संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुष्षष्टितमः पटलः| मन्त्रसंग्रह ५ चतुष्षष्टितमः पटलः मन्त्रसंग्रह १ मन्त्रसंग्रह २ मन्त्रसंग्रह ३ मन्त्रसंग्रह ४ मन्त्रसंग्रह ५ मन्त्रसंग्रह ६ मन्त्रसंग्रह ७ चतुष्षष्टितमः पटलः - मन्त्रसंग्रह ५ कण्ठभेदविज्ञानविन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मन्त्रसंग्रह ५ Translation - भाषांतर सदाशिव एवं देवी का ध्याननिराश्रयं निराकारं मम ध्यानमुदीरितम् ।रुपातीतं निर्विकल्पं सर्वज्ञं योगवारिदम् ॥२२४॥कोटिसूर्यप्रतीकाशं तेजोबिम्बं निराकुलम् ।ज्वालामालासहस्त्राढ्यं कालानलशतोपमम् ॥२२५॥दंष्ट्राकरालदुर्धर्षं जटामण्डलमण्डितम् ।त्रिशूल वरहस्तञ्च घोररुपं भयानकम् ॥२२६॥अनन्तानन्तमाहिमं सर्वगामिमीश्वरम् ।सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ॥२२७॥सर्वमावृत्यं तिष्ठन्तं कण्ठस्थं कण्ठवायुगम् ।मम ध्यानं सदा कृता परं ब्रह्ममयो भवेत् ॥२२८॥ममाज्ञा गुरुसद्भावं श्रृणु यत्नेन भैरव ।कण्ठस्थं दैवतं देवगुरुरुपं महागुणम् ॥२२९॥आनन्दभैरवं पश्चान्महाकालं ततः परम् ।ज्ञानानन्दं सदानन्दं भैरवान्दमेव च ॥२३०॥श्यामानन्दं शिवानन्दं कालानन्दमतः परम् ।सुधानन्दं हरानन्दं सुरानन्दमतः परम् ॥२३१॥कुलानदं प्रियानन्दं यज्ञानन्दमतः परम् ।ध्यानानन्दं परानन्दं योगानन्दं ततः परम् ॥२३२॥क्रोधानन्दं क्रियानन्दं बोधानन्दं ततः परम् ।देवानन्दं जयानन्दं विजयान्दमेव च ॥२३३॥ब्रह्मानन्दं प्रभानन्दं पूर्णानन्दं ततः परम् ।जगदानन्दरुपं च ममाज्ञागुरुक्रगम् ॥२३४॥ममाज्ञगुरुसद्भावं कृत्वाऽभ्यर्च्य विभावयेत् ।कण्ठपद्मे स्थिरो याति साधकः स्थिरचेतसा ॥२३५॥कुलपीठपूजाकथनंवक्ष्येऽहं देवदेवेश कुलपीठप्रदर्शनम् ।कामस्थान कमकलावेष्टितं योगिनीपदम् ॥२३६॥कामरुपं महापीठं कुलपीठं प्रकीर्तितम् ।तस्य दर्शनमात्रेण जीवन्मुक्तो न संशयः ॥२३७॥कुलपीठप्रदर्शनतत्प्रकारविधिं वक्ष्ये सावधानोऽवधारय ।कुलपीठे समागम्य यद तद्गतमानसः ॥२३८॥तदैव पूजनं कृत्वा किं न सिद्धयति भूतले ।आदौ भवेत् कालरुपभूपतिः सिद्धिदर्शकः ॥२३९॥कुलपूजाविधानेन निजपीठे प्रपूजयेत् ।कामेश्वरीं कालकन्यां कामकौतूहलोज्ज्वलाम् ॥२४०॥कालरुपां प्रपूज्याथ सर्वभावेन पूजयेत् ।सुधादानं पाद्यदानं अर्घ्यमांसादि मुद्रया ॥२४१॥आचमनीयं सकुलं गन्धमालिङुनादिकम् ।नखदंष्ट्राक्षतादीनि पुष्पाणि विविधनि च ॥२४२॥समूहधूपदानं तु कुलपीठप्रदर्शकम् ।तत्स्पर्शनं भवेद्दीपः प्रवेशो हि कुलान्तरे ॥२४३॥तन्नैवैद्यं महासौख्यं सर्वतन्त्रेषु गोपितम् ।कुलद्रव्यं तु पानार्थं ततस्ताम्बूलभक्षणम् ॥२४४॥स्थापनं तर्पणं विद्धि मम पूजाक्रादिकम् ।तन्मूलेन यथा पूर्वोक्तेन प्रकारयेत् ॥२४५॥कुण्डलीगमनवर्णनम् कुण्डलीगमनं वक्ष्ये संक्षेपाच्छृणु वल्लभ ।कायशोधनमाकृत्य आसनादिमाचरेत् ॥२४६॥प्राणायामं त्रिधा कृत्वा भूतन्यासं समाचरेत् ।अङुन्यासकरन्यासौ बीजन्यासेषु षोढ्या ॥२४७॥व्यापकं पञ्चधा कृत्वा भूअशुद्धिं समाचरेत् ।जीवेनैक्यं विभाव्यैव ब्रह्मरन्ध्रे निवेशयेत् ॥२४८॥ब्रह्मरन्ध्रे ततो गत्वा सुषुम्नामुखमाश्रयेत् ।तन्मध्ये कर्णिकस्थानं च चतुर्दलम् ॥२४९॥चतुर्दलान्ते सा देवी विभाति तामुपाश्रयेत् ।तामुपकुञ्च्य यत्नेन सिद्धरुपी प्रबुद्धयेत् ॥२५०॥देवैः सार्धं ततो गच्छेत् षड्दले काकिनीस्थले ।तया सार्धं कुण्डलिन्या देवैर्गच्छेद् दशच्छदे ॥२५१॥एव क्रमेण ह्रत्पद्मं षोडशारं ततः परम् ।द्विदलं भेदमाकृत्य बोधिनीचक्रमाश्रयेत् ॥२५२॥ततः कटाहमाभेद्य पूर्णशैलं समाश्रयेत ।ततोऽसौ ह्रुन्मनीं भित्वा घटाधारे मनोलयम् ॥२५३॥तदूर्ध्वे प्रलयाकारं ब्रह्मचक्रं निराकुलम् ।तदूर्ध्वे ब्रह्मादण्डं तु तदूर्ध्वे केवलं जलम् ॥२५४॥सर्वं जलं समालम्ब्य सहस्त्रारं प्रभामयम् ।तदूर्ध्वे कर्णिकास्थानं सिद्धखड्गं तदूर्ध्वके ॥२५५॥सर्वबीजमयं नाथ मातृकामण्डलं ततः ।मातृकामण्डलोर्ध्वे च प्रेतबीजं सुधामयम् ॥२५६॥प्रेतासनोपरि ध्यायेन्महाकालकुलेश्वरीम् ।तत्रैव श्रीपदाम्भोजतले संस्थापयेन्मनः ॥१५७॥पूर्वोक्तदेवताभिस्तु लययोगेन लेपयेत् ।तत्रैव स्थित्वा संध्यायेन्मूलेऽनलमनुं प्रभो ॥२५८॥वायुबीजेन प्रज्वाल्य दहेद्देहं यतीश्वरः ।तन्नेत्रद्वयपर्यन्तं कर्णयुग्मवधि प्रभो ॥२५९॥प्रदह्य भ्रूदले नेत्रे वहनौ वहिनलयं चरेत् ।तच्छिखापटलेनैव क्षरन्ति ब्रह्मबिन्दवः ॥२६०॥तद्बिन्दुधारया देहं वरुणैः प्लावयेत्ततः ।शुद्धदेहं ततो ध्यायेद् बीजेन प्रथमाङ्कुरम् ॥२६१॥अधोमार्गेण सन्ध्यायेत् कुण्डलिन्या गमागमम् ।इत्येतत् कथितं नाथ कुण्डलीगमनादिकम् ॥२६२॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP