संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|वेदान्तशास्त्रमकरन्दः|चतुर्थपरिच्छेदः| परिच्छेदः १० चतुर्थपरिच्छेदः परिच्छेदः १ परिच्छेदः २ परिच्छेदः ३ परिच्छेदः ४ परिच्छेदः ५ परिच्छेदः ६ परिच्छेदः ७ परिच्छेदः ८ परिच्छेदः ९ परिच्छेदः १० चतुर्थपरिच्छेदः - परिच्छेदः १० श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः । Tags : vedvinayak damodar savarkarकवितावेदशास्त्रसंस्कृत परिच्छेदः १० Translation - भाषांतर अम्बासमस्तजननी परदेवतासा ।श्रीशारदामतिगतिप्रभव प्रभावा ॥धन्यार्चिताङ्घ्रिकमला विमला जगत्याम् ।वागीश्वरीविहित शास्त्रलताधिरूढा ॥१॥अद्वैतशङ्करजगद्गुरु शिष्यशिक्षाम् ।पित्र्युद्भवप्रवर पुत्र निबन्धचेष्टाम् ॥आत्मांशकत्व कथनार्थ तयामदीयाम् ।जानन्तुतेऽत्र सुधियो न परोत्रहेतुः ॥२॥वेदोह्यनित्य इतिनो न चपौरुषेयः ।मानं प्रसाध्य जगतां मन इन्द्रियंनो ॥पूर्वं ततोऽत्र परमाणुमतं परास्तम् ।वेदागमादिरहिता विहितं च तेषाम् ॥३॥वेदान्तशास्त्रमकरन्द विरोधिनोये ।चार्वाककापिलजिनादिनिरीश्र्वराद्याः ॥साङ्ख्यप्रधान परिणाममतानियानि ।नैय्यायिक प्रभृतयश्र्व जितानितानि ॥४॥श्रुत्यामनर्थरचना न कदापियुक्ता ।शिष्टस्मृतावपिताथात्र महत्प्रसादात् ॥गद्यप्रबन्धरचना श्रुतिभाष्यकारा ।ध्वानं विसृज्यपदमप्यगतिंननीता ॥५॥शास्त्रार्थ कौशलमहत्वमहोऽत्रकीर्तिम् ।वाञ्छामिनैव हिममाप्यनधीत शास्त्रः ॥वेदान्तशास्त्रमकरन्द विधौ समर्थः ।आचार्यपादकरुणा किरणप्रभावात् ॥६॥वेदान्तशास्त्रमकरन्दगतंसुगीतम् ।नीतं समस्तनिगमागमसुप्रकाशम् ॥नेदंविवाद पर पक्षस्वपक्षकृत्यम् ।मृत्युञ्जयस्यपरितोषकरन्तथास्तु ॥७॥इति श्रीमत्परमहंसपरिव्राजकाचार्ययोगीन्द्रवर्य श्रीआत्मानन्दसरस्वतीस्वामिभिर्विरचितः "वेदान्तशास्त्र मकरन्दे" श्रुतिसिद्धान्त चतुर्थपरिच्छेदः । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP