संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुर्थः पटलः| ब्रह्मचक्रम् चतुर्थः पटलः ब्रह्मचक्रम् श्रीचक्रम् उल्काचक्रम् रामचक्रम् चतुष्चक्रम् सूक्ष्मचक्रम् चतुर्थः पटलः - ब्रह्मचक्रम् दीक्षायां सर्वचक्रानुष्ठानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल ब्रह्मचक्रम् Translation - भाषांतर श्रीभैरवी उवाचअथ वक्ष्यामि चक्रान्यत् श्रृणु भैरव सादरम् ।येन हीना न सिद्ध्यन्ति महाविद्या वरप्रदाः ॥१॥ब्रह्मचक्रम्तव चक्रं ब्रह्माणा व्यक्तं ब्रह्मचक्रमुदाह्रतम् ।यस्य ज्ञानात् स्वयं ब्रह्मा स्वबलेन भवं सृजेत् ॥२॥अकालमृत्युहरणं परं ब्रह्मपदं व्रजे ।चतुष्कोणे चतुष्कोणं तन्मध्ये च चतुश्चतुः ॥३॥मध्यगेहं वेष्टयित्वा इष्टं मन्दिरमुत्तमम् ।अष्टकोणे महादेव षोडशस्वरमालिखेत् ॥४॥अष्टकोणं वेष्टयित्त्वा वृत्तयुग्मं लिखेत् सुधीः ।मध्यगेहे चतुष्कोणे कादिक्षान्तञ्च वर्णकम् ॥५॥दक्षिणावर्त्तयोगेन विलिखेत् साधकोत्तमः ।तदूद्र्ध्वे स्वगृहे चाङ्कं विलिख्य गणयेत् सुधीः ॥६॥चतुर्गेहस्योद्र्ध्वदेशे युग्मगेहे क्रमाल्लिखेत् ।साध्यस्य साधकस्यापि मेषादिकन्यकान्तकम् ॥७॥अधो लिखेत्तुलाद्यन्तमिति राश्यादिकं शुभम् ।ततो लिखेद् गेहदक्षे युग्मगेहे महेश्वर ॥८॥तारकाश्विनी ताराद्यन्तान् दक्षिणतो लिखेत् ।वर्णक्रमेण विलिखेद् वेदमन्दिरमण्डले ॥९॥ऊद्र्ध्वाधः क्रमशो लेख्यमङुतारं सुरेश्वर ।ततो हि गणयेमन्त्री योजयित्वा क्रमेण तु ॥१०॥सुखं राज्यं धनं वृद्धि कलहं कालदर्शनम् ।सिद्धिमृद्धिमष्टकोणे विदित्वा च शुभाशुभम् ॥११॥गणयेद्राशिनक्षत्रं मनुचाहं विवर्जयेत् ।सुखे सुखमवाप्नोति राज्ये राज्यमवाप्नुयात् ॥१२॥धने धनवाप्नोति वृद्धौ वृद्धिवाप्नुयात् ।मेषो वृषामिथुनश्च कर्कटः सिंह एव च ।कन्यका देवता ज्ञेया नक्षत्राणि पुनः श्रृणु ॥१३॥ऊद्र्ध्वयुग्मगृहस्यापि दक्षवामे च भागके ।नक्षत्राणि सन्ति यानि तानि श्रृणु महाप्रभो ॥१४॥अश्विनी मृगशिरश्लेषा हस्तानुराधिका तथा ।उत्तरषाढिकार्द्रा वा पूर्वभाद्रपदा तथा ॥१५॥दक्षाग्रहस्तितास्ताराः स्पष्टीभूताश्च देवताः ।एतासामधिपा एते राशयो ग्रहरुपिणः ॥१६॥कर्कटकेशरी कन्यादेवताः परिकीर्तिताः ।एतेषाञ्चापि वर्णानामधिपाश्चेति राशयः ॥११७॥ककास्य(ड?) खकास्य ञकारस्य टकारपः ।दकारस्य फकारस्य यकारस्य सकारपः ॥१८॥नकारस्यापि पतयो ज्ञेयाश्च क्रमशः प्रभो ।संश्रृणु रोहिणीपुष्या तथा चोत्तरफाल्गुनी ॥१९॥विशाखा च तथा ज्ञेया पूर्वाषाढा च तारका ।तथा शतभिषातारा वाममन्दिरपर्वगाः ॥२०॥एतासामधिपा एते राशयो ग्रहरुपिणः ।मेषो वृषो मिथुनश्च ईश्वरोः परिकीर्तिताः ॥२१॥एतद्गेहस्थितं वर्णमेते रक्षन्त्यनित्यशः ।ककारस्य नकारस्य ऋकारस्य उकारपः ॥२२॥अकारस्य पकारस्य मकारस्य वकारपः ।हकारस्यधिपा एते ऋद्धिमोक्षफलप्रदाः ॥२३॥दक्षिणाधोगृहस्यापि देवता इति राशयः ।तुला च वृश्चिकश्चैव धनुश्चैव ग्रहेश्वरः ॥२४॥एतासां तारकाणाञ्च पतयो गदिता मया ।भरण्यार्द्रघाचित्राज्येष्ठाश्रवनवल्लभाः ॥२५॥तथोत्तरभाद्रपदा वल्लभाः राशयो मताः ।अथ गेहस्थितं वर्णं श्रृणु नाथ भयापह ॥२६॥यकारस्य दकारस्य टकारस्य नकारपः ।धकारस्य वकारस्य चकारस्य यकारपः ॥२७॥क्षकारपणका एते राशयः परिकीर्तिताः ।धनवृत्तिप्रदा नित्या नित्यस्थाननिवासिनः ॥२८॥वामाधोमन्दिरस्यापि वल्लभा इति राशयः ।मकराधस्तु कोष्ठेषु मीनो राशिफलस्थिताः ॥२९॥एतानि भानि रक्षन्ति शूलपाशसिधारकाः ।पुनर्वसुः कृत्तिका च तथाभवंपूर्वफल्गुनी ॥३०॥स्वाती मूला धनिष्ठा च रेवती वामगेहगाः ।एतासमाधिपा एते जलस्था ग्रहदेवताः ॥३१॥एतान् वर्णान् प्ररक्षन्ति गृहस्था नव राशयः ।धकारस्य जकारस्य टकारस्य तकारपः ॥३२॥नकारस्य भकारस्य लकारस्य तकारपः ।कलहादिमहादोषकालदर्शनकारकाः ॥३३॥राशयो लोकहा नाथ तन्मन्त्रं परिवर्जयेत् ।यद्येकदेवतागेहं विभिन्नञ्च सुशोभनम् ॥३४॥चतुः स्थानं युगस्थानं सर्वत्रापि निषेधकम् ।एकगेहस्थितं मन्त्रं बहुसौख्यप्रदायकम् ॥३५॥नाम्न आद्यक्षरं नीत्वा राशिनक्षत्रविस्मृतौ ।सभाव साधकश्रेष्ठः कलहे कलहं भवेत् ॥३६॥रिपुश्चेन्मूलनाशः स्यात् कलहोऽपि सुरेश्वर ।नेत्रयुग्मे स्वरं पाति सिंहो हि कन्यकां तथा ॥३७॥कर्णयुग्मं तुला पाति संयुगं वृश्चिको धनुः ।चयुगं मकरः पाति कुम्भो मीनश्च पाति हि ॥३८॥ओष्ठाञ्च पाति च तथा अधरं मेष एव च ।दन्तयुग्मं वृषः पाति मिथुनः शेषगोऽक्षरः ॥३९॥यस्य ये ये राशयः स्युस्तस्य तत्तच्छुभं स्मृतम् ।एकराशिः शुभं नित्यं ददाति च मनोरथम् ॥४०॥अन्यत्र दुखदं प्रोक्तं साधकः सिद्धिभाग् भवेत् ।भिन्नराशौ वर्जनीयं कलहं कालदर्शनम् ॥४१॥ N/A References : N/A Last Updated : April 08, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP