संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चदशः पटलः| वायवीशक्तिनिरूपणम् पञ्चदशः पटलः ब्रह्मविवेचनम् कुण्डलिनीविवेचनम् वायवीशक्तिनिरूपणम् वैष्णवभक्तस्य स्वरूपकथनम् याज्ञिकलक्षणम् ब्रह्मज्ञानीलक्षणम् पञ्चदशः पटलः - वायवीशक्तिनिरूपणम् वेदप्रकरणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल वायवीशक्तिनिरूपणम् Translation - भाषांतर एते षट्शङ्कराः सर्वसिद्धिदाः चित्तसस्थिताह ।सर्वे तिष्ठन्ति पत्राग्रेऽमूतधारसाप्लुताः ॥२१॥अधोमुखाः सूक्ष्मरुपाः कोटिसूर्यसमप्रभाः ।ब्रह्ममार्गस्थिताः सर्वे सन्ति षट्चक्रमण्डले ॥२२॥आज्ञया अध एवं हि चक्रं द्वादशकं स्मरेत् ।गलितामृतधाराभिराप्लुतं कुण्डलीप्रियम् ॥२३॥आग्नेयीं कुण्डलीं मत्त्वा अधोधाराभितर्पणम् ।प्रकुर्वन्ति परनन्दसिकाः षट्शिवाः सदा ॥२४॥चन्द्रमण्डलसञ्जाता जीवरुपधारा यथा ।आत्मज्ञानसमाशक्ताः शक्तितर्पणतत्पराः ॥२५॥द्वितीयदलरुपं हि यजुर्वेदं कुलेश्वर ।अकस्मात् सिद्धिकरणं विष्णुनां परिमीलितम् ॥२६॥वज्रकोटिमहाध्वानघोरनादसमाकुलम् ।हरिमीश्वरमीशानं वासुदेव सनातनम् ॥२७॥सत्वाधिष्ठान विनयं चतुर्वर्गफलप्रदम् ।वाञ्छातिरिक्तदातारं कृष्णं योगेश्वर प्रभुम् ॥२८॥राधिका राकिणी देवी वायवीशक्तिलालितम् ।महाबलं महावीरं शङ्कचक्रगदाधरम् ॥२९॥पीताम्बरं सारभूतं यौवनामोदशोभितम् ।श्रुतिकन्यासमाक्रान्तं श्रीविद्याराधिका प्रभुम् ॥३०॥दैत्यदानवहन्तारं शरीरस्य सुखावहम् ।भावदं भक्तिनिलयं यदा सागर चन्द्रकम् ॥३१॥गरुडासनसमारुढं मनोरुपं जगन्मयम् ।यज्ञकर्मविधानज्ञं आज्ञाचक्रोपरि स्थितम् ॥३२॥अधः परामृतरसपानोन्मत्तकलेवरः ।साधको योगनिरतः स्वाधिष्ठानगतं यथा ॥३३॥तदाकारं विभाव्यशु सिद्धिमाप्नोति शङकर ।को वैष्णवो वाजिकः को धार्मिको वापि को भुवि ॥३४॥को वा भवति योगी च तन्मे वद सुरेश्वरि ।आनन्दभैरवी उवाचशङ्कर श्रृणु वक्ष्यामि कालनिर्णयलक्षणम् ॥३५॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP