संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुर्थः पटलः| श्रीचक्रम् चतुर्थः पटलः ब्रह्मचक्रम् श्रीचक्रम् उल्काचक्रम् रामचक्रम् चतुष्चक्रम् सूक्ष्मचक्रम् चतुर्थः पटलः - श्रीचक्रम् दीक्षायां सर्वचक्रानुष्ठानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल श्रीचक्रम् Translation - भाषांतर श्रूयतां शैलजानाथ चक्रं श्रीत्रिदशात्मकम् ।पूर्वपश्चिमभेदेन षट् च रेखाः समालिखेत् ॥४२॥वामादि दक्षिणान्तञ्च रेखा दश समालिखेत् ।पञ्चगेहे पूरकाङ्कं सर्वधोहारकाङ्ककम् ॥४३॥तन्मध्ये रचयेदक्षं देवताग्रहसंयुतम् ।पूरकाङ्कं मध्यगेहे सप्तार्षियुक्तमालिखेत ॥४४॥तद्दक्षिणे द्वादशञ्च तद्दक्षेण रसं तथा ।तद्दक्षे अष्टदशके तद्दक्षे षोडशस्मृतम् ॥४५॥पूरकाङ्कं ततो लेख्यं इन्द्राद्यङ्कश्च दक्षतः ।इन्दगेहे च शतकं विधिविद्याफलप्रदम् ॥४६॥धर्मगेहे शून्यसप्त युगलं विलिखेद् बुधः ।अन्नन्तमन्दिरे नाथ शून्याष्टवसुरेव च ॥४७॥कालीगृहे शून्यवेदवामाद्याङ्कं विलिखेत्ततः ।धूमावतीमन्दिरे च शून्यखेषु निशापतिम् ॥४८॥इन्द्राद्या दक्षतो लेख्या अङ्काश्चन्द्राधिदेवताः ।शून्याष्टचन्द्रयुक्तञ्च सर्वत्र देवता लिखेत् ॥४९॥तथाश्विनीकुमारौ च शून्यानलयुगायुगौ ।तत्पश्चात् पूर्वगेहञ्च सहस्त्रार्कसमन्वितम् ॥५०॥तारिणीमन्दिरस्थाङ्क शून्यवेदं तथैवं च ।बगलामुखीगेहस्थं शून्याष्टचन्द्रंसंयुतम् ॥५१॥ततश्चचन्द्रगृहस्याधो वायुर्गेहं मनोरमम् ।रन्ध्रवेदात्मकं गेहं सर्वसिद्धिप्रदायकम् ॥५२॥राहुगेहं महापापं शून्यशून्यमुनिप्रियम् ।पश्चादेकत्र हस्तञ्च खशून्ययुगलात्मकम् ॥५३॥षोडशीमन्दिरे शून्यमष्टचन्द्रसमन्वितम् ।मातङीमन्दिरे शून्यरुद्रचन्द्रसमन्वितम् ॥५४॥वायोरधोवरुणस्य गृहं सप्तशशिप्रियम् ।तरुणी गेहमध्ये च शून्याष्टकसमन्वितम् ॥५५॥बुधगेहस्थिताङ्कञ्च शून्यचन्द्रयुगात्मकम् ।भुवनेशीमन्दिरथं शून्याष्टकशशिप्रियम् ॥५६॥वरुणाधः कुबेरस्य गृहस्थं षट् च युग्मकम् ।आनन्तभैरवी गेहे दशकं परिकीर्ततम् ॥५७॥धरणीगृहामध्ये च शून्ययुग्मेन्दुसंयुतम् ।भैरवी गृहमध्यस्थं शून्ययुगलचन्द्रकम् ॥५८॥राशिगृहस्थितं शून्यर्षिचन्द्रमण्डलसंयुतम् ।कुबेराधः स्वकं चक्रस्थिताङ्कं सर्वासिद्धिदम् ॥५९॥ईश्वरवस्य गृहस्थञ्च सप्तशून्ययुगात्मकम् ।तिरस्कारिण्या गेहस्थं सहस्त्राङ्कसमन्वितम् ॥६०॥किङ्किणीमन्दिरं पश्चादष्टचन्द्रसमन्वितम् ।छिन्नमस्तागृहं पश्चाच्छून्याष्टचन्द्रमण्डलम् ॥६१॥वागीश्वरीगृहं पश्चात् सप्तमं चन्द्रमण्डलम् ।महाफलप्रदातार धर्मो रक्षति तं पुनः ॥६२॥ईश्वस्य अधोगेहे बटुकस्य गृहं ततः ।शून्याष्टमांद्य स्वगृहं धर्मार्थकाममोक्षदम् ॥६३॥तत्पश्चात् डाकिनीगेहं खशून्यमुनिसंयुतम् ।हन्ति साधकसौख्य हि क्षणादेव न संशयः ॥६४॥स्वगृहे स्वीयमन्त्रस्य फलदं परिकीर्तितम् ।भीमादेवीगृहं पश्चात् खससप्तचन्द्रमण्डलम् ॥६५॥भयदं सर्वदेशे तु वर्जयेद् गृहान्तरम् ।लक्षवर्णं लिखेत् शेषगृहे द्वे पण्डितोत्तमः ॥६६॥इन्द्रगेहावधिं धीरो वकारादिकवर्णकम् ।क्षकरान्तं लिखेत्तत्र गणयेत् साधकस्ततः ॥६७॥पूरकाङ्कमूद्र्ध्वदेशे हारकाङ्कमधो लिखेत् ।निजनामाक्षरं यत्र तत्कोष्ठाङ्कं महेश्वर ॥६८॥नीत्त्वा च पूजयेद्विद्वान् स्वस्वगेहोर्ध्वदेशगैः ।अङ्कैस्ततो हरेर्नाथ अधोऽङ्के हार्यशेषकम ॥६९॥विस्तारञ्चेद्देवताङस्तदङ शुभदः स्मृतः ।अल्पाङ शुभदः साकधदस्य सुखावहः ॥७०॥एकाक्षरे महासौख्यं तत्रापि गणयेद् वचः ।धीराङ्कः शून्यगामी च देवताङस्तथा विभो ॥७१॥तदा नैव शुभं विद्यादशुभाय प्रकल्प्यते ।एके धनमाप्नोति द्वितीये राजवल्लभः ॥७२॥तृतीये जाप्यसिद्धिः स्याच्चतुर्थे मरणं ध्रुवम ।पञ्चमे पञ्चमानः स्यात् षष्ठे दुःखोत्कटानि च ॥७३॥शैवानां शाक्तवर्णानामित्यङ्कः परिगृह्यते ।वैष्णवानां निषेधे च पञ्चमाङ्को निषेधकः ॥७४॥यासां यासां देवतानां हिंसा तिष्ठति चेतसि ।तन्मन्त्रग्रहणादेवाष्टैश्वर्ययुतो भवेत् ॥७५॥यद्देवस्याश्रिता ये तु तद्गृहाङ्कं हरन्ति ते ।ऊद्र्ध्वाङ्केन पूरयित्त्वा अधोऽङ्केन हरेत्सदा ॥७६॥ऋणिधनिमहाचक्रं वक्ष्यामि श्रृणु तत्त्वतः ।दर्शनादेव कोष्ठस्य जानति पूर्वजन्मगम् ॥७७॥देवं बहुतराङेषु ज्ञात्वा सिद्धीश्वरो भवेत् ।निजसेव्यां महाविद्यां गृहीत्वा मुक्तिमाप्नुयात् ॥७८॥कोष्ठशुद्धञ्च मन्त्रञ्च ये गृहणन्ति द्विजोत्तमाः ।तेषां दुःखानि नश्यन्ति ममज्ञा बलवत्तरा ॥७९॥कोष्ठशुद्धं महामन्त्रं फलदं रुद्रभैरव ।न हातव्यं महामन्त्रं सद्गुरुप्रियदर्शनात् ॥८०॥तत्र कोष्ठं न विचार्य चेज्जानति विचार्यकम् ।महाविद्या महामन्त्रे विचार्यकोटिपुण्यभाक् ॥८१॥अविचारे चोक्तफलं ददाति कामसुन्दरी ।कोष्ठान्येकादशान्येव देवेन पूरितानि च ॥८२॥अकारादिहकारान्तं लिखेत् कोष्ठेषु तत्त्ववित् ।प्रथमं पञ्चकोष्ठेषु ह्रस्वदीर्थक्रमेण तु ॥८३॥द्वयं द्वयं लिखेत्तत्र विचारे खलु साधकः ।शेषेष्वेकैकशो वर्णान् क्रमशस्तु लिखेत्सुधीः ॥८४॥अमावर्ण द्वयस्यार्द्धवधिस्तु क्रमशोऽङ्कम् ।आद्यमन्दिरमध्ये तु षष्ठाङ्कं विलिखेद् बुधः ॥८५॥द्वितीये षष्ठचिन्हञ्च तृतीये च गृहे तथा ।चतुर्थे गगनाङ्कञ्च पञ्चमे चक्रत्रयं तथा ॥८६॥षष्ठचापे चतुर्थञ्च सप्तमे च चतुर्थकम् ।अष्टमे गगनाङ्कञ्च नवमे दशमं तथा ॥८७॥शेषमन्दिरमध्ये तु त्रयाङ्कं विलिखेत्ततः ।एते नाथ साध्यवर्णाः कथिताः क्रमशो ध्रुवम् ॥८८॥कथयामि साधकार्णं सकलार्थानिरुपणम् ।आद्यगेहे द्वितीयञ्च द्वितेये च तृतीयकम् ॥८९॥तृतीये पञ्चमं प्रोक्तं गगनं वेदपञ्चके ।षष्ठे युगलमेवं हि सप्तमे चन्द्रमण्डलम् ॥९०॥अष्टमे गगनं प्रोक्तं नवमे च चतुर्थकम् ।वेदञ्च दशमे प्रोक्तं चन्द्रमेकादशे तथा ॥९१॥साधकार्णाः स्मृताः त्वेते वर्नमण्डलमध्यगाः ।साध्यवर्णान् महादेव स्वरव्यञ्जनभेदकान् ॥९२॥एवं हि सर्वमन्त्रार्णानमष्टाद्यङ्कै प्रपूरयेत् ।एकीकृत्य हरेदष्टसंख्याभिः क्षणवल्लभे ॥९३॥यस्यापहस्थितं वर्णं तन्नेभव्यं मनौ शुभे ।साधकाभिधानवर्णान् स्वरव्यञ्जनभेदकान् ॥९४॥पृथक् पृथक् संस्थितांश्च व्यक्तं श्रृणु पुनः पुनः ।द्वितीयाद्यङ्कचन्द्रान्ते संपूर्वाष्टभिराहरेत् ॥९५॥मन्त्रो यस्त्वाधिकाङ्क स्यात्तदा मन्त्रं जपेत् सुधीः ।समेऽपि च जपेमन्त्रं न जपेत्तु ऋणाधिके ॥९६॥शून्ये मृत्युं विजानीयात्तस्माच्छून्यं विवर्जयेत् ।द्वितीयाद्यङ्कजालञ्च वैष्णव सुखदं स्मृतम् ॥९७॥द्वितायाद्यङ्कजालञ्च वैष्णवे सुखदं स्मृतम् ।द्वितीयाद्यङ्कजालञ्च तथा वै परिकीर्तितम् ॥९८॥इन्द्राद्यङ्कं तथा सौरे शाक्ते शुभप्रदम् ।तथा दिक्संख्यकाङ्कञ्च साधकस्य शुभप्रदम् ॥९९॥तदङ्कं श्रृणु यत्नेन पूर्ववत् सकलं स्मृतम् ।स्थलञ्चैव विभिन्नाङ्कमूद्र्ध्वाधश्च क्रमेण तु ॥१००॥साध्याङ्कान् साधकाङ्काँ पूरयेद् गृहसंख्यया ।गुणिते तु ह्रते चापि यच्छेषं जायते स्फुटम् ॥१०१॥तदङ्कं कथयाम्यत्र एकादशगृहे स्थितम् ।इन्द्रतारास्वर्गरवितिथिषड्वेददाहनाः ॥१०२॥अष्टवसु नवाङ्कस्थाः साध्यार्णगुणिता इति ।दिग्भूगिरिश्रुतिगजवहिनपर्वतपञ्चमाः ॥१०३॥वेदषष्ठानलाङ्कञ्च गणयेत् साधकाक्षरान् ।नामाद्यक्षरमारभ्य यावन्मन्त्राक्षरं भवेत् ॥१०४॥तत्संख्याञ्च त्रिधा कृत्वा सप्तभिः संहरेद् बुधः ।अधिकं च ऋणं प्रोक्तं तच्छेषं धनमुच्यते ॥१०५॥अथवान्यप्रकारञ्च कृत्वा मन्त्रं समाश्रयेत् ।नामाद्यक्षरमारभ्य यावत् साधकवर्णकम् ॥१०६॥तावत्संख्यां सप्तगुणं कृत्वा वामैर्हरेद् बुधः ।श्रीविद्येतरविद्यायां गणना परिकीर्तिता ॥१०७॥अधवान्यप्रकरञ्च सकलान् साधकक्षरान् ।स्वरव्यञ्जनभेदेन द्विगुणीकृत्य साधकः ॥१०८॥साध्ययुक्तं ततः कृत्वा स्वरव्यञ्जनभेदकम् ।अष्टाभिः संहरेदङ्कं श्रृणु संहारविग्रहम् ॥१०९॥पूर्वचारक्रमं सम्यक् सर्वत्रामि शुभाशुभम् ।अस्य विचारमात्रेण सिद्धिः सर्वाथिसाधिका ॥११०॥पूर्वजन्माराधितायां तां प्राप्नोति हि देवताम् । N/A References : N/A Last Updated : April 08, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP