संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २२३

उत्तरखण्डः - अध्यायः २२३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शौनक उवाच-
सूतसूत महाभाग धन्योसि त्वं भवांबुधौ
यन्नोऽत्यर्थं निमग्नानां पाययस्वमृतोत्करम् ॥१॥
साधोऽत्र भवनिस्तार वांछतां नः समादिश
मंत्ररत्नं भावशुद्धं यन्मयं सचराचरम् ॥२॥
सूत उवाच-
शृणु शौनक वक्ष्यामि मंत्ररत्नं महाद्भुतम्
यद्दिलीपाय गदितं वसिष्ठेन महात्मना ॥३॥
एकदा तु दिलीपेन पृष्टमेतद्गुरुं प्रति
वसिष्ठं द्विजशार्दूलं प्रणिपत्य यथा त्वया ॥४॥
दिलीप उवाच-
भगवन्भवता प्रोक्तास्सर्वधर्माविशेषतः
वर्णाश्रमयुता धर्मा नित्यनैमित्तिकाः क्रियाः ॥५॥
राजधर्म्माश्च यज्ञाश्च तीर्थदानव्रतादिकम्
श्रुता मया मुनिःश्रेष्ठ अक्षय्य स्वर्गभोगदाः ॥६॥
अधुना श्रोतुमिच्छामि मोक्षमार्गं सनातनम्
दिष्ट्याहं येन गच्छामि तद्ब्रह्मन्वक्तुमर्हसि ॥७॥
को मंत्रं सर्वमंत्राणां भवरोगैकभेषजम्
सर्वेषामेव देहीनां को हि मोक्षप्रदः परः ॥८॥
तत्समाख्याहि तत्त्वेन मयि वात्सल्यगौरवात् ॥९॥
वसिष्ठ उवाच-
साधुपृष्टं त्वया राजन्सर्वलोकहितैषिणा
वक्ष्यामि परमं गुह्यमेकं संसारतारकम् ॥१०॥
पुरा महर्षयः सर्वे यज्ञदानपराः शुभाः
पप्रच्छुर्ब्रह्मणः पुत्रं नारदं मुनिसत्तमम् ॥११॥
महर्षय ऊचुः -
भगवन्केन मंत्रेण गच्छामः परमं पदम्
तन्नो ब्रूहि महाभाग प्रसादं कर्तुमर्हसि ॥१२॥
नारद उवाच-
पितामहं पुरा सर्वे योगिनः सनकादयः
पप्रच्छुरेकमेकांते मोक्षमार्गं सुदुर्ल्लभम् ॥१३॥
ब्रह्मोवाच-
शृणुध्वं योगिनः सर्वे रहस्यमिदमद्भुतम् ॥१४॥
न जानंति सुराः सर्वे ऋषयश्च तपोधनाः
सर्गादौ प्रोक्तवान्देवो मह्यं नारायणोऽव्ययः ॥१५॥
ईश्वर्या सह देव्या च सम्यक्संपूजितो मया
ततः प्रसन्नो भगवान्मम नारायणोऽव्ययः ॥१६॥
प्राजापत्यं ददौ मह्यं श्रुतिजं सर्ववाङ्मयम्
प्रकाशकानि मंत्राणि व्यापकाव्यापकानि च ॥१७॥
ततस्तमब्रुवं देवं पुराणपुरुषोत्तमम्
भगवन्केन मंत्रेण संसारोत्तारणं नृणाम् ॥१८॥
तन्ममाचक्ष्व तत्त्वेन सर्वलोकहिताय वै
को मन्त्रः सर्वमन्त्राणां पुरश्चरणवर्जितः ॥१९॥
सकृदुच्चारणान्नृणां ददाति परमं पदम्
श्रीभगवानुवाच-
साधुपृष्टं महाभाग सर्वलोकहितैषिणा ॥२०॥
तस्माद्वक्ष्यामि ते गुह्यं येन मामाप्नुयुर्नराः ॥२१॥
सर्वेषामेव मंत्राणां मंत्ररत्नं शुभावहम्
सकृत्स्मरणमात्रेण ददाति परमं पदम् ॥२२॥
मंत्ररत्नद्वयं न्यासं प्रयतिः शरणागतिः
लक्ष्मीनारायणमिति मन्त्रः सर्वफलप्रदः ॥२३॥
नामानि मंत्ररत्नस्य पर्य्यायेण निबोधत
तस्योच्चारणमात्रेण परितुष्टोस्मि नित्यशः ॥२४॥
कुलजो वा तपस्वी वा वेदवेदांगपारगः
यज्ञदानपरो वापि सर्वतीर्थोपसेवकः ॥२५॥
व्रती वा सत्यवादी वा यतिर्वा ज्ञानवानपि
मन्त्राधिकारी न भवेत्तं प्रयत्नेन वर्जयेत् ॥२६॥
ब्राह्मणाः क्षत्रिया वैश्या स्त्रियः शूद्रास्तथेतराः
तस्याधिकारिणः सर्वे मम भक्तास्तु ते यदि ॥२७॥
अनन्यशरणानां च तथैवानन्यसेविनाम्
अनन्यसाधकानां च वक्तव्यो मन्त्र उत्तमः ॥२८॥
आर्तानामाशु फलदस्सकृदेव कृतो ह्यसौ
दृप्तानामपि जन्तूनां देहान्तरनिवारणः ॥२९॥
आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी वापि प्रजापतिः
सकृन्मां शरणं याति ततः कामानवाप्नुयात् ॥३०॥
नादीक्षिताय वक्तव्यं नाभक्ताय च मानिने
नास्तिकाय न लुब्धाय न श्रद्धाविमुखाय च ॥३१॥
न चाशुश्रूषवे वाच्यं नासंवत्सरवासिने
कामक्रोधविमुक्तस्तु दंभलोभविवर्जितः ॥३२॥
मां च यो व्यभिचारेण भक्तियोगेन सेवते
वक्तव्य तस्य विधिवन्मंत्ररत्नमनुत्तमम् ॥३३॥
देशकालादिनियमानरिमित्रादि शोधनम्
न्यासमुद्रादिकं तस्य पुरश्चरणसंयुतम् ॥३४॥
मच्चक्रांकितदेहत्वं मदीयाराधनं तथा
मयि सन्यस्तकर्मत्वं मदनन्यशरण्यतता ॥३५॥
मयि सर्वफलन्यासो महाविश्वासपूर्वकम्
अनन्यसाधनो यत्नस्त्वकिंचनत्वमात्मनः ॥३६॥
अवैष्णवानां संभाषा वंदनादि विवर्जनम्
अनन्यदेवतानां च वन्दनं पूजनं तथा ॥३७॥
एवमाद्यादि नियमां प्रपन्नस्य प्रकीर्तिताः
इत्यादिगुणयुक्तस्य वक्तव्यं मंत्रमुत्तमम् ॥३८॥
तस्य नारायणश्चाहमृषिर्विष्णुः सनातनः
देवता च श्रिया सार्द्धमहं वात्सल्यसागरः ॥३९॥
सर्वलोकेश्वरः श्रीमान्सुशीलः सुभगस्तथा
सर्वज्ञः सर्वशक्तिश्च सदापूर्णमनोरथः ॥४०॥
सर्वगः सर्वबंधुश्च कृपापीयूषसागरः
श्रीमन्नारायणश्चाहं देवता समुदाहृतः ॥४१॥
छंदस्तु देवी गायत्री पंचविंशाक्षरात्मिका
द्विस्सप्तषट्त्रिपंचद्विषडंगानि नियोजयेत् ॥४२॥
लक्ष्म्या मदनपायिन्या मां ध्यायेद्विश्वरूपिणम्
चक्रशंखगदापद्मपाणिनं दिव्यरूपिणम् ॥४३॥
वामांकस्थश्रिया सार्द्धं पूजयेत्प्रयतं शुचिः
अनेन मंत्ररत्नेन गंधपुष्पनिवेदनैः
सकृत्संपूज्यमानोऽपि संतुष्टोस्मि प्रजापते ॥४४॥
ब्रह्मोवाच-
सम्यगुक्तं त्वया नाथ रहस्यमिदमुत्तमम्
मंत्ररत्नप्रभावश्च सर्वसिद्धिप्रदो नृणाम् ॥४५॥
पिता त्वं सर्वलोकानां माता त्वं गुरुरेव च
त्वं च स्वामी सखा भ्राता गतिस्त्वं शरणं सुहृत् ॥४६॥॥
अहं तु तव देवेश दासश्शिष्यस्तथा सुहृत्
तस्मान्मम दयासिंधो प्रोक्तवानिदमुत्तमम् ॥४७॥
अधुना मंत्ररत्नस्य दीक्षां सम्यग्विधानतः
ब्रूहि सर्वत्र तत्वेन लोकानां हितकाम्यया ॥४८॥
श्रीभगवानुवाच -
शणु वत्स प्रवक्ष्यामि मंत्र दीक्षाविधिं परम्
आचार्यं संश्रयेत्पूर्वं मदाश्रयणसिद्धये ॥४९॥
आचार्यो वेदसंपन्नो विष्णुभक्तो विमत्सरः
मंत्रज्ञो मन्त्रभक्तश्च सदा मंत्राश्रयः शुचिः ॥५०॥
सत्संप्रदायसंयुक्तो ब्रह्मविद्याविशारदः
अनन्यसाधनश्चैव तथानन्यप्रयोजनः ॥५१॥
ब्राह्मणो वीतरागश्च क्रोधलोभविवर्जितः
सद्वृत्तौ शासिता चैव मुमुक्षुः परमात्मवित् ॥५२॥
एवमादिगुणेपेत आचार्यः स मुदा सुहृत्
आचाराञ्शासयेद्यस्तु स आचार्य इतीरितः ॥५३॥
यस्त्वाचार्यपराधीनस्सद्वृत्तौ शास्यते यदि
शासने स्थिरवृत्तश्च शिष्यः सद्भिरुदाहृतः ॥५४॥
एवं लक्षणसंयुक्तं शिष्यं सर्वगुणान्वितम्
अध्यापयेद्विधानेन मन्त्ररत्ननुत्तमम् ॥५५॥
द्वादश्यां श्रवणे वापि कर्हिचिद्वैष्णवे दिने
सदाचार्योपसंप्रीतौ तत्र दीक्षां समाचेत् ॥५६॥
सुदर्शनं पांचजन्यं सुवर्णेन प्रकारयेत्
रौप्येण वापि ताम्रेण कांस्येनापि प्रकारयेत् ॥५७॥
स्नाप्य पंचामृतैः शुद्धैरर्चयेत्पुरतो मम
अर्च्चयेद्गंधपुष्पाद्यैस्तन्मंत्रेण विधानतः ॥५८॥
तत्र संस्थापयेदग्नि स्वगृह्योक्त विधानतः
आचार्यो जुहुयादाज्यं मंत्रेणाथ द्विजोत्तमः ॥५९॥
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा
जुहुयान्मंत्ररत्नेन तथान्यैर्वैष्णवैः शुभैः ॥६०॥
मंत्रैः पुरुषसूक्ताद्यैर्जुहुयाघृतपायसम्
तस्मिन्नग्नौ क्षिपेच्चक्रं शंखं च द्विजत्तमः ॥६१॥
षडक्षरेण जुहुयादाज्यं विंशतिसंख्यया
प्रतप्तं चक्रमादाय मंत्रैणैव तथा गुरुः ॥६२॥
शंखेनैवांकनं कुर्याद्बाह्वोर्दक्षिणसव्ययोः
होमशेषं समाप्याथ पुनः पूजां समाचरेत् ॥६३॥
ततः कलशमादाय पवित्रोदकपूरितम्
मंत्रेणैवाभिमंत्र्याथ तस्य मूर्ध्न्यभिषेचयेत् ॥६४॥
सितवस्त्रधरं सम्यगाचांतं विनयान्वितम्
ऊर्द्ध्वपुण्ड्रधरं शिष्यं मंत्रमध्यापयेद्गुरुः ॥६५॥
मंत्रार्थश्च प्रवक्तव्यो वृत्तिश्चैव विशेषतः
लब्धमंत्रस्तदाचार्यं पूजयेद्भूषणादिभिः ॥६६॥
अनेन विधिना मंत्रं योऽधीते वैष्णवाद्गुरोः
ततः स वैष्णवं याति नान्यथा सुरसत्तम ॥६७॥
नारद उवाच-
एवमुक्त्त्वा विधातारं देवदेवो हरिः पिता
स्वचक्रेणांकयित्वा तु तस्मै मंत्रं ददौ स्वयम् ॥६८॥
सर्वलोकेश्वरो देवो ब्रह्मा मम पिता प्रभुः
ममापि विधिवन्मंत्रं स ददौ मुनिसत्तमाः ॥६९॥
तस्माद्यूयं मुनिश्रेष्ठा धारयित्वा सुदर्शनम्
नारायणपदं द्वंद्वं गच्छध्वं शरणं द्विजाः ॥७०॥
वसिष्ठ उवाच-
इत्युक्त्वा मुनयः सर्वे नारदेन सुरर्षिणा
द्वयाधिकारिणः सर्वे याता विष्णोः परं पदम् ॥७१॥
तस्मात्त्वमपि राजर्षे विष्णुसायुज्यमिच्छसि
दीक्षामार्गविधानेन धारयित्वा सुदर्शनम् ॥७२॥
नारायणपदद्वंद्वं तदेकं शरणं व्रज
सर्वलोकेश्वरः साक्षाद्ब्रह्मा त्रिभुवनेश्वरः ॥७३॥
ममापि नारदस्यापि प्रोक्तवान्मंत्रमुत्तमम्
शौनकादि महर्षीणां नैमिषारण्यवासिनाम् ॥७४॥
नारदः प्रददौ मंत्रं प्रपत्तिं शरणागतिम्
एतद्गुह्यतमं राजन्न जानंति महर्षयः ॥७५॥
देवाताश्च न जानंति सिद्धा साध्याश्च दानवाः
मयापि प्रापितो मंत्रं शक्तिपुत्रः पराशरः ॥७६॥
इदं रहस्यं परमं लक्ष्मीनारायणं द्वयम्
राजंस्तवापि वक्ष्यामि प्रपत्ति शरणागतिम् ॥७७॥
द्वयात्परतरं मन्त्रं नास्ति सत्यं ब्रवीमि ते
अस्मात्परतरं धर्म्मं नास्ति लोकेषु किंचन ॥७८॥
सत्यं सत्यं पुनः सत्यं ब्रह्मणा कथितं पुरा
नारायणात्परो देवो नास्ति मुक्तिप्रदो नृणाम् ॥७९॥
तत्सेवैव भवेन्मोक्षः सर्वकर्म निकृंतनः ॥८०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे वसिष्ठदिलीपसंवादे विद्योपदेशोनाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥२२३॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP