संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|वेदान्तशास्त्रमकरन्दः|चतुर्थपरिच्छेदः| परिच्छेदः २ चतुर्थपरिच्छेदः परिच्छेदः १ परिच्छेदः २ परिच्छेदः ३ परिच्छेदः ४ परिच्छेदः ५ परिच्छेदः ६ परिच्छेदः ७ परिच्छेदः ८ परिच्छेदः ९ परिच्छेदः १० चतुर्थपरिच्छेदः - परिच्छेदः २ श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः । Tags : vedvinayak damodar savarkarकवितावेदशास्त्रसंस्कृत परिच्छेदः २ Translation - भाषांतर यद्वस्तु यादृशं वर्तते तद्विषयकं ज्ञानमपि तादृगेव जायते तदेव च प्रमाज्ञानं वस्तु नान्यथा करोति घटज्ञानं घटाकारमेव जायते न पटाकारं यथार्थबोधो हि प्रमा । अनधिगताबाधितज्ञानत्वं स्मृतिव्यावृत्तं तु व्यावहारिकम् नच वेदान्तानां कर्मोपासनाबोधकत्वं मुख्यं सर्वतत्त्वज्ञसंप्रदायबहिर्भूतत्वात् । अहं ब्रह्मास्मीति ज्ञानस्य ज्ञानातिरिक्तकालाव्यवधानतया जायमानत्वेनाविद्याध्वंसकत्वाद्बाधकत्वाच्च न कर्मोपासनावोधकत्वं वेदान्ता नामपि तु प्रत्युत द्वैतस्योपमर्द्दकत्वमेव एवं च यादृशं ब्रह्म अद्वितीयं वस्तु परिच्छेदरहितं शुद्धमस्ति तदेव वृत्तिज्ञानमहं ब्रह्मास्मि बोधयति चिन्मात्रं सन्तं ब्रह्माद्वितीयं जडं द्वितीयभेदसहितं जीवभिन्नं सन्तं ब्रह्मभिन्नत्वेन बोधयेच्चेत्तदा वेदान्तानां प्रामाण्यमेव व्याहन्येत द्वैतस्य स्वयमेव सर्वलोकसिद्धत्वादयमस्मात्पृथगिति वेदान्तानामपूर्वत्वं च न सिद्धये त्तथाचोक्तं भगवता वेदव्यासेन महाभारते "अन्यथा सन्तमात्मानमन्यथा प्रतिपाद्यते ॥ किं तेन न कृतं पापं चौरेणात्मापहारिणा" इति । श्रुत्यामप्येवमुक्तम् "तॉंस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जना" इति आत्मा सच्चिदानन्दाद्वितीयः कर्तृत्वभोक्तृत्वरहितस्तं विपरीतं मन्यमाना आत्महनो भवन्तीति श्रुत्यर्थः क्रियाविलक्षणत्वादप्यात्मस्वरूपस्य वेदान्तानां कर्मोपासनबोधकत्वं मुख्यत्वेन न संभवति तथा हि नात्मनःकर्मत्वं क्रियाजन्यफलशालित्वाभावादसङ्गत्वाच्च । यथा घट उत्पत्त्यादिक्रियाशाली न तथात्मा मूर्त्तत्वाभावाद्य्वापकत्वाच्च । आत्मन्युत्पत्त्यादिक्रियाफलसंबन्धाभावात्सर्वसाक्षित्वादात्मत्वादेव च कर्मत्वाभावस्तथैव न विकार्यत्वमप्यात्मनः अन्यथाभावो विकारस्तद्वान्विकार्यो यथा दुग्धाद्दधि अविकृतपरिणामोपि न संभवति, कटकादिवत् तत्रापि क्रियासत्त्वेनाविकारित्वं न सम्भवति किंच स्वप्नरज्जुसर्पादिवच्च ब्रह्मविवर्त्तोऽयं प्रपञ्चः अतात्त्विकान्यथा भावो विवर्त्त इति लक्षणसत्त्वात् गुणाधानलक्षणसंस्काराऽभावान्न गुणाधानमात्मनस्तद्धि गुणाधानं नाम गुणोत्पादनं यथोपनयनसंस्कारादिना द्विजन्मनो वेदाध्येतृत्वरूपगुणाधानं न तथात्मनो ह्यसङ्गत्वात् । नापि दोषापनयः संस्कारो ब्रह्मणो यथादर्शे मलनिवृत्तिरूपा क्रिया सम्भवति न तथात्र तस्य सदाशुद्धत्वादात्मनो "नित्यशुद्धमुक्त" इत्यादिश्रुतेः । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP