पञ्चदशः पटलः - याज्ञिकलक्षणम्

वेदप्रकरणम्


यज्ञिको ब्राह्मणो धीरो भवः प्रेमभिलाषवान् ।
वनस्थो घोरविपिने नवीनतरुशोभिते ॥४२॥

एकाकी कुरुते योगं जीवात्मपरमात्मनोः ।
वाय्वग्नी रेचकः सूर्यः पूरकश्चन्द्रमा तथा ॥४३॥

ज्वलच्छिखा सूर्यरुपा न च योजनमेव च ।
पुनः पूरकयोगश्च चन्द्रस्य तेजसा हविः ॥४४॥

ऊद्‌र्ध्वविषां ज्वलद्‌वहनौ वायवीबलचञ्चले ।
योऽनिशं कुरुते होमं मौनी याज्ञिक उच्यते ॥४५॥

जीवसूर्याग्निकिरणे आत्मचन्द्राद्यपूरकैः ।
काये यः कुरुते होमं याज्ञिकः परिकीर्तितः ॥४६॥

सुरा शक्तिः शिवो मांस तद्‌भोक्ता भैरवः स्वयम् ।
शक्त्यग्नौ जुहुयान्मांसं याज्ञिकः परिकीर्तितः ॥४७॥

विधिवत् कुलकुण्डे च कुलवहनौ शिवात्मकैः ।
पूर्णहोमं यः करोति याज्ञिकः परिकीर्तितः ॥४८॥

भूमण्डले धर्मशाली निर्जने कामवेश्मनि ।
दृढभक्त्या जीवसारं यो जपेत् स हि धार्मिकः ॥४९॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP