संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुष्षष्टितमः पटलः| मन्त्रसंग्रह १ चतुष्षष्टितमः पटलः मन्त्रसंग्रह १ मन्त्रसंग्रह २ मन्त्रसंग्रह ३ मन्त्रसंग्रह ४ मन्त्रसंग्रह ५ मन्त्रसंग्रह ६ मन्त्रसंग्रह ७ चतुष्षष्टितमः पटलः - मन्त्रसंग्रह १ कण्ठभेदविज्ञानविन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कण्ठपद्मभेदविज्ञानकथनम् Translation - भाषांतर श्री आनन्दभैरवी उवाचअथ भेदान् प्रवक्ष्यामि सर्वेन्द्रियविनिग्रहान् ।श्रृणु चैकमनाः शम्भो यदि वाञ्छाफलेच्छुकः ॥१॥पुनर्ज्ञानं समाप्नोति स्मृतिविज्ञानवर्जितम् ।यत्र वै कुरुते न्यासं मम तन्त्रोक्तसम्मतम् ॥२॥अनाहतोर्ध्वं श्रीपद्मं दलषोडशवेष्टितम् ।कण्ठकूपमहाधूमावयवे कोटिभास्वरम् ॥३॥पञ्चरश्मियुतं क्षेत्रं तन्मध्ये केशवप्रभम् ।तन्मध्ये कर्णिकास्थानं परमाहलादवर्धनम् ॥४॥अप्रकाश्यं सुगोप्यन्तु शिवरुपं सदाशिवम् ।पूजयेन्मतिमान् ज्ञानी साकिनीशक्तिवल्लभम् ॥५॥महाजनाः कामकलादिबीजैर्निरुध्य वक्त्रं परिभावयन्ति ।मेघाभमुग्रं स्थिरविद्युदाभंश्यामं महसुन्दरविग्रहामलम् ॥६॥निरुपणं नास्ति गतिप्रकाशश्चालोकनं पञ्चमवर्णयोगः ।जातेर्विचारः प्रतिपाद्का यः सदाशिवं शान्तजनाश्रयं भजे ॥७॥अकालचक्रं कुलकालचक्रंप्रकाशमानं भजतां सुरद्रुमम् ।यजन्ति चक्रं तरुणारुणायुतंसिन्दूरशैलामलदीप्तवन्तम् ॥८॥ब्रह्मादिदेवाः प्रतिपूजयन्ति ।तदादिदेवस्य समाधिभावम् ॥९॥भल्लेशी भल्लकुल्ला कलयति वलिभिर्वीरभल्लूकभालाभर्गभ्रान्तिर्विभान्ती भयलविलकलाकालसर्पातुरस्था ।कौला कैलासमालाकुलकमलजले बिन्दुलावण्यलीलाकण्ठाम्भोजे ज्वलन्ती कनकमधुगृहे पीठपूरे समाधौ ॥१०॥ध्येया या चिन्तनीया रुचिरविकिरणा साकिनी पीतवक्त्रासा पायान्नीरदाभं वरदसमददं चन्द्रचूडं सदेशम् ।ब्रर्ह्रेन्द्रैगिमुख्यैर्विरचयति दलग्रन्थि संस्थानचित्रंविद्युत्पुञ्जप्रकाशा मुनिगणनिलया सेव्यतां साधकेन्द्रैः ॥११॥आकाशाख्य प्रकाशे द्विरसदलकलाप्रोज्ज्वले ब्रह्ममार्गेजीवानां हंसमाला विचरितपवने धूमधूमेन्दुशुभ्रे ।श्रीमार्तण्डो विशुद्धे जयति कुलपथोद्दीपनः प्राणवायुःसाकिन्या योगिनीभिर्वसति सुखपदामोदचिन्तामनीशः ॥१२॥द्वावेव धत्तः सकलञ्च कालंसदाशिवौ तौ मधुपूरवासुनौ ।इच्छाक्रियाज्ञानविराजितौ यौप्रधानदेवी भजतां सुखास्पदौ ॥१३॥विशुद्धपद्मे प्रकृतीश्वरौ यौप्रचक्रतू बाणशिवादिभेदिनौ ।अकाररुपे गुरुमन्त्रदीप्तौकुलाकुलार्थो पथि भावनीयौ ॥१४॥महाभैरव उवाचकुलजे परमे विद्ये नित्यानन्दस्वरुपिणि ।भेदान् सर्वान्मम स्नेहाद्वत्तमर्हसि सुन्दरि ॥१५॥कालकूटमहाभीममदोन्मादसुविस्मृतः ।अहं न जाने योगार्थान् नित्यायुर्बन्धनपियान् ॥१६॥यदि मां रक्षितुं शक्ता विषाक्ताङुं सदावतु ।कथं वा कण्ठसञ्चारः कथं वा राक्षसी क्रिया ॥१७॥कथं वा रिपुविद्वेषी कथं वा मङुलोदयः ।कियद्वा विनयाहलादं कियद्वा कालसाधनम् ॥१८॥नवीनत्वं कथं याति ध्यानं वा कीदृशं तव ।तवाङागुरुसद्भावं कुलपीठप्रदर्शनम् ॥१९॥कुण्डलीगमनं कुत्र साधकानां कुलं कुतः ।वर्णध्यानं कुत्र पदे दलभेदः कथं भवेत् ॥२०॥स्फूर्तिर्विद्यावियोगो हि पूर्वज्ञानसमोदयः ।कथं समरसप्राप्तिः कथं वा कायकल्पनम् ॥२१॥मथनं कामदेवस्य कथं देहे व्यवस्थितः ।कण्ठाम्भोजस्थिरः को वा भावज्ञानी च को जनः ॥२२॥भावादि त्वत्कृपादृष्ट्या वद आदौ पतिं प्रति ।श्रीआनन्दभैरवी उवाचआदौ श्रीकण्ठसञ्चारः शूयतां परमेश्वर ॥२३॥श्रोतव्य मन्त्रिभिर्नित्यं कर्तच्यं प्रत्यहं प्रभो ॥२४॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP