संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुष्षष्टितमः पटलः| मन्त्रसंग्रह २ चतुष्षष्टितमः पटलः मन्त्रसंग्रह १ मन्त्रसंग्रह २ मन्त्रसंग्रह ३ मन्त्रसंग्रह ४ मन्त्रसंग्रह ५ मन्त्रसंग्रह ६ मन्त्रसंग्रह ७ चतुष्षष्टितमः पटलः - मन्त्रसंग्रह २ कण्ठभेदविज्ञानविन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मन्त्रसंग्रह २ Translation - भाषांतर श्रीकण्ठसञ्चारविधीःकण्ठे षोडशकं दलं तदुदरे श्रीकर्णिकामण्डलेतद्बाह्ये चतुरस्त्रकं सुखमयं षट्कोणमन्तर्गतम् ।बाह्ये द्वारचतुष्टयं नवगृहं भूबिम्बषट्कं ततःश्रीचन्द्रातमूर्ध्वके मधुपुरी तत्कर्णिकायां यजेत् ॥२५॥तत्कर्णिकामध्यनिगूधदेशेसम्भाति नित्यं मधुपूरदेशः ।तन्मध्यदेशेऽष्टपुरीप्रकाशःकौलक्रियासाधनसिद्धये स्यात् ॥२६॥पूर्वदिताः प्रेमकलाधिनाथाःप्रभान्ति माध्वीरसरसारस्निग्धाः ।तेषां प्रणामः क्रियते यतीन्दैर्ध्येयाः सदा कण्ठदलप्रकाशः ॥२७॥वामेश्वरः पूर्वगृहं प्रयातिराहुर्गृहं ज्येष्ठगणेश्वरीशः ।रौद्रात्मको मृत्युपतेर्गृहं तथाकालीश्वरो नैऋतिहेममन्दिरम् ॥२८॥सकलविकरणीशो वारुणाम मन्दिरं तत्सवनधिकरणीशो पावनः मन्दिरं तत् ।सबलविमथनीशो मन्दिरं चोत्तरस्थंसमवति निजगेहं सर्वभूताधिदेवः ॥२९॥मध्यं मनोन्मनीनाथः सर्वालम्भस्तदूर्ध्वकम् ।मन्दिरं हेमजडितं नानारत्नविनिर्मितम् ॥३०॥एतेषां शक्तयो ध्येयाः स्वस्ववामपदोज्ज्वलाः ।तासां नाम्ना योजयित्वा स्वमन्त्रैः प्रणवेन वा ॥३१॥सम्पुटीकृत्य जप्त्वा च असाध्यं खलु सिद्धयति ।नवकोणार्ध्वगेहे च पूर्वस्यां दिशि राजते ॥३२॥वामा देवी महातेजोमयी भुजचतुष्ट्या ।नानालङ्कारशोभाङी साधकाऽभीष्टदा सदा ॥३३॥वहनौ हेममन्दिरे च ज्येष्ठा देवी चतुर्भुजा ।सर्वालङ्कारसंयुक्ता पद्ममालाविराजिता ॥३४॥ध्येया सदा योगिमुख्यैः सर्वसिद्धिसमृद्धये ।यमस्वर्णमन्दिरे च रौद्री परमसिद्धिदा ॥३५॥चतुर्भुजा त्रिनेत्रा च ध्येयालङ्कारमण्डिता ।नैऋते हेमगेहे च काली देवी चतुर्भुजा ॥३६॥सर्वालङ्कारशोभाढ्या त्रिनेत्रा वरदायिनी ।सर्वास्त्रधारिणी देवी मुण्डमालासुशोभिता ॥३७॥ध्येया योगेन्द्रविद्याभिः परमा ज्ञानदायिनी ।कलविकरणी देवी भाति वारुणमन्दिरे ॥३८॥चतुर्भुजा योगिमाता त्रिनेत्रा भरणान्विता ।सा ध्येया योगिमुख्यैश्च आणिमाद्यसिद्धिदा ॥३९॥पावने स्वर्णगेहे च ध्येया साधकसत्तमैः ।बन्धूकपुष्पसङ्काशा केयूरहारमालिनी ॥४०॥बलविकरणी देवी सर्वाभरणभूषिता ।चतुर्भुजा त्रिनेत्रा च सर्वादिसिद्धिदायिनी ॥४१॥बलप्रमथिनी देवी धनदा मोक्षदा सदा ।कुबेरहेमगेहस्था सर्वानन्दकरोद्यता ॥४२॥श्रीसर्वभूतदमनी ध्येया ईशानमन्दिरे ।प्रमारुणसङ्काशा करवीरस्त्रजान्विता ॥४३॥चतुर्भुजा त्रिनेत्रा च सर्वालङ्कारशोभिता ।मध्ये श्रीकर्णिकायाश्च ध्येया सर्वजनेश्वरैः ॥४४॥सूर्यप्रभा सदा ध्येया देवी श्रीदा मनोन्मनी ।चतुर्भुजा महादीप्तिरलङ्कारोपशोभिता ॥४५॥त्रिनेत्रा वरदा सर्वा सर्वान्तः करणस्थिता ।सकलगुणात्मशक्तियुक्ता देवी चतुर्भुजा ॥४६॥अरुणायुतसङ्काशा रुण्डमलाविराजिता ।त्रिनेत्रा रक्तवसना सर्वालङ्कमण्डिता ।एतासां ध्यानमाकृत्य पूजयेद्विधिवत् ततः ॥४८॥मनः कल्पितद्रव्यैश्च साक्षात्कल्पितद्रव्यकैः ।जप्त्वा नाम्ना योजयित्वा समर्प्य विधिवत्सुधीः ॥४९॥कृत्वा मांसासवैर्योगी तर्पयेन्मधुधारया ।अभिषेकं कुलद्रव्यैः साधकैर्योगिभिः सह ॥५०॥भोजयेद् योगिमुख्यांश्च ब्राह्मणान् वेदपारगान् ।नानाविधकुलद्रव्यै र्भक्ष्यैर्भोज्यैश्च योगिराट् ॥५१॥ततः प्रकाशमाप्नोति मनोयोगेन वार्पयेत् ।एतत्प्रकारः कण्ठस्य सञ्चारः परमेश्वर ॥५२॥लभ्यते विधिनानेन दिव्यभावेन वार्पयेत् ।ततः सिद्धिमवाप्नोति साकिनीदर्शनं तथा ॥५३॥पत्न्या सार्धं साधकेन्द्रः सिद्धमन्त्रमवाप्नुयात् ।अथ वक्ष्ये महाकाल राक्षसीं परमां क्रियाम् ॥५४॥येन कर्मसाधनेन शिवत्वमपि लभ्यते ।चीनाचारं राक्षसीनां कुलीनानां सदाशिव ॥५५॥राक्षसी वेदभाषा च वेदमन्त्रविशोधिता ।चीनाचारं राक्षसीनां साधनादेव सिद्धयति ॥५६॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP