टितं परया भक्त्या ध्यात्वा देहं प्रकल्पयेत् ॥३०४॥

प्रकल्प्य स्वतनुं तत्र ततो देवस्य कल्पयेत् ।
येषां मनसि यद्वयान् तद्धयानं कायकल्पनम् ॥३०५॥

एतत्कायकल्पनेन मौनी वाक्सिद्धिमाप्नुयात् ।
इदानीं कामदेवस्य मथनं श्रृणु भैरव ॥३०६॥

कामदेवस्य मथनं सुखदं मोक्षदं परम् ।
यावद् बिन्दुः स्थिरो देहे तावन्मृत्युभयं कुतः ॥३०७॥

बिन्दुपाताद्भवेन्नाशस्ततो हि बिन्दुरक्षणम् ।
तत्तदौषधमावक्ष्ये येन बिन्दुः स्थिरो भवेत् ॥३०८॥

नित्यं सेवनमाकुर्या देतेषां मूलमाहरन् ।
श्वेतापराजितामूलं सिद्धिमूलं ततः परम् ॥३०९॥

शतपर्णिमूलमेकं कदम्बम्मूलमेव च ।
श्वेतकुन्दपुष्पमूलं करवीरं तथाशितम् ॥३१०॥

कृष्णधुस्तरमूलं तु सेफालीमूलमेव च ।
चितामूलं तथा शम्भो निर्गुण्डीमूलमाहरन् ॥३११॥

एकीकृत्य विधानेन रविवारेऽर्कमूलकैः ।
समभागेन योगेन्द्र चूर्णीकृत्य पृथक् पृथक् ॥३१२॥

शुक्रवारे च पूर्वाहणे मिश्रं कुर्यादि‌दनत्रयम् ।
षड्‌रात्रि शोधयेत् काममुद्राभिर्वामदेवताः ॥३१३॥

मध्यमाङ्‌गुलिमुत्तोल्य दक्षिणेनापि मुष्टिना ।
धृत्वा च शोधयेदादौ द्र्व्यमूलानि साधकः ॥३१४॥

विजयाचूर्णयोगेन पिबेच्चूर्णं द्वितोलकम् ।
अर्धतोलकमुनैक्यं विजयाः सार्धतोलकाः ॥३१५॥

मिश्रीकृत्य विधानेऽपि तत्तत्कुजदिने शुभे ।
एतत्प्रभक्षणेनैव मदनं वशमानयेत् ॥३१६॥

यदा मनसि आयाति पुष्पधन्वा महाबली ।
तदा तं पूजयित्वा च कामदेवं निवारयेत् ॥३१७॥

इति कामस्य मथनं देहे व्यवस्थितं श्रृणु ।
अङ्‌गष्ठगुल्फजाजूरुसिमनीलिङुनाभिषु ॥३१८॥

ह्रद‌ग्रीवाकण्ठदेशेषु लम्बिकायां तथा नसि ।
भ्रूमध्ये मस्तके मूर्ध्नि वाय्वाकाशप्रियालये ॥३१९॥

वायुरुपं स्वदेहं तु स्थापयित्वा मनुं जपेत् ।
कुम्भकप्राणयोगेन निजदेहव्यवस्थितिः ॥३२०॥

कण्ठाम्भोजे स्थिरो यो हि तं जनं श्रृणु भैरव ।
योगारम्भावधिर्यो हि स्त्रीसंसर्गं विवर्जयेत् ॥३२१॥

मातृणां गमनं नास्ति यस्य स कण्ठसंस्थितः ।
नित्यं करोति योगं यो धर्मात्मा स्थिरचेतसा ॥३२२॥

स एव कण्ठपद्मे च स्थिरो भवति निश्चितम् ।
भावज्ञानी च यो विद्वान् तं विदामि दयार्णव्‍ ॥३२३॥

कुण्डलीस्पर्शमात्रेण तन्मयो जायते क्षणात् ।
सर्व देवे परं भावं कृत्वा ज्ञानेन पूजयेत् ॥३२४॥

सर्वपीठे स्थिरो भूत्वा ज्ञानात्मा परिपूजयेत् ।
क्रमेण कण्ठभेदः स्याद् योगी भवति सत्वरम् ॥३२५॥

धनं धान्यं धरां धर्मं कीर्तिमायुर्यशः श्रियम् ।
तुरगान् दन्तिनः पुत्रान् लोकान् सर्वस्वस्वोदयम् ॥३२६॥

एतज्ज्ञानप्रसादेन लभ्यते परमेश्वरम् ॥३२७॥

ज्ञात्वा  योगेन्द्रचक्रं त्रिभुवनविवरध्वन्तजाल प्रकाशं
मूलाम्भोजे रसाख्ये दशदलविमले ह्रत्स्वपद्मे विलासम् ।
कण्ठाम्भोजे मनोज्ञे द्विदलस्वकमले भावयन्तं सुरेन्द्रैः
श्वेताम्भोजे परेशं निरवधिगगनं पूजये भावयामि ॥३२८॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्र प्रकाशे भैरवीभैरव संवादे कण्ठपद्मभेदविज्ञानविन्यासो नाम चतुष्षष्टितमः पटलः ॥६४॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP