संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
चतुर्थः सर्गः - गीतम् ८

गीतगोविन्दम् - चतुर्थः सर्गः - गीतम् ८

गीतगोविन्दम्

स्निग्धमधुसूदनः

यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् । प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥२५॥

निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् ।

व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥

सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥१॥

अविरलनिपतितमदनशरादिव भवदवनाय विशालम् ।

स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥२॥

कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् ।

व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥३॥

वहति च गलितविलोचनजलभरमाननकमलमुदारम् ।

विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥४॥

विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।

प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥५॥

प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् ।

त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥६॥

ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।

विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥७॥

श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।

हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥८॥

आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।

सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥२६॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP