पञ्चदशः पटलः - वैष्णवभक्तस्य स्वरूपकथनम्

वेदप्रकरणम्


वैष्णवानां वैष्णवत्वं आज्ञाचक्रे फलाफलम् ।
आज्ञाचक्र महाचक्रं यो जानाति महीतले ॥३६॥

तस्याऽसाध्यं त्रिभुवने न किञ्चदपि वर्तते ।
सदा शुचिर्ध्याननिष्ठो मुहुर्जाप्यपरायणः ॥३७॥

स्मृतिवेदक्रियायुक्तो विधिश्रुतिमनुप्रियः ।
सर्वत्र समभावो यो वैष्णवः परिकीर्तितः ॥३८॥

समता शत्रुमित्रेषु कृष्णभक्तिपरायणः ।
योगशिक्षापरो नित्यं वैष्णवः परिकीर्तितः ॥३९॥

यजुर्वेदाभ्यासरतः सदाचारविचारवन् ।
सदा साधुषु संसर्गो वैष्णवः परिकीर्तितः ॥४०॥

विवेकधर्मविद्यार्थी कृष्णे चित्तं निधाय च ।
शिववत् कुरुते कर्म वैष्णवः परिकीर्तितः ॥४१॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP