संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|वेदान्तशास्त्रमकरन्दः|चतुर्थपरिच्छेदः| परिच्छेदः १ चतुर्थपरिच्छेदः परिच्छेदः १ परिच्छेदः २ परिच्छेदः ३ परिच्छेदः ४ परिच्छेदः ५ परिच्छेदः ६ परिच्छेदः ७ परिच्छेदः ८ परिच्छेदः ९ परिच्छेदः १० चतुर्थपरिच्छेदः - परिच्छेदः १ श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः । Tags : vedvinayak damodar savarkarकवितावेदशास्त्रसंस्कृत परिच्छेदः १ Translation - भाषांतर नन्वनेकप्राणिजीवगुणविशिष्टब्रह्मविषयकं ब्रह्मोपासनं विधीयते यथारण्याद्यनेकवृक्षविशिष्टं तत्र व्यष्टिसमष्टिभेदेन एकानेकत्वं प्रतीयते तथैव ब्रह्मणि अनेकत्वप्रतीतेः "एकमेवाद्वितीयं ब्रह्मै" त्यादिश्रुतिविरोधः स्यादिति चेन्न अत्र श्रुतिसमन्वये अखण्डसच्चिदानन्दस्वरूपत्वप्रतिपादनात्संसर्गविशिष्टाद्यनर्थासम्भवस्यैव ब्रह्मणि पर्यवसितत्वात् । ननु सत्यादिपदानामनेकलक्षणत्वात्तेषां ब्रह्मलक्षणाङ्गीकारे बहुत्वं स्यादिति चेन्न । एकब्रह्मतात्पर्यप्रतिपादकत्वेन अखण्डैकब्रह्मबोधकत्वात् ॥ तथाचोक्तमाचार्येः श्रुतिस्तात्पर्यदृष्ट्या भागत्यागलक्षणया ब्रह्म बोधयति ननु वेदांतानां कर्त्तुदेवतादिप्रतिपादकविधिसापेक्षत्वेनार्थवादत्वं कथं न स्यादिति चेन्न अपूर्वार्थप्रतिपादकत्वेन सापेक्षत्वाभावात्परम पुरुषार्थतायाः परब्रह्मप्रकरणस्थत्वाच्च । विधिरहितानामपि तेषां तात्पर्येण परिपूर्णब्रह्माखण्डैकत्वप्रतिपादितान्वितार्थे शक्तिग्रहादपि वेदानतानां विध्यपेक्षितत्वं नास्ति प्रकरणान्तरसिद्धत्वेन तत्प्रतिपादितप्रमेयानां न संभवति स्वप्रकरणस्थत्वेन प्राधान्यात् । अपूर्वप्रतिपादकत्वेन च सापेक्षत्वाभावात् केवलान्वयित्वे शक्तिग्रहदर्शनात् । तस्मान्न क्रियापरा वेदांताः । रज्जुरियं नायं सर्प इति सिद्धबोधेनापि दुःखनिवृत्तिदर्शनात् । ननु वेदान्तेभ्यो ब्रह्मसिद्धिमिच्छतां वृत्तिकाराणां भर्त्तुप्रपञ्चादीनामुपासीत ध्यायीत इत्याद्युपासनाविधीनां विषयतया वेदान्तबोधकानामुपासनाबोधकत्वेन कथं स्वार्थसिद्धिरिति चेन्न सर्वसाक्षितया नित्यचिद्रूपपरिपूर्णब्रह्मातिरिक्तवस्त्वभावान्मुख्याद्वैत एव वेदान्तमहावाक्यानां तात्पर्यात्सर्वतत्त्वज्ञानामपि तत्रैव संमतत्वाच्च । उपासनापरत्वे हि गौणत्वमनर्थत्वं च स्याद्वेदान्तानान्तच्चानिष्टं सर्वविवेकिनाम् । तथाचोक्तं सर्वतत्त्वविच्छ्रेष्ठवार्तिककारैः । "भावनाजं फलं यत्स्यात् यच्च स्यात्कर्मणः फलम् ॥ न तत्स्थायीति मन्तव्यं परस्त्रीगमनं यथा ॥" तस्मान्नोपासनाबोधकत्वमपि मुख्यत्वेन वेदान्तानाम् । ज्ञानस्य वस्त्वधीनत्वादपि तथाहि । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP