संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुष्षष्टितमः पटलः| मन्त्रसंग्रह ६ चतुष्षष्टितमः पटलः मन्त्रसंग्रह १ मन्त्रसंग्रह २ मन्त्रसंग्रह ३ मन्त्रसंग्रह ४ मन्त्रसंग्रह ५ मन्त्रसंग्रह ६ मन्त्रसंग्रह ७ चतुष्षष्टितमः पटलः - मन्त्रसंग्रह ६ कण्ठभेदविज्ञानविन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मन्त्रसंग्रह ६ Translation - भाषांतर साधकालम्बकथनम्साधकालम्बनं वक्ष्ये येन सिद्धो हि साधकः ।प्राणविद्यासुद्धिः स्यादायुरारोग्यमालभेत् ॥२६३॥श्रीकारुणोऽकारणगुप्तभावेविभावयामि प्रियपादपद्मम् ।एवं मनोयोगमुपेत्यं नित्यंश्रीसाधकालम्बनमेव सम्पदम् ॥२६४॥नित्योपलब्धिविज्ञाने सुन्दरीचरणाम्बुजे ।आत्मानमर्पयन् भावैः साधकालम्बनं हि तत् ॥२६५॥वर्णध्यानं श्रृणु प्रीतः शङ्कर प्राणशङ्कर ।मूलदिब्रह्मरन्ध्रान्तमकारादीन् स्मरेद् बुधः ॥२६६॥स्मृत्वा ग्रथित्वा मनुना विलोमेन पुनः पुनः ।भावयेन्मनसा योगी सत्त्वाधिष्ठानतत्परः ॥२६७॥कोटिसूर्यायुताभासं प्रत्येकग्रन्थिभेदतः ।मन्त्राक्षरं परंब्रह्म ध्यात्वा ध्यात्वा विभाकरम् ॥२६८॥भित्वा सहस्त्रारमध्यं क्षकारं भाति चन्द्रगम् ।अनुलोमविलोमेन विभाव्य ध्यानमाचारेत् ॥२६९॥अकारदिक्षकारान्तं वर्णध्यानं समीरितम् ।दलभेदं प्रवक्ष्यामि यत्र यत्र पदे स्थितिः ॥२७०॥विसर्गाद् बिन्दुपर्यन्तो दलभेदः प्रकीर्तितः ।तथापि श्रृणु योगेन्द्र सङ्केतार्थविनिर्णयम् ॥२७१॥देवतादक्षिणावर्त्या योगेन भावयेद्दलाम् ।एवं मूलादिपद्मानां भेदः श्रीकण्ठभूषण ॥२७२॥एवं सहस्त्रापदलभेदः प्रकीर्तितः ।स्फूर्तिविद्यां प्रवक्ष्यामि अकस्मात्सिसिद्धिदायिनीम् ॥२७३॥निरन्तरं जपेद्विद्यां समभावपरायणः ।अकस्मात्स्फूर्तिविद्यः स्यात्काव्यवाक्पतिरीश्वरः ॥२७४॥वाचां सिद्धिः करे तस्य कुब्जिकासिद्धिरेव च ।यदि कण्ठाबुजे ध्यायेत् काकचञ्चुपुटस्थितः ॥२७५॥इत्येताः स्फूर्तिविद्या हि सर्वपम्ददलस्थिताः ।वियोगं सम्प्रवक्ष्यामि येन मन्त्री च निर्भयः ॥२७६॥स्त्रीपुत्रधनमित्रादिलोभमोहादिपातकम् ।वर्जयित्वा तनुक्लेशं विवेकं समुपाश्रयेत् ॥२७७॥वियोगः स हि विज्ञेयो मन्त्रन्यासपरायणः ।काले काले क्रियासिद्धिश्चण्डिकापर्श्वगो भवेत् ।पूर्वस्यां दिशि पूर्वाहणे वदनाम्भोजमण्डलः ॥२७९॥ज्ञानद्र्व्यसमरसैरुदयं भावयेद् रविम् ।पूर्व पूर्वस्वजन्मादिज्ञासमोदयं लभेत् ॥२८०॥आकाशे च मनो दत्वा आकाशाख्यं स्मरन्मनुम् ।पूर्वजन्मादिसञ्ज्ञानं जानाति समभावकः ॥१८१॥इति ते कथितं नाथ पूर्वज्ञानसमोदयम् ।अथात्र संप्रवक्ष्यामि सिद्धः शुद्धः फलार्थभाक् ॥१८२॥येन क्रमेण सम्भूयात् खेचरीमेलनं प्रभो ।या या समरसप्राप्तिः सा सैव फलसिद्धिदा ॥१८३॥श्रृणु संक्षेपतो वक्ष्ये पश्चाद्वक्तव्यमेव तत् ।आसनादिकमाकृत्य कायसङ्कोचमाचरन् ॥२८४॥कामलता क्षुद्रतरैर्भेदिता वसनाग्रकैः ।तालुमूलोत्तरे मूले नियोज्य मधुपो भवेत् ॥२८५॥तदैव जपमाकृत्य वायुं धृत्वा मधुं पिबेत् ।सा स्यात्समरसप्राप्तिः कामलिङे स्थिरो भवेत् ॥२८६॥इत्येषा कथिता विद्या लताभेदं श्रृणु प्रभो ।श्वेतवाट्यलसूत्रेण निर्मिआ या लता शुभा ॥२८७॥अथवा पद्मसूत्रेण लतां कुर्याद्वचक्षणः ।अष्टादशाङ्गुलमितं नातिसूक्ष्मं प्रमावत् ॥२८८॥जित्वाधः सन्निवेश्याथ घर्षयेत् कामसुन्दर् ।तदा जित्वा स्वयं याति घर्षणेन पुनः पुनः ॥२८९॥पश्चाज्जित्वा क्रियां कुर्यात्तालिमूले निधाय च ।क्रमेनामृतमाप्नोति जिहवाधश्छेदने ध्रुवम् ॥२९०॥सा स्यात्समरसप्राप्तिर्यदि मन्त्राक्षरं भजेत् ।जीवब्रह्मबुद्धिमन्तास्तु तिष्ठन्ति निरञ्जने ॥२९१॥कूष्माण्डाकारदेही च ब्रह्मसाधनतत्परः ।सदा समरसप्राप्तिरनायासेन लभ्यते ॥२९२॥जले स्थले भूमिगर्ते शरीरं नापि नश्यति ।अजरामरदेही स्याद् योगोऽयं योगिदुर्लभः ॥२९३॥कायकल्पमावक्ष्ये येन सिद्धपतिर्भवेत् ।श्रृणुष्वैकमनाः शम्भो गृहस्थानां तु दुर्लभम् ॥२९४॥महारण्ये पद्मवने शीतले गन्धशोभिते ।कायकल्पनमाकृत्य भावयेत् कण्ठपङ्कजम् ॥२९५॥उदारचित्तः सर्वत्र वैष्णवाचारतत्परः ।पद्मे पद्मे स्वदेहस्य कल्पना च दले दले ॥२९६॥क्रमशः कण्ठपद्मे च स्वीयदेहस्य कल्पना ।क्रियते यदि योगेन्द्रैस्तदा देहस्य रक्षणम् ॥२९७॥अन्यथा मृत्युवश्यः स्याद् योगभ्रष्टो भवेन्नरः ।एवं क्रमेण सर्वत्र कुर्यात कायस्य कल्पनम् ॥२९८॥जरामरणदुःखाद्यैर्मुच्यते मोहसङ्कटात् ।अथान्यत् सम्प्रवक्ष्यामि कायकल्पनमेव तत् ॥२९९॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP