संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चदशः पटलः| ब्रह्मज्ञानीलक्षणम् पञ्चदशः पटलः ब्रह्मविवेचनम् कुण्डलिनीविवेचनम् वायवीशक्तिनिरूपणम् वैष्णवभक्तस्य स्वरूपकथनम् याज्ञिकलक्षणम् ब्रह्मज्ञानीलक्षणम् पञ्चदशः पटलः - ब्रह्मज्ञानीलक्षणम् वेदप्रकरणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल ब्रह्मज्ञानीलक्षणम् Translation - भाषांतर मणौ लोष्ठे समं ध्यानं धर्मेऽधर्मे जयेऽजये ।कृत्वा त्यागी भवेद्यस्तु ब्रह्मज्ञानी स साधकः ॥५०॥सदा ईश्वरचिन्ता च गुरोराज्ञा व्यवस्थितिः ।सुशीलो दीनबन्धुश्च धार्मिकः परिकीर्तितः ॥५१॥कालज्ञो विधिवेत्ता च अष्टाङयोगविग्रहः ।पर्वते कन्दरे मौनी भक्तो योगी प्रकीर्तितः ॥५२॥ब्रह्मज्ञानी चावधूतः पुण्ययात्मा सुकृती शुचिः ।वाञ्छाविहिनो धर्मात्मा स योगी परिकीर्तितः ॥५३॥वाग्वादिनीकृपापात्रः षडाधारस्य भेदकः ।ऊर्ध्वरेता स्त्रीविहिनः स योगी परिकीर्तितः ॥५४॥यजुर्वेदपुरोगामी यजुःपत्रस्थवर्णधृक् ।वर्णामालाचित्तजापो भावुकः स हि योगिराट् ॥५५॥मासद्वादशकग्रस्तं राशिद्वादशकान्वितम् ।तिथिवारं तु नक्षत्रयुक्तमाज्ञाम्बुजं भजेत् ॥५६॥दिक्कालदेशप्रश्नार्थ वायवीशक्तिनिर्णयम् ।बालवृद्धास्तादिदण्डपलनिश्वाससंख्यया ॥५७॥व्याप्तमाज्ञाचक्रासारं भजेत् परमपावनम् ।चक्रे सर्वत्र सुखदं सतां हानिर्न च प्रभो ॥५८॥खलानां विपरीतञ्च निन्दकानां पदे पदे ।दुःखानि प्रभवन्तीह पापिनाञ्च फलाफलम् ॥५९॥पापी पञ्चत्त्वमाप्नोति ज्ञानी याति परं पदम् ।यः श्वासकालवेत्ता च स ज्ञानी परिकीर्तिताः ॥६०॥श्वासकालं न जानति स पापी परिकीर्तितः ।यजुर्वेदं सत्त्वगुण सत्त्वाधिष्ठाननिर्मलम् ॥६१॥गुरोराज्ञाक्रमेणैव अधस्तत्त्वेन कुण्डलीम् ।महाशक्तिं समाप्नोति ऊद्र्ध्वाधः क्रमयोगतः ॥६२॥यजुर्वेदं महापात्रसत्त्वाधिष्ठानसेवया ।ललाटमृतधाराभिश्चैतन्या कुण्डली भवेत् ॥६३॥विभाव्य द्विदलं चक्रं होमं कुर्यादहर्निशम् ।शुद्धाज्यैर्जुहुयान्मन्त्री अधस्तुण्डे च कुण्डलीम् ॥६४॥भजन्ति रुद्धेन्दिय शुद्धयोगंप्रचण्डरश्मिप्रगताङ्सुन्दराः ।आम्बुजं चक्रवरं चतुद्र्दलंयन्मध्यदेशे शतकोटितेजसम् ॥६५॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावनिर्णये पाशवकल्पे आज्ञाचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे वेदप्रकरणोल्लासे भैरवभैरवीसंवादे पञ्चदशः पटलः ॥१५॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP