संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|वेदान्तशास्त्रमकरन्दः|चतुर्थपरिच्छेदः| परिच्छेदः ५ चतुर्थपरिच्छेदः परिच्छेदः १ परिच्छेदः २ परिच्छेदः ३ परिच्छेदः ४ परिच्छेदः ५ परिच्छेदः ६ परिच्छेदः ७ परिच्छेदः ८ परिच्छेदः ९ परिच्छेदः १० चतुर्थपरिच्छेदः - परिच्छेदः ५ श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः । Tags : vedvinayak damodar savarkarकवितावेदशास्त्रसंस्कृत परिच्छेदः ५ Translation - भाषांतर अत्र किमाशयेन भगवतोक्तमिति विचारे दुःखं रागादिनिमित्तजन्यरजोगुणविकाररूपा सन्तापात्मिका प्रतिकूला चित्तवृत्तिः । सादृश्ये दुःखे प्राप्ते सत्यहं पापी धिङ्मां दुरात्मानमित्यनुसन्तापात्मिका तमोगुणविकारत्वेन भ्रान्तिरूपा चित्तवृत्तिरुद्वेगः । "प्राक्संस्कारपरम्परापरिणतं प्रायो मनः प्राणिनां कस्तेभ्यः प्रकृतिं निरस्य सहजां कर्त्तान्यथा स्यान्नरः ॥ दौर्गन्घ्यं लशुनादिकस्य सहजं यत्नात्समुन्मारयेत्सौरश्र्यं वितनोति कः सुरभिता कर्पूरमुख्यस्य वा ॥ तमेव शरण गच्छं सर्वभावेन भारत । तत्प्रसादात्परां शान्ति स्थानं प्राप्स्यसि शाश्र्वतम् ॥" इति भगवदुक्तेश्र्चानेकशः श्रुतिस्मृतिसिद्धान्तपरैर्वाक्यैः संन्यास एव प्रतिपादित इति प्रतीयते ननु अदृष्टविषयचोदनाप्रामाण्यादात्मकर्त्तव्यं गौणैर्देहेन्द्रियात्मभिः क्रियत इति चेन्न अविद्याकृतात्मकत्वात्तेषां न गौणाआत्मनो देहेन्द्रियादयः किन्तर्हि मिथ्याप्रत्ययेनैवासंगस्यात्मनः सङ्गात्मत्वमापद्यन्ते तद्भावे भावात्तदभावे चाभावात् । अविवेकिनां ह्यज्ञानकाले बालानां दृश्यते दीर्घोहं गौरोहमिति देहांदेसंघातेहंप्रत्ययो नतु विवेकिनामन्योऽहं देहादिसंघातादिति ज्ञानवतां तत्काले देहादिसंघातेऽहंप्रत्ययो भवति । तस्मान्मिथ्याप्रत्ययाभावेऽभावात् तत्कृत एव न गौणः । कर्मविधिश्रुतिवद्ब्रह्मविधिश्रुतेरप्रामाण्यप्रसंग इति चेन्न बाधकप्रत्ययानुपपत्तेः । यथा ब्रह्मविद्याविधिश्रुत्यात्मन्यवगते देहादिसं घातेऽहंप्रत्ययो बाध्यते तथात्मन्येवात्मावगतिर्न केनचिदपि बाधितुं शक्या फलव्यतिरेकावगतेर्यथाग्निरुष्णः प्रकाशकश्र्चेति । नच कर्मविधिश्रुतेरप्रामाण्यं पूर्वपूर्वप्रवृत्तिनिरोधेनोत्तरोत्तरापूर्वप्रवृत्तिजन्यस्य प्रत्यगात्माभिमुख्यप्रवृत्त्युत्पादनार्थत्वात् । मिथ्यात्वेन प्रतिपाद्य अन्तरंगज्ञानदशायां "अत्रायं पुरुषः स्वयं ज्योतिर्भिवति" "अजो नित्यः शाश्र्वतोयं पुराणः" ‘आकाशवत्सर्वगतश्र्च नित्यः’ ‘क्षेत्रं क्षेत्री यथा कृत्स्नं प्रकाशयति भारत’ ‘नित्यस्सर्वगतः स्थाणु’ रित्यादिश्रुतिस्मृतिभिरात्मनश्र्चेतनत्वनित्यत्वावगमात् । तद्वैपरीत्यानुभवादज्ञानमनात्मैवेति सिद्धम् । एतेन शून्यमात्मेति प्रत्युक्तम् । तस्यापि साक्षिभास्यत्वात् । कथं पुरर्देहादीनामहमनुभवविषयत्वादनात्मत्वमुच्यते । देहादीनांमहमनुभवविषयत्वादनात्मत्वमुच्यते । देहादीनां चिदात्मनश्र्चान्योन्याध्यासाद्देहादीनामहमनुभवाविषयत्वं मृतदेहे तददर्शनात् । अन्यथान्यत्रापि प्रसंगात् । तस्मादहंकारादिष्वात्मत्वानुसन्धानमयथार्थात्मस्मरणमिति सर्वं निरवद्यम् ॥ कस्तर्हि आत्मेति चेत् "त्रिषु धामसु यद्भोग्यं भोक्ता भोग्यश्र्च यद्भवेत् । तेभ्यो विलक्षणः साक्षी चिन्मात्रोहं सदाशिवः ॥ साक्षी चेता केवलो निर्गुणश्र्च" इत्याद्या देहाद्यज्ञानान्तविलक्षणं स्वप्रकाशं चिद्रूपं साक्षिणं दर्शयन्ति तत्र प्रमाणं यथा-"अज्ञानतत्कार्यतदीयभेदादध्यक्षयन्ती निजसत्तयैव । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP