संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चदशः पटलः| ब्रह्मविवेचनम् पञ्चदशः पटलः ब्रह्मविवेचनम् कुण्डलिनीविवेचनम् वायवीशक्तिनिरूपणम् वैष्णवभक्तस्य स्वरूपकथनम् याज्ञिकलक्षणम् ब्रह्मज्ञानीलक्षणम् पञ्चदशः पटलः - ब्रह्मविवेचनम् वेदप्रकरणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल ब्रह्मविवेचनम् Translation - भाषांतर आनन्दभैरवी उवाचदेवकार्य वेदशाखापल्लवं प्रणवं परम् ।वदामि परमानन्द भैरवाहलादमाश्रृणु ॥१॥आद्यपत्रे अकारञ्च ऋग्वेदं परमाक्षरम् ।ब्रह्मणं तं विजानीयाद् आद्यवेदार्थनिर्णयम् ॥२॥वेदेन लभ्यते सर्वं वेदाधीनमिदं जगत् ।वेदमन्त्रविहीनो यः शक्तिविद्यां समभ्यसेत् ॥३॥स भवेद्दि कथं योगी कौलमार्गपरायणः ।श्रीआनन्दभैरव उवाचब्रह्मास्तोत्रं हि किं देवि! ब्रह्मविद्या च कीदृशी? ॥४॥ब्रह्मज्ञानी च को वा स्यात् को वा ब्रह्मशरीरधृक् ।तत्प्रकारं कुलानन्दकारिणि प्रियकौलिनि ॥५॥वद शीघ्रं यदि स्नेहदृष्टिश्चेन्मयि सुन्दरि ।श्री आनन्दभैरवी उवाचतदेव ब्रह्मणः स्तोत्रं वायवीशक्तिसेवनम् ॥६॥सूक्ष्मरुपेण मग्ना या ब्रह्मविद्या प्रकीर्तिता ।सदा वायू प्राणरससूक्ष्मोन्मतप्रसन्नधीः ॥७॥एकान्तभक्तिः श्रीनाथे ब्रह्मविद्या प्रकीर्तिता ।अष्टाङुन्यासनिहतः सूक्ष्मसञ्चारह्रत् शुचिः ॥८॥सदा विवेकमाकुर्याद ब्रह्मज्ञानी प्रकीर्तितः ।ब्रह्मानन्दं ह्रदि श्रीमान् शक्तिमाधाय वायवीम् ॥९॥सदा भजति यो ज्ञानी ब्रह्मज्ञानी प्रकीर्तितः ।विजयारससारेण बिना बाह्यसवेन च ॥१०॥वायव्यानन्दसंयुक्तो ब्रह्मज्ञानी प्रकीर्तितः ।सदानन्दरसे मग्नः परिपूर्णकलेवरः ॥११॥आनन्दश्रुजलोन्मतो ज्ञातो ब्रह्मशरीररधृक् ।शक्तिः कुण्डलिनी देवी जगन्मातास्वरुपिणी ॥१२॥प्राप्तते यैः सदा भक्तैः मुक्तिरेवागमं फलम् ।आद्यपत्रे प्रतिष्ठान्ति वर्णजालसमाश्रिताः ॥१३॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP