संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वितीयः पटलः| दीक्षाविधिः द्वितीयः पटलः कुलाचारविधिः गुरूस्तोत्रम् गुरूलक्षणम् शिष्यलक्षणम् मन्त्रदीक्षाविचारः दीक्षाविधिः द्वितीयः पटलः - दीक्षाविधिः कुलाचारविधिः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल दीक्षाविधिः Translation - भाषांतर इदानीं सर्वविद्यांना दीक्षद्यं चक्रमण्डलम् ।अकाल कुलहीनञ्चाकडमञ्च कुलाकुलम् ॥१२८॥ताराचक्रं राशिचक्रं कूर्मचक्रं तथापरम ।शिवचक्र विष्णुचक्रं ब्रह्मचक्रं विलक्षणम् ॥१२९॥देवचक्रं ऋणिधनि उल्काचक्रं ततः परम् ।वामाचक्रं चतुश्चक्रं सूक्ष्मचक्रं ततो वदेत् ॥१३०॥तथा कथहचक्रञ्च कथितं षोडशं प्रभो ।एतदुत्तीर्णमन्त्रञ्च यें गृहणान्ति नरोत्तमाः ॥१३१॥तेषामसाध्यं जगति न किमपि वर्तते ध्रुवम् ।किमन्यत् कथयामीह देवतादर्शनं लभेत् ॥१३२॥सर्वत्रगामी स भवेत् चक्रराजप्रसादतः ।सर्वचक्रविचारञ्च न जानाति द्विजोत्तमः ॥१३३॥यज्जानाति तद्विचार्यं देवताप्रीतिकारकम् ।ताराशुद्धिं वैष्णवानां कोष्ठशुद्धिं शिवस्य च ॥१३४॥राशिशुद्धिं त्रैपुरस्य गोपालेऽकडमः स्मृतः ।अकडमो वामने च गणेशे हरचक्रतः ॥१३५॥कोष्ठचक्रं वराहस्य महालक्ष्म्याः कुलाकुलम् ।नामदिचक्रे सर्वेषां भूतचक्रे तथैव च ॥१३६॥त्रैपुरं तारचक्रे च शुद्धं मन्त्रं भजेद् बुधः ।वैष्णवं राशिसंशुद्धं शैवञ्चाकडमं स्मृतम् ॥१३७॥कालिकायाश्च तारायाः हरचक्रं शुभं भवेत् ।चण्डिकाया भवेत् कोष्ठे गोपाले ऋक्षचक्रकम् ॥१३८॥हरचक्रे सर्वमन्त्रान् ऋणाधिक्येन चाश्रयेत् ।ऋणाधिक्ये शुभं विद्याद् धनाधिक्ये च नो विधिः ॥१३९॥दोषान् संशोध्य गृहणीयान्मध्यदेशे तु साधकः ।पितृमातृकृतं नाम त्यक्त्वा शर्मादिदेवकान् ॥१४०॥श्रीवर्णञ्च ततो विद्याचक्रेषु योजयेत् क्रमात् ।क्रमेण श्रृणु तत्सर्वं शुभाशुभफलप्रदम् ॥१४१॥जापकानां भावुकानां शुद्ध सिद्धयति तत्क्षणात् ।मन्त्रमात्रं प्रसिद्ध्येत भक्तानामिति निश्चयः ॥१४२॥कुलीनकुलजातानां ध्यानमार्गर्थगामिनाम् ।महाविद्या महाज्ञान संशुद्धमपि सिध्यति ॥१४३॥सिद्धमन्त्रप्रकरणे यदुक्तञ्च महेश्वर ।अष्टसिद्धिकरे तस्य सायुज्यपदमाप्नुयात् ॥१४४॥चक्रं षोडह्ससारञ्च सर्वेषां मन्त्रसिद्धये ॥१४५॥विचार्य सर्वमन्त्रञ्च यन्मया गदितं हितम् ।आदौ बालाभैरवीणामकडमान्मतं मया ॥१४६॥कुमारीललितादेव्याः कुरुकुल्लादिसाधने ।श्रीचक्रं फलदं प्रोक्तं सर्वचक्रफलप्रदम ॥१४७॥योगिन्यदिसाधने च ताराचक्र महत्फलम् ।उन्मत्तभैरवीविद्याद्यादिसाधननिर्मले ॥१४८॥राशिचक्रं कोटिफलं नानारत्नप्रदं शुभम् ।प्रत्यङिरासाधने च उल्काविद्यादिसाधने ॥१४९॥शिवचक्रं महापुण्य़ं सर्वचक्रफलप्रदम् ।कालिकाचर्चिकामन्त्र विमलाद्यादिसाधने ॥१५०॥सम्पत्प्रदाभैरवीणां मन्त्रग्रहणकर्मणि ।विष्णुचक्रे कोटिशतं पुण्य़ं प्राप्नोति मानवः ॥१५१॥छिन्नादिश्रीविद्यायाः कृत्यादेव्याश्च साधने ।नक्षत्रविद्याकामाख्या ब्रह्माण्यादि सुसाधने ॥१५२॥ब्रह्माचक्रं महापुण्यं सर्वाविद्याफलं लभेत् ।कोटिजाप्येन यत्पुण्यं ग्रहणात् तत्फलं लभेत् ॥१५३॥वज्रज्वालामहाविद्यासाधने मन्त्रजापने ।गुह्यकालीसाधने च कुब्जिकमन्त्रसाधने ॥१५४॥देवचक्रं शुभं प्रोक्तं वाक्यसिद्धिप्रदायकम् ।कामेश्वरी अट्टहासामन्त्रसाधनकर्मणि ॥१५५॥राकिणीमन्दिरादेवी मन्दिरामन्त्रसाधने ।ऋणिधनिमहाचक्र विचार्य सर्वसिद्धदम् ॥१५६॥श्रीविद्याभुवनेशानीभैरवीसाधने तथा ।पृथ्वीकुलावतीवीणासाधने वामनीमनोः ॥१५७॥उल्काचक्रं महापुण्यं राजत्वफलदं शुभम् ।शिवादिनायिकाकामन्त्रे बालाचक्रे सुखप्रदम् ॥१५८॥फेत्कारीमन्त्रजाप्ये च उड्डीयानेश्वरी मनोः ।चतुश्चक्रं शतफलं महामन्त्रफलप्रदम् ॥१५९॥द्राविणीदीर्घजङ्कादि ज्वालामुख्यादिसाधने ।नारसिंहीसाधने च सूक्ष्मचक्रं फलोद्भवम् ॥१६०॥हरिणी मोहिनी कात्ययनीसाधनकर्मणि ।वैष्णव च तथा शैवे देवी मन्त्रे च भैरव ॥१६१॥अकथहं महाचक्रं विचार्य यत्नपूर्वकम् ।यो गृहणाति महामन्त्रं स शिवो नात्र संशयः ॥१६२॥॥ इति श्रीरुद्रयामले उत्तरतन्त्र महायन्त्रोद्दीपने सर्वचक्रानुष्ठाने महागुरुप्रकरणे भावनिर्णये भैरवीभैरवसंवादे द्वितीयः पटलः ॥२॥ N/A References : N/A Last Updated : April 07, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP