संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गौतमीयधर्मशास्त्रेः|तृतीयप्रश्ने| विंशोऽध्यायः तृतीयप्रश्ने एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः तृतीयप्रश्ने - विंशोऽध्यायः ‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत. Tags : dharmagautamगौतमधर्मसंस्कृत विंशोऽध्यायः Translation - भाषांतर त्यजेत्पितरं राजघातकं शूद्रयाजकं शूद्रार्थ - याजकं वेदविप्लावकं भ्रूणहनं यश्चान्त्यावसा - यिभिः सह संवसेदन्त्यावसायिन्यां वा ॥१॥ तस्य विद्यागुरुन्योनिसंबन्धांश्च संनिपात्य सर्वाण्युदकादीनि प्रेतकार्याणि कुर्युः ॥२॥ पात्रं चास्य विपर्यस्येयुः ॥३॥ दासः कर्मकरो वाऽवकरादमेध्यपात्रमानीय दासी - घटात्पूरयित्वा दक्षिणामुखो यदा विपर्यस्येदमु - कमनुदकं करोमीति नामग्राहम् ॥४॥ तं सर्वेऽन्वालभेरन्प्राचीनावीतिनो मुक्तशिखाः ॥५॥ विद्यागुरवो योनिसंबन्धाश्व वीक्षेरन् ॥६॥ अप उपस्पृश्य ग्रामं प्रविशन्ति ॥७॥ अत उत्तरं तेन संभाष्य तिष्ठेदेकरात्रं जपन्सावित्रीमज्ञानपूर्वम् ॥८॥ ज्ञानपूर्वं च त्रिरात्रम् ॥९॥ यस्तु प्रायश्चित्तेन शुध्येत्तस्मिञ्शुद्धे शात - कुम्भमयं पात्रं पुण्यतमाद्धदात्पूरयित्वा स्त्रव - न्तीभ्यो वा तत एनमप उपस्पर्शयेयुः ॥१०॥ अथास्मै तत्पात्रं दद्युस्तत्संप्रतिगृह्य जपेच्छान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरिक्षं यो रोचनस्तमिमं गृह्वामीति ॥११॥ एतैर्यजुर्भिः पावमानीभीस्तरत्समन्दीभिः कुष्माण्डै - श्वाऽऽज्यं जुहुयाद्धिरण्यं ब्राह्मणाय दद्यात् ॥१२॥ गां वा ॥१३॥ आचार्याय च ॥१४॥ यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः शुध्येत् ॥१५॥ सर्वाण्येव तस्मिन्नुदकादीनि प्रेतकर्माणि कुर्युः ॥१६॥ एतदेव शान्त्युदकं सर्वेषूपपात - केषु सर्वेषूपपातकेषु ॥१७॥ इति श्रीहरदत्तमिश्रविरचितायां गौतमसूत्रविवृतौ मिताक्ष - रायां विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP