संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गौतमीयधर्मशास्त्रेः|तृतीयप्रश्ने| पञ्चविंशोऽध्यायः तृतीयप्रश्ने एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः तृतीयप्रश्ने - पञ्चविंशोऽध्यायः ‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत. Tags : dharmagautamगौतमधर्मसंस्कृत पञ्चविंशोऽध्यायः Translation - भाषांतर तदाहुः कतिधाऽवकीर्णी प्रविशतीति ॥१॥ मरुतः प्राणेनेन्द्रं बलेन बृहस्पतिं ब्रह्म - वर्चसेनाग्निमिवेतरेण सर्वेणेति ॥२॥ सोऽमावास्यायां निश्यग्निमुपसमाधाय प्रायश्चित्ताज्याहुतीर्जुहोति ॥३॥ कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामका - माय स्वाहा । कामाभिदुग्धोऽस्म्यभिदु - ग्धोऽस्मि कामकामाय स्वाहेति समिध - माधायानुपर्युक्ष्य यज्ञवास्तु कृत्वोपोत्थाय समासिञ्चत्वित्येतया त्रिरुपतिष्ठेत ॥४॥ त्रय इमेलोका एषां लोकानामभि - जित्या अभिक्रान्त्या इति ॥५॥ एतदेवैकेषां कर्माधिकृत्य योऽप्रयत इव स्यात्स इत्थं जुहुयादित्थमनुमन्त्रयेत वरो दक्षिणेति प्रायश्चित्तमविशेषात् ॥६॥ अनार्जवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषु शूद्रायां च रेतः सिक्त्वाऽयोनौ च दोष - वति च कर्मण्यपि संधिपूर्वेऽब्लिङगाभिरप उपस्पृशेद्वारुणीभिरन्यैर्वा पवित्रैः ॥७॥ प्रतिषिद्धवाङ्मनसापचारे व्याहृतयः पञ्च सत्यान्ताः ॥८॥ सर्वास्वपो वाऽऽचामेदहश्व माऽऽदित्यश्व पुनात्विति प्राता रात्रिश्व मा वरुणश्व पुनात्विति सायम् ॥९॥ अष्टौ वा समिध आदध्याद्देवकृतस्येति हुत्वैव सर्वस्मादेनसो मुच्यते ॥१०॥ इति श्रीहरदत्तविरचितायां गौतमसूत्रविवृतौ मिताक्षरायां पञ्चविंशोऽध्यायः ॥२५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP