संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वितीयः पटलः| गुरूस्तोत्रम् द्वितीयः पटलः कुलाचारविधिः गुरूस्तोत्रम् गुरूलक्षणम् शिष्यलक्षणम् मन्त्रदीक्षाविचारः दीक्षाविधिः द्वितीयः पटलः - गुरूस्तोत्रम् कुलाचारविधिः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल गुरूस्तोत्रम् Translation - भाषांतर आत्मानं च निराकारं साकारं ब्रह्मरुपिणम् ।महाविद्यामहामन्त्रदातारं परमेश्वरम् ॥३३॥सर्वासिद्धिप्रदातारं गुरुदेवं नमाम्यहम् ।कायेन मनसा वाचा ये नमन्ति निरन्तरम् ॥३४॥अवश्यं श्रीगुरोः पादाम्भोरुहे ते वसन्ति हि ।प्रभाते कोटिपुण्यञ्च प्राप्नोति साधकोत्तमः ॥३५॥मध्याहने दशलक्षञ्च सायाहने कोटिपुण्यदम् ।प्रातःकाले पठेत् स्तोत्रं ध्यानं वा सुसमाहितः ॥३६तदा सिद्धिमवाप्नोति नात्र कार्या विचारणा ॥३७॥शिरसि सितपङ्कजे तरुणकोटिचन्द्रप्रभं वराभयकराम्बुजं सकलदेवतारुपिणम् ।भजामि वरदं गुरुं किरणचारुशोभाकुलं प्रकाशितपदद्वयाम्बुजमलक्तकोटिप्रभम् ॥३८॥जगद्भयानिवारणं भुवनभोगमोक्षप्रदम् गुरोः पादयुगाम्बुज जयति यत्र योगे जयम् ।भजामि परमं गुरुं नयनपद्ममध्यस्थितं भवाब्धिभयनाशनं शमनरोगकालक्षयम् ॥३९॥प्रकाशितसुपङ्कजे मृदुलषोडशाख्ये प्रभु परापरगुरुं भजे सकलबाह्यभोगप्रदम् ।विशालनयनाम्बुजद्वयतडित्प्रभामण्डलं कडारमणिपाटलेन्दुबिन्दुकम् ॥४०॥चलाचलकलेवरं प्रचपलदले द्वादशे महौजसमुमापतेर्विगतदक्षभागे ह्रदि ।प्रभाकरशतोज्ज्वलं सुविमलेन्दुकोट्याननं भजामि परमेष्ठिनं गुरुमतीव वारोज्ज्वलम् ॥४१॥गुर्वाद्यञ्च शुभं मदननिदहनं हेममञ्जरीसारं नानाशब्दाद् भुताहलादितपरिजनाच्चारुच्चारुचक्रत्रिभङम् ।नित्यं ध्यायेत् प्रभाते अरुणशतघटाशोभनं योगगम्यं नाभौ पद्मेऽतिकान्ते दशदलमणिभे भाव्यते योगिभिर्यत् ॥४२॥या माता मयदानवादिस्वभुजा निर्वाणसीमापुरे स्वाधिष्ठाननिकेतने रसदले वैकुण्ठमूले मया ।जन्मोद्धारविकारसुप्रहरिणी वेदप्रभा भाव्यते कन्दर्पीर्पितशान्तियोनिजननी विष्णुप्रिया शाङकरी ॥४३॥या भाषाननकुण्डली कुलपथाच्छामाभशोभाकरी मूले पद्मचतुर्दले कुलवर्ता निःश्वासदेशाश्रिता ।साक्षात्काङ्क्षितकल्पवृक्ष लतिका सूद्भाषयन्ती प्रिया नित्या योगिभयापहा विषहरा गुर्वम्बिका भाव्यते ॥४४॥ऊद्र्ध्वाम्भोरुहनिःसृतामृतघटी मोदोद्वलाप्लाविता गुर्वास्या परिपातु सूक्ष्मपथगा तेजोमयी भास्वती ।सूक्ष्मा साधागोचरामृतमयी मूलदिशीर्षाम्बुजे पूर्णा चेतसि भाव्यते भुवि कदा माता सदोद्धर्वामगा ॥४५॥स्थितिपालनयोगेन ध्यानेन पूजनेन वा ।यः पठेत् प्रत्यहं व्याप्य स देवो न तु मानुषः ॥४६॥कल्याणं धनधान्यं च कीर्तिमायुर्यशःश्रियम् ।सायाहने च प्रभाते च पठेद्यदि सुबुद्धिमान् ॥४७॥स भवेत् साधकश्रेष्ठः कल्पद्रुमकलेवरः ।स्तवस्यास्यः प्रसादेन वागीशत्वमवाप्नुयात् ॥४८॥पशुभावस्थिता ये तु तेपि सिद्धाः न संशयः ।आदौ साधकदेवश्च सदाचारमतिः सदा ॥४९॥पशुभावस्ततो वीरः सायाहेन दिव्यभाववान् ।एतेषां भाववर्गाणां गुरुर्वेदान्तपारगः ॥५०॥शान्तो दान्तः कुलीश्च विनीतः शुद्धवेषवान् ।शुद्धाचारः सुप्रतिष्ठः सुचिर्दक्षः सुबुद्धिमान् ॥५१॥आश्रमी ध्याननिष्ठश्च मन्त्रतन्तविशारदः ।निग्रहानुग्रहे शक्तो वशी मन्त्रार्थजापकः ॥५२॥ N/A References : N/A Last Updated : April 07, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP