संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १४८

उत्तरखण्डः - अध्यायः १४८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
साभ्रमत्यास्तटे तीर्थं गयातीर्थमनुत्तमम्
चित्रांगवदनं नाम मालार्काधिष्ठितं शुभम् ॥१॥
कल्पपादपसंतानैर्मंदारैश्चोपशोभितम्
चूतनिंबकदंबैश्च काश्मर्यश्वत्थतिंदुकैः ॥२॥
तस्मादपहरेत्कुष्ठं योजनस्मृतिविभ्रमात्
यस्य संजायते कुष्ठं तस्य मालार्कको हरेत् ॥३॥
या तु वेदोक्तविधिना नारी तत्राभिषिंचति
मृतवत्साऽथवा वंध्या पुत्रं प्राप्नोति साचिरात् ॥४॥
संध्यास्नानं जपो होमः स्वाध्यायो देवतार्चनम्
कृतं भास्करभक्तेन मालार्के ह्यक्षयं भवेत् ॥५॥
अत्र गत्वा तु देवेशि श्रीरवेर्व्रतमाचरेत्
इहलोके सुखं भुक्त्वा रवेर्लोकं हि याति वै ॥६॥
मृतवत्सो हि राजर्षिस्तत्र गत्वाऽकरोत्तपः
स राजा प्राप्तवान्पुत्रं श्रीमालार्कप्रसादतः ॥७॥
अत्र गत्वा विशेषण उपवासी जितेंद्रियः
मालार्कं पूजयेद्यो वै मुक्तिभागी भवेद्ध्रुवम् ॥८॥
वसिष्ठप्रमुखाविप्रा देवा इंद्रादयः सदा
निवसंति सुरश्रेष्ठे मालार्के रविसन्निधौ ॥९

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर संवादे
मालार्कतीर्थं नाम अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥१४८॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP