संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गौतमीयधर्मशास्त्रेः|तृतीयप्रश्ने| सप्तविंशोऽध्यायः तृतीयप्रश्ने एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः तृतीयप्रश्ने - सप्तविंशोऽध्यायः ‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत. Tags : dharmagautamगौतमधर्मसंस्कृत सप्तविंशोऽध्यायः Translation - भाषांतर अथातश्चान्द्रायणम् ॥१॥ तस्योक्तो विधिः कृच्छ्रे ॥२॥ वपनं व्रतं चरेत् ॥३॥ श्वोभूतां पौर्णमासीमुपवसेत् ॥४॥ आप्यायस्व सं ते पयांसि नवो नव इति चैताभिस्तर्पणमाज्यहोमो हविषश्चानुम - न्त्रनमुपस्थानं चन्द्रमसः ॥५॥ यद्देवा देवहेडनमिति चतसृभिर्जुहुयात् ॥६॥ देवकृतस्येति चान्ते समिद्भिः ॥७॥ ॐ भूर्भुवः स्वस्तपः सत्यं यशः श्रीरु - र्गिडौजस्तेजो वर्चः पुरुषो धर्मः शिव इत्येतै - र्ग्रासानुमन्त्रणं प्रतिमन्त्रं मनसा ॥८॥ नमः स्वाहेति वा सर्वान् ॥९॥ ग्रासप्रमाणमास्याविकारेण ॥१०॥ चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलो - दनिका हवींष्युत्तरोत्तरं प्रशस्तानि ॥११॥ पौर्णमास्यां पञ्चदश ग्रासान्भुक्त्वै - कापचयेनापरपक्षमश्र्नीयात् ॥१२॥ अमावास्यायामुपोष्यैकोपचयेन पूर्वपक्षम् ॥१३॥ विपरीतमेकेषाम् ॥१४॥ एवं चान्द्रायणो मासः ॥१५॥ एवमाप्त्वा विपापो विपाप्मा सर्वमेनो हन्ति ॥१६॥ द्वितीयमाप्त्वा दश पूर्वान्दश परानात्मानं चैकविंशं पङ्क्तिं च पुनाति ॥१७॥ संवत्सरं चाऽऽप्त्वा चन्द्रमसः सलोक - तामाप्नोति सलोकतामाप्नोति ॥१८॥ इति श्रीहरदत्तविरचितायां गोतमीसूत्रविवृतौ मिताक्षरायां सप्त विंशोऽध्यायः ॥२ ७ ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP