संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुर्थः पटलः| सूक्ष्मचक्रम् चतुर्थः पटलः ब्रह्मचक्रम् श्रीचक्रम् उल्काचक्रम् रामचक्रम् चतुष्चक्रम् सूक्ष्मचक्रम् चतुर्थः पटलः - सूक्ष्मचक्रम् मन्त्रदोषादिनिर्णयः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल सूक्ष्मचक्रम् Translation - भाषांतर सूक्ष्मचक्रं प्रवक्ष्यामि हिताहितफलप्रदम् ॥१६९॥एतदुक्ताक्षरं शम्भो गृहीत्वा जपमाचरेत् ।वामदक्षिणमारभ्य सप्तरेखाः समालिखेत् ॥१७०॥भित्वा तदङ्कान् मन्त्री च रेखातुष्टयं लिखेत् ।दक्षिणादिक्रमेणैव बद्धमन्दिरमध्यके ॥१७१॥मन्त्रक्षराणि विलिखेङ्कचारेण साधकः ।तदङ्कं श्रृणु यत्नेन नराणां भुक्तिमुक्तिदम् ॥१७२॥प्रथमे मन्दिरे नाथ भुजाङ्कं विलिखेत्ततः ।विष्णुमन्त्रादिगेहे च वेदाङ्कं विलिखेद् बुधः ॥१७३॥तत्पश्चादष्टमाङ्कं च भुजाधः षष्ठमेव च ।तद्गेहं शङ्कस्यापि तत्पश्चाद्दशमं गृहे ॥१७४॥तत्पश्चाद्द्वादशाङ्कञ्च नायिकास्थानमेव च ।षष्ठाधोयुगलाङ्कञ्च तत्पश्चादष्टमं तथा ॥१७५॥तद्गृहं शम्भुना व्यस्तं तत्पश्चादष्टमं तथा ।युगलाधोगृहे चापि चतुर्दशाक्षरं तथा ॥१७६॥तद्दक्षिणे सूर्यगेहं चतुद्र्दशाक्षरान्वितम् ।तत्पश्चात् षोडशाङ्ञ्च पुनरङ्कं लिखेत्ततः ॥१७७॥तद्दक्षिणे वेदवर्णं तत्पश्चादष्टमाक्षरम् ।ब्रह्ममन्दिरमेवं तत् षोडशाधः पुनः श्रृणु ॥१७८॥अष्टमाङ्कं ततो युग्ममष्टादशाक्षरं ततः ।प्रथमस्थं द्वितीयस्थं गुहणीयाद् शुभदं स्मृतम् ॥१७९॥तृतीयस्थं महापापं सर्वमन्त्रेषु कीर्तितम् ।द्वितीयं प्रथमं दुःखं तृतीयं सर्वभाग्यदम् ॥१८०॥तृतीयञ्च तथा नाथ गृहणीयन्निजसिद्धये ।तृतीये प्रथमं भद्रं द्वितीयं दुःखदायकम् ॥१८१॥तृतीयञ्च तथा प्रोक्तमष्टाक्षरगृहं भयम् ।चतुर्दशाक्षरं भद्रं सूर्यमन्त्रं द्वितीयकम् ॥१८२॥तृतीयस्थं षोडशाङ्के महाकल्याणदायकम् ।अष्टमूर्तिः षोडशाङ्के चतुर्थे शत्रुमारणम् ॥१८३॥तृतीयगृहमध्यस्थं ब्रह्मकल्याणदायकम् ।वस्वक्षंर सर्वशेषगृहमध्यस्थमेव च ॥१८४॥अष्टमञ्च महाभद्रं क्षमं चित्तभयप्रदम् ।अष्टादशाङ्कं शुभदं शेषगेहत्रये तथा ॥१८५॥येषां यदक्षराणाञ्च मन्त्रं चेतासि वर्तते ।एतत् शुभाशुभं ज्ञात्वा मन्त्रवर्णं तदाभ्यसेत् ॥१८६॥विष्णुमन्त्रस्थितं मन्त्रं नायिकास्थं शिवस्थकम् ।सूर्यस्थं ब्रहासंस्थञ्च गृहणीयात् शाक्त एव च ॥१८७॥वैष्णवो विष्णुमन्त्रार्थं शैवः शिवमुपाश्रयेत् ।नायिकामन्त्रजापी च नायिकार्णं सदाभ्यसेत् ॥१८८॥सूर्यमन्त्रविचारार्थी सूर्यमन्त्रं समाश्रयेत् ।एकस्थं युगलस्थानं तृतीयस्थानमेव च ॥१८९॥ज्ञात्वा मन्त्रं प्रगृहणीयात् अन्यथा चाशुभं भवेत् ।एतदन्यतमं मन्त्रं दिव्यवीरेषु गीयते ॥१९०॥ततश्चक्रं पशोरुक्तं सर्वसिद्धिप्रदं ध्रुवम् ।एतच्चक्रप्रभावेण पशुर्वीरोपमः स्मृतः ॥१९१॥सर्वसिद्धियुतो भूत्वा वत्सरात्तां प्रपश्यति ॥१९२॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महामन्त्रोद्दीपने सर्वचक्रानुष्ठाने सिद्धमन्त्रप्रकरणे भावनिर्णये भैरवीभैरवसंवादे चतुर्थः पटलः ॥४॥ N/A References : N/A Last Updated : April 08, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP