तृतीयप्रश्ने - चतुर्विंशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


रहस्यं प्रायश्चित्तमविख्यातदोषस्य ॥१॥
चतुऋचं तरत्समन्दीत्यप्सु जपेदप्रति -
ग्राह्यं प्रतिजिघृक्षन्प्रतिगृह्य वा ॥२॥
अभोज्यं बुभुक्षमानः पृथिवीमावपेत् ॥३॥
ऋत्वन्तरारमण उदकोपस्पर्शनाच्छुद्धिमेके ॥४॥
स्त्रीषु ॥५॥
पयोव्रतो वा दशरात्रं घृतेन द्वितीयमद्भिस्तृतीयं
दिवादिष्वेकभक्तिको जलक्किन्नवासा लोमानि
नखानि त्वचं मांसं शोणितं स्नाय्वस्थि मज्जानमिति
होमा आत्मनो मुखे मृत्योरास्ये जुहोमीत्यन्ततः
सर्वेषां प्रायश्चित्तं भ्रूणहत्यायाः ॥६॥
उक्तो नियमः ॥७॥
हुयात्कूश्माण्डैश्वाऽऽज्यम् ॥८॥
तद्‌व्रत एव वा ब्रह्महत्यासुरापानस्तेयगुरु -
तल्पेषु प्राणायामैस्तान्तोऽघमर्षणं जपन्स -
ममश्वमेधावभृथेनेदं च प्रायश्चित्तम् ॥९॥
सावित्रीं वा सहस्त्रकृत्व आवर्त -
यन्पुनीते हैवाऽऽत्मानम् ॥१०॥
अन्तर्जले वाऽघमर्षणं त्रिरावर्तयन्सर्व -
पापेभ्यो (विमुच्यते ) विमुच्यते ॥११॥
इति श्रीहरदत्तकृतायां गौतमीयधर्मशास्त्रे मिताक्षरायां
चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP