संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
प्रथमः सर्गः - गीतम् ३

गीतगोविन्दम् - प्रथमः सर्गः - गीतम् ३

गीतगोविन्दम्

ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे ।

मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ॥

विहरति हरिरिह सरसवसन्ते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते ॥१॥

उन्मदमदनमनोरथपथिकवधूजनजनितविलापे ।

अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे ॥२॥

मृगमदसौरभरभसवशंवदनवदलमालतमाले ।

युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥३॥

मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे ।

मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे ॥४॥

विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे ।

विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे ॥५॥

माधविकापरिमलललिते नवमालिकजातिसुगन्धौ ।

मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ॥६॥

स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते ।

बृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥७॥

श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् ।

सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् ॥८॥

दरविदलितमल्लीवल्लिचञ्चत्पराग- प्रकटितपटवासैर्वासयन् काननानि ।

इह हि दहति चेतः केतकीगन्धबन्धुः प्रसरदसमबाणप्राणवद्गन्धवाहः ॥८॥

उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर- क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः ।

नीयन्ते पथिकैः कथंकथमपि ध्यानावधानक्षण- प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥९॥

अनेकनारीपरिरम्भसम्भ्रम- स्फुरन्मनोहारिविलासलालसम् ।

मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षं पुनराह राधिकाम् ॥१०॥

N/A

References : N/A
Last Updated : April 11, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP