संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १४९

उत्तरखण्डः - अध्यायः १४९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
तीर्थादस्मात्परं तीर्थं मालार्कांतरतः स्थितम्
चंदनेश्वरमागच्छेदामोदस्थानमुत्तमम् ॥१॥
दुःशासनस्य रुधिरं पीत्वा भीमो महाबलः
प्रतिज्ञामात्मनः सर्वां पूरयित्वा सुदारुणाम् ॥२॥
कराभ्यां रुधिराक्ताभ्यां द्रौपद्याः केशबंधनम्
कृत्वा दत्त्वा द्विजातिभ्यो तीर्थयात्रां ततोऽगमत् ॥३॥
साभ्रमत्यास्तटे रम्ये गतो वै भ्रातृभिः सह
आनीतः साभ्रमत्यां यः स्वर्गाच्चंदनपादपः ॥४॥
स तु लिंगतया जातः पुण्यतीर्थप्रभावतः
तत्र स्नात्वा च पीत्वा च कृत्वा वै पितृतर्पणम् ॥५॥
न नरो निरयं गच्छेद्रुद्रलोकमवाप्नुयात्
चंदनेशं ततो दृष्ट्वा विश्वेशं लोकशंकरम् ॥६
पूजयेच्च यथाशक्त्या यत्र गत्वा न शोचति
यत्र कैवर्तको राजा पूजां कृत्वा ह्यनेकशः ॥७
स गतः शिवलोकं तं यत्र गत्वा न शोचति
मज्जंति ऋषयो यत्र यत्र देवः सनातनः ॥८॥
साक्षाद्विष्णुः परमात्मा नित्यं तिष्ठति भूतिदः
इयं साभ्रमती धन्या धन्यो विश्वेश्वरः प्रभुः ॥९॥
यत्र तीर्थान्यनेकानि जातानि भुवि पार्वति
अत्र चामर्दकीपुण्यैः फलैर्नानाविधैः शुभैः ॥१०॥
कर्त्तव्यमर्घदानं च विधिना तत्र सुंदरि ॥११॥

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर संवादे
चंदनेश्वरमाहात्म्यं नामैकोनपंचाशदधिकशततमोऽध्यायः ॥१४९॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP