तृतीयप्रश्ने - एकविंशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसंबन्धागस्तेननास्तिकनि -
न्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः ॥१॥
पातकसंयोजनकाश्व ॥२॥
तैश्वाब्दं समाचरन् ॥३॥
द्विजातिकर्मभ्यो हानिः पतनम् ॥४॥
तथा परत्र चासिद्धिः ॥५॥
तमेके नरकम् ॥६॥
त्रीणि प्रथमान्यनिर्दश्यान्यनु ॥७॥
न स्त्रीष्वगुरुतल्पं पततीत्येके ॥८॥
भ्रूनहनि हीनवर्णसेवायां च स्त्री पतति ॥९॥
कौटसाक्ष्यं राजगामि पैशुनं गुरोरनृता -
भिशंसनं महापातकसमानि ॥१०॥
अपङ्क्‍त्यानां प्राग्दुर्बालाद्गोहन्तृब्रह्मघ्नतन्मन्त्र -
कृदवकीर्णिपतितसावित्रीकेषूपपातकम् ॥११॥
अज्ञानादनध्यापनादृत्विगाचार्यौ पतनीयसेवायां च हेयौ ॥१२॥
अन्यत्र हानात्पतति ॥१३॥
तस्य च प्रतिग्रहीतेत्येके ॥१४॥
न कर्हिचिन्मातापित्रोरवृत्तिः ॥१५॥
दायं तु न भजेरन् ॥१६॥
ब्राह्मणाभिशंसने दोषस्तावान् ॥१७॥
द्विरनेनसि ॥१८॥
दुर्बलहिंसायां च विमोचने शक्तश्वेत् ॥१९॥
अभिक्रुद्धावगोरणं ब्राह्मणस्य वर्षशतमस्वर्ग्यम् ॥२०॥
निघाते सहस्त्रम् ॥२१॥
इति श्रीहरदत्तकृतायां गौतमीयधर्मशास्त्रे मिताक्षराया -
मेकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP