संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
प्रथमः सर्गः - गीतम् ४

गीतगोविन्दम् - प्रथमः सर्गः - गीतम् ४

गीतगोविन्दम्

चन्दनचर्चितनीलकलेवरपीतवसनवनमाली ।

केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली ॥

हरिरिहमुग्धवधूनिकरे विलासिनि विलसति केलिपरे ॥१॥

पीनपयोधरभारभरेण हरिं परिरम्य सरागम् ।

गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम् ॥२॥

कापि विलासविलोलविलोचनखेलनजनितमनोजम् ।

ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥३॥

कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले ।

चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले ॥४॥

केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।

मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण द्कूले ॥५॥

करतलतालतरलवलयावलिकलितकलस्वनवंशे ।

रासरसे सहनृत्यपरा हरिणा युवतिः प्रशशंसे ॥६॥

श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् ।

पश्यति सस्मितचारुपरामपरामनुगच्छति वामाम् ॥७॥

श्रीजयदेवकवेरिदमद्भुतकेशवकेलिरहस्यम् ।

वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥८॥

विश्वेषामनुरञ्जने जनयन्नानन्दमिन्दीवर-

श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् ।

स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्कितः शृङ्गारः सखि मूर्तिमानिव मदहु मुग्धो हरिः क्रीडति ॥११॥

अद्योत्सङ्गवसद्भुजङ्गकवलक्केशादिवेशाचलं प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।

किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया- दुन्मीलन्ति कुहूः कुहूरिति कलोत्तलाः पिकानां गिरः ॥१२॥

रासोल्लासभरेणविभ्रमभृतामाभीरवामभ्रुवा- मभ्यर्णं परिरम्यनिर्भरमुरः प्रेमान्धया राधया ।

साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुत्- व्याजादुद्भटचुम्बितस्मितमनोहरी हरिः पातु वः ॥१३॥॥

इति श्रीगीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः ॥॥

N/A

References : N/A
Last Updated : April 11, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP