संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुर्थः पटलः| चतुष्चक्रम् चतुर्थः पटलः ब्रह्मचक्रम् श्रीचक्रम् उल्काचक्रम् रामचक्रम् चतुष्चक्रम् सूक्ष्मचक्रम् चतुर्थः पटलः - चतुष्चक्रम् मन्त्रदोषादिनिर्णयः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल चतुष्चक्रम् Translation - भाषांतर चतुश्चक्रं प्रवक्ष्यामि शृणुष्व पार्वतीपते ।वामदक्षिणयोगेन रेखापञ्चकमालिखेत् ॥१४८॥पूर्वपश्चिमभेदेन रेखाः पञ्च समालिखेत् ।चतुष्कोष्ठे दक्षभागे चतुष्कोष्ठे च मन्त्रवित् ॥१४९॥तदधश्च चतुष्कोष्ठे तद्वामस्थे चतुर्गहे ।प्रलिखेत क्रमशश्चाद्ये चतुर्मन्दिरमध्यके ॥१५०॥शीघ्रञ्च शीतलं जप्तं सिद्धञ्चापि ततः परम् ।अकारञ्च उकारञ्च लृसोकारं ततः परम् ॥१५१॥ऊद्र्ध्वस्थमिति वर्णं तु शीतलस्थं श्रृणु प्रभो ।अकारच उकारञ्च (लृ लृ)सौकारञ्च ततः परम् ॥१५२॥तदधो जगगेहस्थं वर्णं श्रृणु महाप्रभो ।इकारञ्च ऋकारञ्च ततः परम् ॥१५३॥सिद्धगेहस्थितं वर्णं श्रृणु सर्वसुखप्रदम् ।तद्दक्षिणचतुगेहे स्थितान् वर्णान् वदामि तान् ॥१५४॥आहलादञ्च प्रत्ययञ्च मुखञ्च शुद्धमित्यपि ।एतत्कुलस्थान् सर्वाणीन् शुभाशुभफलप्रदान् ॥१५५॥करकाञ्च ऋकारञ्च ञकारकम् ।आहलादस्थमिति प्रोक्तं प्राप्तिमात्रेण सिद्धिदम् ॥१५६॥प्रत्ययस्थं गकारञ्च घकारं टठामित्यपि ।मुखस्थं हि ङ्कारञ्च चकारं डढामित्यपि ॥१५७॥शुद्धस्थञ्च उकारञ्च जकारं णतमित्यपि ।तदधःस्थं चतुर्गेहं लौकिक सात्त्विक तथा ॥१५८॥मानसिंक राजसिक चतुर्गेहस्थितं त्विमम् ।लौकिकस्थं थकारञ्च दकारञ्च मकारकम् ॥१५९॥सात्त्विकस्थं धकारञ्च लकारञ्च यकारकम् ।मानसिकञ्च श्रृणु भो पकारञ्च फमित्यपि ॥१६०॥श्रृणु राजसिकत्वञ्च भकारं वनमित्यपि ।तन्नामस्थं चतुर्गेहं श्रृणु पञ्चानन प्रभो ॥१६१॥सुप्तं क्षिप्तञ्च लिप्तञ्च दुष्टमन्त्रं प्रकीर्तितम् ।ऊद्र्ध्वगेहस्थितान् वर्णमन्त्रान् गृहणाति यो नरः ॥१६२॥वर्जयित्वा सुप्तमन्त्रं क्षितं लिप्तञ्च दुष्टकम् ।ऐहिके सिद्धिमाप्नोति परे मुक्तिमवाप्नुयात् ॥१६३॥यद्यभाग्यवशात्सुतादिषु गेहेषु लभ्यते ।तदा मन्त्रं शोधयेद् वै सुप्तस्तम्भितकीलितैः ॥१६४॥वर्द्धितैर्दोषजालस्थैरशुभं भूतशुद्धये ।भूतलिया पुटीकृत्या जप्त्वा सिद्धिं ततो लभेत् ॥१६५॥न तु वा वर्जयेद् गेहं चतुष्कं वर्णवेष्टितम् ।सुप्तनेगस्थितं वर्णं श्रृणु पञ्चानन प्रभो ॥१६६॥वकारञ्च हकारञ्च ततोऽन्यद्गृअहसंस्थितम् ।शकारञ्च लकारञ्च क्षिप्तगेहस्थितद्वयम् ॥१६७॥धकारञ्च क्षकारञ्च लिप्तगेहस्थितं द्वयम् ।दुष्टगेहस्थितं नाथ शकारगगनं तथा ॥१६८॥निजं सौभाग्ययुक्तं यत्तमन्त्रं तदुपाश्रयेत् । N/A References : N/A Last Updated : April 08, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP