संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुर्थः पटलः| रामचक्रम् चतुर्थः पटलः ब्रह्मचक्रम् श्रीचक्रम् उल्काचक्रम् रामचक्रम् चतुष्चक्रम् सूक्ष्मचक्रम् चतुर्थः पटलः - रामचक्रम् मन्त्रदोषादिनिर्णयः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल रामचक्रम् Translation - भाषांतर अथ वक्ष्ये महादेव चक्रसारं सुदुर्लभम् ।रामचक्रं महाविद्या सर्वमन्दिरमेव च ॥१२४॥सर्वसिद्धिप्रदं मन्त्रं निजनामस्थमाश्रतेत् ।तदैव सिद्धिमाप्नोति सत्यं सत्यं महेश्वर ॥१२५॥तत्प्रकारं श्रृणु क्रोधभैरव प्रियवल्लभ ।नवाङ्कान् प्रलिखेद् विद्वान् वामदक्षिणभागतः ॥१२६॥तन्मध्ये क्रमशो दद्यात् तथा सप्तदशाङकान् ।दक्षिणादिक्रमेणैवमुक्ताविद्याः समालिखेत् ॥१२७॥अकारदिक्षकारान्तं सर्वस्मिन् मन्दिरे लिखेत् ।बालादिदेवताः सर्वा भ्रामर्यन्ताश्च देवताः ॥१२८॥अस्याकाशविधे गेहे सान्तनित्यं फलप्रदम् ।पुनर्विलोममार्गेण आदिक्षान्तार्णामन्दिरे ॥१२९॥रक्तदन्तादि श्रीविद्या मन्त्रान्तं विलिखेद् बुधः ।क्षकाराद्यनुलोमेन अकारन्तं लिखेत् ततः ॥१३०॥पुनस्तच्छेषविद्याश्च शेषगेहे लिखेत् सदा ।कायशोधनमुख्यादि शैलवासिनि मन्त्रकम् ॥१३१॥पञ्चविंशतिगेहस्थं गणयेत साधकस्ततः ।गृहस्थमङ्कं वक्ष्यामि श्रृणु योगीशवल्लभ ॥१३२॥बालागृहादिशेषान्तं मुनिहस्तविधौ गृहे ।क्रमेण श्रूणु तत्सर्वं सावधानावधारय ॥१३३॥दक्षिणावर्तयोगेन गणयेत् क्रमशो बुधः ।वसुसप्तपञ्चमेषुवहिनवेदानलस्तथा ॥१३४॥मुनिषष्ठाद्यवेदाश्च सप्तेषुमुनयस्तथा ।पञ्चवेदेषुवसवो वेदषुवहनयस्तथा ॥१३५॥वहिनवेदाश्च सम्र्पोक्त आकाशं तदनन्तरम् ।आकाशानन्तरे गेहे अनलं परिकीर्तितम् ॥१३६॥तत्पश्चात् सर्वगेहेषु सर्वाङ्क दक्षतः श्रृणु ।वहिन वहिनवेदवहिन वेदवहनय एव च ॥१३७॥श्रवणक्षिवेदबाण वेदेषु सप्तकस्तथा ।षष्ठाष्टसप्तमाः प्रोक्ता वहन्यग्नीषु मुनिस्तथा ॥१३८॥मुनीषु बाणवेदाश्च मुन्यग्निवहनयस्तथा ।वहिनवेदबाणसत अष्टाङ्कवेदबाणकाः ॥१३९॥पञ्चसप्तानलाग्निश्च वहनीषुबाणबाणकाः ।बाणवेदकान्तवेदकान्तश्रुतिचतुर्थकाः ॥१४०॥रामर्षिमुनिषष्ठाश्च सप्तेषु रामवेदकाः ।वेदसप्ताष्टवसवो नवमाष्टमसप्तमाः ॥१४१॥वहन्यग्निवेदबाणाश्च वस्वष्टानलवेदकाः ।सप्ताष्टमाश्च सम्प्रोक्ता गृहाङ्का परिकीर्तिताः ॥१४२॥येषां मनसि या विद्या सदा तिष्ठति भावने ।तामाश्रित्य जपेद्विद्वान् तदा सिध्यति निश्चितम् ॥१४३॥स्वनाम देवतानाम पूरयेत् षोडशाङ्ककैः ।हरेन्निजगृहस्थेन चाङ्केन साधकोत्तमः ॥१४४॥कृतशेषं बहुतरं शुभं देवस्य निश्चितम् ।अल्पाङ्कसाधकस्यापि सौख्यमेव न संशयः ॥१४५॥उक्तक्रमेण गणयेत् साधकः स्थिरमानसः ।महाविद्यानायिकादियज्ञभूतादिसाधने ॥१४६॥सम्प्रोक्तं चक्रसारञ्च सर्वतन्त्रेषु गोपितम् ।ततश्चचक्राविचारेण सिद्धिमाप्नोति साधकः ॥१४७॥ N/A References : N/A Last Updated : April 08, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP