अष्टप्रकारकुष्ठेन गलत्कुष्ठिनमेव च ।
श्वित्रिणं जनहिंसार्थं सदार्थग्राहिणं तथा ॥५९॥

स्वर्नविक्रयिणं चौरं बुद्धिहीनं सुखर्वकम् ।
श्यावदन्तं कुलाचाररहितं शान्तिवर्जितम् ॥६०॥

सकलङ्क नेत्ररोगैः पीडितं परदारगम् ।
असंस्कार प्रवक्तारं स्त्रीजितं चाधिकाङुकम् ॥६१॥

कपटात्मानकं हिंसाविशिष्टं बहुजल्पकम् ।
बहवाशिनं हि कृपणं मिथ्यअवादिनमेव च ॥६२॥

अशान्त भावहीनं च पञ्चाचारविवर्जितम् ।
दोषजालैः पूरिताङुं पूजयेन्न गुरुं बिना ॥६३॥

गुरौ मानुषबुद्धिं तु मन्त्रेषु लिपिभावनम् ।
प्रतिमासु शिलारुपं विभाव्य नरकं व्रजेत् ॥६४॥

जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः ।
गुरुर्विशेषतः पूज्यो धर्माधर्मप्रदर्शकः ॥६५॥

गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥६६॥

गुरोर्हितं प्रकर्तव्यं वाङ्‌मनःकायकर्मभिः ।
अहिताचरणाद् देव विष्ठायां जायते कृमिः ॥६७॥

मन्त्रत्यागाद् भवेन्मृत्युर्गरुत्यागाद् दरिद्रता ।
गुरुमन्त्रपरित्यागाद् रौरवं नरकं व्रजेत् ॥६८॥

गुरौ सन्निहिते यस्तु पूजयेदन्यदेवताम् ।
प्रयाति नरकं घोरं सा पूजा विफला भवेत् ॥६९॥

गुरुवद् गुरुपुत्रेषु गुरुवत् तत्सुतादिषु ।
आविद्यो वा सविद्यो वा गुरुरेव तु दैवतम् ॥७०॥

अमार्गस्थोऽपि मार्गस्थो गुरुरेव तु दैवतम् ।
उत्पादकब्रह्मदत्रोर्गरीयान् ब्रह्मदो गुरुः ॥७१॥

तस्मान्मन्येत सततं पितरप्यधिकं गुरुम् ।
गुरुदेवाधीनश्चास्मि शास्त्रे मन्त्रे मुलाकुले ॥७२॥

नाधिकारी भवेन्नाथ श्रीगुरोः पदभावकः ।
गुरुर्माता पिता स्वामी बान्धवः सुह्र्त् शिवः ॥७३॥

इत्याधाय मनो नित्यं भजेत् सर्वात्मना गुरुम् ।
एकमेव परं ब्रह्म स्थूलशुक्लमणिप्रभम् ॥७४॥

सर्वकर्मनियन्तारं गुरुमात्मानमाश्रयेत् ।
गुरुश्च सर्वभावानां भावमेकं न संशयः ॥७५॥

निःसन्दिग्धं गुरोर्वाक्य संशयात्मा विनश्यति ।
निःसंशयी गुरुपदे सर्वत्यागी पदं व्रजेत् ॥७६॥

खेचरत्वमवाप्नोति मासादेव न संशयः ।
सद्गुरुमाश्रितं शिष्यं वर्षमेकं प्रतीक्शयेत् ॥७७॥

सगुणं निर्गुणं वापि ज्ञात्वा मन्त्रं प्रदापयेत् ।
शिष्यस्य लक्षणं सर्व शुभाशुभविवेचनम् ॥७८॥

अन्यथा विप्रदोषेण सिद्धिपूजाफलं दहेत् ।
कामुकं कुटिलं लोकनिन्दितं सत्यवर्जितम् ॥७९॥

अविनीतसमर्थं प्रज्ञाहीनं रिपुप्रियम् ।
सदापापक्रियायुक्तं विद्याशून्यं जडात्मकम् ॥८०॥

कलिदोषसमूहाङं वेदक्रियाविवर्जितम् ।
आश्रमाचारहीनं चाशुद्धान्तःकरणोद्यतम् ॥८१॥

सदा श्रद्धाविरहितमधैर्य क्रोधिनं भ्रमम् ।
असच्चरित्रं विगुणं परदारातुरं सदा ॥८२॥

असद्बुद्धिसमूहोत्थमभक्तं द्वैतचेतसम् ।
नानानिन्दावृताङ च तं शिष्यं वर्जयेद् गुरुः ॥८३॥

यदि न त्यज्यते वीर धनादिदानहेतुना ।
नारकी शिष्यवत् पापी तद्विशिष्टमवाप्नुयात् ॥८४॥

क्षणादसिद्धः स भवेत् शिष्यासाधितपातकैः ।
अकस्मान्नारकं प्राप्य कार्यनाशाय केवलम् ॥८५॥

विचार्य यत्नात् विधिवत् शिष्यंसंग्रहमाचरेत् ।
अन्यथा शिष्यदोषेण नरकस्थो भवेद् गुरुः ॥८६॥

न पत्नीं दीक्षयेद् भर्ता न पिता दीक्षयेतु सुताम् ।
न पुत्रं च तथा भ्राता भ्रातरं नैव दीक्षतेत् ॥८७॥

सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षतेत् ।
शक्तित्त्वेन भैरवस्तु न च सा पुत्रिका भवेत् ।
मन्त्राणां देवता ज्ञेया देवता गुरुरुपिणी ॥८८॥

तेषां भेदो न कर्तव्यो यदीच्छेच्छुभमात्मनः ।
एकग्रामे स्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद् गुरुम् ॥८९॥

क्रोशमात्रस्थितो भक्त्या गुरुं प्रतिदिनं नमेत् ।
अर्धयोजनतः शिष्यः प्रणमेत् पञ्चपर्वसु ॥९०॥

एकयोजनमारभ्य योजनद्वादशावधिः ।
दूरदेशास्थितः शिष्यो भक्त्या तत्सन्निधिं गतः ॥९१॥

तन्त्रयोजनसंख्योमासेन प्रणमेद् गुरुम् ।
वर्षैकेण भवेद् योग्यो विप्रो हि गुरुभावतः ॥९२॥

वर्षद्वयेन राजन्यो वैश्यस्तु वत्सरैस्त्रिभिः ।
चतुभिर्वत्सरैः शूद्रः कथिता शिष्ययोग्यता ॥९३॥

यदि भाग्यवशेनैव सिद्धमन्त्रं लभेत् प्रभो ।
महाविद्या त्रिशक्त्याश्च गृहणीयात् तत्कुलाद्ध्रुवम् ॥९४॥

गुरोर्विचारं सर्वत्र तातमातामहं विना ।
प्रमादाच्च तथाज्ञानान्  एभ्यो मन्त्रं समाचरन् ॥९५॥

N/A

References : N/A
Last Updated : April 07, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP