संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुर्थः पटलः| उल्काचक्रम् चतुर्थः पटलः ब्रह्मचक्रम् श्रीचक्रम् उल्काचक्रम् रामचक्रम् चतुष्चक्रम् सूक्ष्मचक्रम् चतुर्थः पटलः - उल्काचक्रम् मन्त्रदोषदिनिर्णयः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल उल्काचक्रम् Translation - भाषांतर अथान्यत् सम्प्रवक्ष्यामि सावधानावधारय ॥१११॥उल्काचक्रं सर्वसारं मन्त्रदोषादिनिर्णयम् ।मत्स्याकारमूर्ध्वमुखं सर्वन्त्रादि विग्रहम् ॥११२॥स्कन्धदेशावधिर्नाथ पुच्छापर्यन्तमेव च ।एकाक्षरीदिमन्त्रदिद्वादशान्ताक्षरात्मकम् ॥११३॥विलिखेत् पृष्ठदेशे तु शुभाशुभविशुद्धये ।त्रयोदशाक्षरान् वाथ एकविंशाक्षरान्तकम् ॥११४॥नेतव्यं साधकैर्मन्त्रं पृष्ठस्थमुदरस्थकम् ।तथा श्रीशुभदं प्रोक्त कण्ठदिपुच्छाकान्तकम् ॥११५॥द्वाविंशादि चतुस्त्रिशदक्षरान्तमनुं शुभम् ।पुच्छस्थं नापि गृहणीयात् मुखस्थञ्च तथा ध्रुवम् ॥११६॥शीर्षस्थाञ्चापि गृहणीयात् तदक्षरं श्रृणु प्रभो ।पञ्चत्रिंशादि द्विचतुर्द्वविशंशदन्मेव च ॥११७॥मस्तकस्थं शुभं प्रोक्तं मुखवर्णान् श्रृणु प्रभो ।त्रिचरत्वारिंशशदर्णादि एकपञ्चाशदन्तकम् ॥११८॥मुखस्थमन्तमशुभं न गृहणीयात् कदाचन ।पृष्ठस्थं श्रृणु यत्नेन निरर्थकमहाश्रमम् ॥११९॥श्रमगात्रस्य पीडाभिर्देवता कुप्यतेऽनिशम् ।द्विपञ्चाशदक्षरादि एकषष्टितमान्तकान् ॥१२०॥वर्णान् पुच्छास्थितानेतान् नेत्रस्थान् श्रृणु वल्लभ ।द्विषष्टितमवर्णादि चतुःषष्ट्यक्षरान्तकान् ॥१२१॥अङ्कं लोचनसंस्थं च ततोऽन्यं रसनास्थितम् ।तत्सर्वं शुभदं प्रोक्तमेतदन्यतमं स्मृतम् ॥१२२॥वैष्णवांनाञ्च शैवानां शाक्ताना मन्त्रजापने ।ततोऽन्यदेवभक्तानां भुक्तिमुक्तिप्रदं नृणाम् ॥१२३॥ N/A References : N/A Last Updated : April 08, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP