संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १४२

उत्तरखण्डः - अध्यायः १४२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


श्रीमहादेव उवाच
कंबुतीर्थे नरः स्नात्वा कृत्वा वा पितृतर्पणम्
अर्चयेद्देवदेवेशं नारायणमनामयम् ॥१॥
दत्त्वा दानानि विधिवद् ब्रह्मणेभ्यो विधानतः
विष्णुलोकमवाप्नोति तीर्थस्यास्य प्रभावतः ॥२॥
अत्र राजर्षिणा पूर्वं विश्वामित्रेण धीमता
तपस्तप्तं विशेषेण प्रजाकामेन सुंदरि ॥३॥
वायुभक्षो निराहारो यत्रासीदनिलाशनः
विष्णुपूजापरो नित्यं विष्णुध्यानपरायणः ॥४॥
तपसानेन संजातः प्रजाकाममवाप्तवान्
प्रजाकामो नरो यश्च कंबुतीर्थं हि गच्छति ॥५॥
स प्रजां लभते नित्यं सत्यं सत्यं वरानने ॥६॥
इति कंबुतीर्थमाहात्म्यम्
ततो गच्छेत्सुरश्रेष्ठे तीर्थं नाम कपीश्वरम्
संनिधौ रक्तसिंहस्य महापातकनाशनम् ॥७॥
बध्यमाने पुरा सेतौ रामरावणविग्रहे
गृहीत्वा पर्वतश्रेष्ठं विशेषात्कपिभिः कृतम् ॥८॥
नाम्ना कपीश्वरादित्यं चक्रुस्तीर्थमनुत्तमम्
यत्र तीर्थे नरः स्नात्वा कृत्वा वा पितृतर्पणम् ॥९॥
दृष्ट्वा कपीश्वरादित्यं मुच्यते ब्रह्महत्यया
तत्र स्नानं प्रकर्तव्यं चैत्राष्टम्यां विशेषतः ॥१०॥
हनुमत्प्रमुखैस्तत्र स्नातं यत्र दिनत्रयम्
कपितीर्थप्रभावोऽयं भवत्यै समुदीरितः ॥११॥
अस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा कपीश्वरम्
रूपवान्बहुभोगश्च जायते नात्र संशयः ॥१२॥
बलं वांछति यो लोको धर्मं वा पुत्रमेव च
सर्वं स तु लभेन्नित्यं कपितीर्थप्रभावतः ॥१३॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर
संवादे कपितीर्थमाहात्म्यं नाम द्विचत्वारिंशदधिकशततमोऽध्यायः ॥१४२॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP