प्रायश्चितं ततः कृत्वा पुनर्दीक्षां समाचरेत्।
सावित्रीमन्त्रजापञ्च लक्ष्यं जाप्यं जगत्पतेः ॥९६॥

विष्णोर्वा प्रणवं लक्ष्यं प्रायश्चित्तमिति स्मृतम् ।
अशक्तश्चेन्महादेव चायुतं प्रजपेन्मनुम् ॥९७॥

दशसाहस्त्रजाप्येन सर्वकल्मषनाशिनी ।
गायत्रीच्छन्दसां माता पापराशितुलानला ॥९८॥

मम मूर्तिप्रकाशा च पशुभावविवर्जिता ।
फलोद्भवप्रकरणे ब्रह्मणापद्यते निशि ॥९९॥

यदि भाग्यवशाद् देव सिद्धमन्त्रं गुरुं तथा ।
तदैव तान्तु दीक्षेत अष्टैश्वर्याय केवलम् ॥१००॥

निर्बीजञ्च पितुर्मन्त्रं शैवे शाक्ते न दुष्यति ।
ज्येष्ठपुत्राय दातव्यं कुलीनैः कुलपण्डितैः ॥१०१॥

कुलयुक्ताय दान्ताय महामन्त्रं कुलेश्वरम् ।
तदैव मुक्तिमाप्नोति सत्यं सत्यं न संशयः ॥१०२॥

कनिष्ठञ्च रिपुं चापि सोदरं वैरिपक्षगम् ।
मातामहञ्च पितरं यतिञ्च वनवासिनम् ॥१०३॥

अनाश्रम कुसंसर्गं स्वकुलत्यागिनं तथा ।
वर्जयित्वा च शिष्यांस्तान् दीक्षाविधिमुपाचरेत् ॥१०४॥

अन्यथा तद्विरोधेन कामनाभोगनाशनम् ।
सिद्धमन्त्रञ्च गृहणीयाद् दुष्कुलदपि भैरव ॥१०५॥

सद्गुरो र्भावनेच्छन्नरुपे रुपे धरे शुभे ।
तत्र दीक्षां समाकुर्वन् अष्टैश्वर्यजयं लभेत् ॥१०६॥

स्वप्ने तु नियमो नास्ति दीक्षासु गुरुशिष्ययोः ।
स्वप्नलब्धे स्त्रिया दत्ते संस्कारेणैव शुद्धयति ॥१०७॥

साध्वी चैव सदाचार गुरुभक्ता जितेन्दिया ।
सर्वमन्त्रार्थ तत्त्वज्ञा सुशीला पूजने रता ॥१०८॥

सर्वलक्शणसम्पन्ना जापिका पद्मलोचना ।
रत्नालङ्कसंयुक्ता वर्णाभूवनभूषिता ॥१०९॥

शान्ता कुलीना कुलजा चन्द्रास्या सर्ववृद्धिगा ।
अनन्तगुणसम्पन्ना रुद्रत्वदायिनी प्रिया ॥११०॥

गुरुरुपा मुक्तिदात्री शिवज्ञाननिरुपिणी ।
गुरुयोग्यता भवेत् सा हि विधवा परिवर्जिता ॥१११॥

स्त्रिया दीक्षा प्रोक्ता मन्त्रश्चाष्टगुणा स्मृता ।
पुत्रिणी विधवा ग्राह्या केवला ऋणकारिणी ॥११२॥

सिद्धमन्त्रो यदि भवेद् गृहणीयाद् विधवामुखात् ।
केवलं सुफलं तत्र मातुरष्टागुणं ध्रुवम्  ॥११३॥

सधवा स्वप्रकृत्या च ददाति यदि तन्मनुम् ।
ततोऽष्टगुणमाप्नोति यदि सा पुत्रिणी सती ॥११४॥

यदि माता स्वकं मन्त्रं ददाति स्वसुताय च ।
तदाष्टसिद्धिमाप्नोति भक्तिमार्गे न संशयः ॥११५॥

तदैव दुर्लभं देव यदि मात्रा प्रदीयते ।
आदौ भक्तिं ततो मुक्तिं सम्प्राप्य कालरुपधृक्‍ ॥११६॥

सहस्त्रकोटिविद्यार्थं जानाति नात्र संशयः ।
स्वप्ने तु माता यदि वा ददाति शुद्धमन्त्रकम् ॥११७॥

पुनर्दीक्षां सोऽपि कृत्वा दानवत्त्वमवाप्नुयात् ।
यदि भाग्यवशेनैव जननी दानवर्तिनी ॥११८॥

तदा सिद्धिमवाप्नोति तत्र मन्त्रं विचारयेत् ।
स्वीयमन्त्रोपदेशेन न कुर्याद् गुरुचिन्तनम् ॥११९॥

तथा श्रीललिता काली महाविद्या महामनोः ।
सर्वसिद्धियुतो भूत्त्वा वत्सरात् तां प्रपश्यति ॥१२०॥

कालीकल्पलता देवी महाविद्यादिसाधने ।
गुरुचिन्ता न कर्तव्या ये जानन्ति गुरोर्वच ॥१२१॥

यदि मन्त्रं विचार्याशु गृहणाति साधकोत्तमः ।
अनन्तकोतिपुण्यस्य द्विगुणं भवति ध्रुवम् ॥१२२॥

विचार्य चक्रसारञ्च मन्त्रं गृहणाति यो नरः ।
वैकुठनगरे वासस्तेषां जन्मशतैरपि ॥१२३॥

इति श्रुत्वा महादेवो महादेव्याः सरस्वतीम् ।
उवाच पुनरानन्दपुलकोल्लासविग्रहः ॥१२४॥

ज्ञातुं चक्रं षोडशञ्च चक्रहस्तवरप्रदम् ।
अत्यद्भुतफलोपेत् धर्मार्थकाममोक्षदम् ॥१२५॥

श्री भैरव उवाच
कथयस्व महादेवि कुलसद्भावप्राप्तये ।
यदि मे सुकृपादृष्टिः वर्तते स्नेहसागरे ॥१२६॥

त्वत्प्रसादाद् भैरवोऽहं कालोऽहं जगदीश्वरः ।
भुक्तिमुक्तिप्रदाता च योगयोग्यो दिगम्बरः ॥१२७॥

N/A

References : N/A
Last Updated : April 07, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP