संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वितीयः पटलः| कुलाचारविधिः द्वितीयः पटलः कुलाचारविधिः गुरूस्तोत्रम् गुरूलक्षणम् शिष्यलक्षणम् मन्त्रदीक्षाविचारः दीक्षाविधिः द्वितीयः पटलः - कुलाचारविधिः कुलाचारविधिः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कुलाचारविधिः Translation - भाषांतर भैरवी उवाचअथातः सम्प्रवक्ष्यामि सर्वदर्शनविद्यया ।सर्वज्ञ परमानन्दो दयाबीज भयङ्कर ॥१॥श्रृणुष्वैकमनाः शम्भो कुलाचारविधिं श्रृणु ।पशूनां व्रतभङादौ विधिं प्रथमतः प्रभो ॥२॥व्रतभङे नित्यभङे नित्यपूजादिकर्मणि ।सहस्त्रं प्रजमेन्मन्त्री व्रतदोषोपशान्तये ॥३॥नित्यश्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम् ।देवतादर्शनं पीठदर्शनं तीर्थदर्शनम् ॥४॥गुरोराज्ञापालानञ्च देवतानित्यपूजनम् ।पशुभावस्थितो मर्त्यो महासिद्धिं लभेद् ध्रुवम् ॥५॥पशूनां प्रथमो भावो वीरस्य वीरभावनम् ।दिव्यानां दिव्यभावस्तु तेषां भावास्त्रयः स्मृताः ॥६॥स्वकुलचारहीनो यः साधकः स्थिरमानसः ।निष्फालार्थी भवेत् क्षिप्रं कुलाचारप्रभावतः ॥७॥केनोपायेन भगवतीचरणाम्भोजदर्शनम् ।प्राप्नोति पद्मवदने पशुभावस्थितो नरः ॥८॥तत्प्रकारं सुविस्तार्य कथ्यतां कुलकामिनि ।यदि भक्तिर्दृढा मेऽस्ति यदि स्नेहोऽस्ति मां प्रति ॥९॥महाभैरवी उवाचप्रभाते च समुत्थाय अरुणोदयकालतः ।निशाष्टदण्डपर्यन्तं पशूनां भाव ईरितः ॥१०॥प्रातः शय्यादिकं कृत्वा पुनः शय्यास्थितः पशुः ।गुरुं सञ्चिन्तयेच्छीर्षाम्भोजे साहस्त्रके दले ॥११॥तरुणादित्यसङ्काशं तेजोबिम्बं महागुरुम् ।अनन्तान्तमहिमासागरं शशिशेखरम् ॥१२॥महाशुभ्रं भासुराङं द्विनेत्र द्विभुजं विभुम् ।आत्मोपलब्धिर्विषमं तेजसा शुक्लवाससम् ॥१३॥आज्ञाचक्रोद्र्ध्वनिकरं कारणं जगतां मुखम् ।धर्मार्थकाममोक्षाङु वराभयकरं विभिम् ॥१४॥प्रफुल्लकमलारुढं सर्वज्ञं जगदीश्वरम ।अन्तःप्रकाशचपलं वनमालाविभूषितम् ॥१५॥रत्नालङकारभूषाढ्यं देवदेवं सदा भजेत् ।अन्तर्यागक्रमेणैव पद्मपुष्पैः समर्चयेत् ॥१६॥एकान्तभक्त्या प्रणमेदायुरारोग्यवृद्धये ।अथ मध्ये जपेन्मन्त्रमाद्यन्तप्रणवेन च ॥१७॥मध्ये वाग्भवमायोज्य गुरुनाम ततः परम् ।आनन्दनाथशब्दान्ते गुरुं डेऽन्तं समुद्धरेत् ॥१८॥नमः शब्दं ततो ब्रूयात् प्रणवं सर्वसिद्धिदम् ।महागुरोर्मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् ॥१९॥वाक्सिद्धिर्वदनाम्भोजे गुरुमन्त्रप्रभावतः ।शतमष्टोत्तरं नित्य सहस्त्रं वा तथाष्टकम् ॥२०॥प्रजप्यार्पणणमाकृत्य प्राणायामत्रयञ्चरेत् ।वाग्भवेन ततः कुर्यात् प्राणायामविधं मुदा ॥२१॥अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥२२॥अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥२३॥देवतायाः दर्शनस्य कारणं करुणानिधिम् ।सर्वसिद्धिप्रदातारं श्रीगुरुं प्रणमाम्यहम् ॥२४॥वराभयकरं नित्यं श्वेतपद्मनिवासिनम् ।महाभयनिहन्तारं गुरुदेव नमाम्यहम् ॥२५॥महाज्ञानाच्छापिताङु नराकारं वरप्रदम् ।चतुर्वर्गप्रदातारं स्थूलसूक्ष्मद्वयान्वितम् ॥२६॥सदानन्दमयं देवं नित्यानन्दं निरञ्जनम् ।शुद्धसत्त्वमयं सर्वं नित्यकालं कुलेश्वरम् ॥२७॥ब्रह्मारन्ध्रे महापद्मे तेजोबिम्ब निराकुले ।योगिभिर्ध्यानगम्ये च चक्रे शुक्ले विराजिते ॥२८॥सहस्त्रदलसङ्काशे कर्णिकामध्यमध्यके ।महाशुक्लभासुरार्ककोटिकोटिमहौजसम् ॥२९॥सर्वपीठस्थममलं परं हंसं परात्परम् ।वेदोध्दाकरं नित्यं काम्यकर्मफलप्रदम् ॥३०॥सदा मनःशक्तिमयालयस्थानं पदद्वयम् ।शरज्ज्योत्स्नाजलामालाभिरिन्दुकोटिवन्मुखम् ॥३१॥वाञ्छतिरिक्तदातारं सर्वसिद्धीश्वरं गुरुम् ।भजामि तन्मयो भूत्त्वा तं हंसमण्डलोपरि ॥३२॥ N/A References : N/A Last Updated : February 09, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP