संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ८८

उत्तरखण्डः - अध्यायः ८८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूतउवाच-
अतःपरं कार्तिकमाहात्म्यं प्रस्तूयते
सूत उवाच-
एकदा द्वारकामागादृषिः कृष्णदिदृक्षया
पुष्पाण्यादाय दिव्यानि कल्पवृक्षोत्थितानि च ॥१॥
नारदं स्वागतेनासौ कृष्णः सत्कारमाचरत्
इदमर्घ्यमिदं पाद्यमित्युवाचासनंददत् ॥२॥
नारदस्तानि पुष्पाणि कृष्णायोपाजहार च
कृष्णः षोडशसाहस्रस्त्रीभ्यस्तानि व्यभज्यत ॥३॥
विस्मृत्य सत्यभामां तु सर्वाभ्यस्तान्यदात्प्रभुः
सत्यभामा ततः क्रुद्धा क्रोधागारं समाविशत् ॥४॥
समाज्ञाय ततः कृष्णस्तत्र गत्वा समाहितः
सत्यभामां मानयित्वा गरुडं मनसा स्मरन् ॥५॥
स्मृतमात्रस्तु गरुडस्तदागत्याग्रतः स्थितः
आरुह्य वेगात्पत्रं तमित्युवाच प्रियां प्रभुः ॥६॥
सत्ये त्वं माकृथाः क्रोधं त्वत्कृते देवतैः सह
विरुध्य देवराजानं रोपयिष्ये तवांगणे ॥७॥
कल्पद्रुमं महाभागेऽपराधं मे क्षमां कुरु
इति कृत्वा प्रतिज्ञां तु कृष्णः स सत्यभामया ॥८॥
देवलोकमगात्तूर्णं यत्र देवः स वृत्रहा
याचितः कल्पवृक्षार्थमुत्तरं दत्तवान्प्रभुम् ॥९॥
नायं देवद्रुमो भूम्यां प्राप्तुं योग्यस्त्वया प्रभो
तदा क्रुद्धो महाबाहुर्वृक्षमुत्पाट्य मूलतः ॥१०॥
वाहमारोपयामास वेगेन बलवत्तरः
तदा वज्रधरो वेगाद्वज्रमुद्यम्य वीर्यवान् ॥११॥
गरुडं ताडयामास कल्पवृक्षं त्यजेरिति
तदा पत्ररथः पत्रं कुलिशस्यापि गौरवात् ॥१२॥
एकं विसर्जयामास त्वरया प्रजगाम च
तेन वज्रप्रहारेण त्रयोभूव पतत्रिणः ॥१३॥
मयूरो नकुलश्चाषः कृष्णो द्वारावतीमगात्
आगत्य सत्यभामाया गृहे चैनमरोपयत्
तदैव नारदोऽभ्यागात्सत्यया मानितो बहु ॥१४॥
सत्यभामोवाच-
ईदृशः कल्पवृक्षोऽयं पतिरेतादृशः प्रभुः
भवेभवे कथं प्राप्यस्तदाख्यातु भवान्मम ॥१५॥
इति पृष्टस्तदा प्राह नारदो मुनिसत्तमः
प्राप्यते सत्यभामेऽयं तुलापुरुष दानतः ॥१६॥
सत्यभामा तदा कृष्णं कल्पवृक्षसमन्वितम्
नारदायैव सा प्रादात्तोलयित्वा विधानतः
सर्वोपस्करमाकृष्य नारदस्त्रिदिवं ययौ ॥१७॥
सूत उवाच-
श्रियःपतिमथामंत्र्य गते देवर्षिसत्तमे
हर्षोत्फुल्लानना सत्या वासुदेवमथाब्रवीत् ॥१८॥
सत्यभामोवाच-
धन्यास्मि कृतकृत्यास्मि सफलं जीवितं च मे
मज्जन्मनि निदाने च धन्यौ तौ पितरौ मम ॥१९॥
यौ मां त्रैलोकसुभगां जनयामासतुर्ध्रुवम्
षोडशस्त्रीसहस्राणां वल्लभाहं यतस्तव ॥२०॥
यस्मान्मयादिपुरुषः कल्पवृक्षसमन्वितः
यथोक्तविधिना सम्यङ्नारदाय समर्पितः ॥२१॥
यद्वार्तामपि जानंति भूमिसंस्थान जंतवः
सोऽयं कल्पद्रुमो गेहे मम तिष्ठति सांप्रतम् ॥२२॥
त्रैलोक्याधिपतेश्चाहं श्रीपतेरतिवल्लभा
अतोऽहं प्रष्टुमिच्छामि किंचित्त्वां मधुसूदन ॥२३॥
यदि त्वं मत्प्रियकरः कथयस्वात्र विस्तरात्
श्रुत्वा तच्च पुनश्चाहं करोमि हितमात्मनः ॥२४॥
यथाकल्पं त्वया देव वियुक्ता स्यां न कर्हिचित्
सूत उवाच-
इति प्रियावचः श्रुत्वा स्मेरास्योऽयं गदाग्रजः ॥२५॥
सत्या करे करं कृत्वागमत्कल्पतरोस्तलम्
निषिद्ध्यानुचरं लोकं सविलासं प्रियान्वितः ॥२६॥
प्रहस्य सत्यामामंत्र्य प्रोवाच जगतांपतिः
तत्प्रीति परितोषार्थं लसत्पुलकितांगजः ॥२७॥
कृष्ण उवाच-
न मे त्वत्तः प्रियतमा काचिदन्या नितंबिनी
षोडशस्त्रीसहस्राणां प्रिये प्राणसमा ह्यसि ॥२८॥
त्वदर्थं देवराजेन विरोधो दैवतैः सह
त्वया यत्प्रार्थितं कांते शृणु यच्च महद्भवेत् ॥२९॥
अदेयमथवाकार्यमकथ्यमपि यत्पुनः
त्वत्कृतं तु कथं प्रश्नं कथयामि न तु प्रिये
पृच्छस्व सर्वं कथये यत्ते मनसि वर्तते ॥३०॥
सत्योवाच-
दानं व्रतं तपो वापि किं तु पूर्वं मयाकृतम्
येनाहं मर्त्यजा मर्त्ये भवानीवाऽभवं किल ॥३१॥
तवांगार्द्धहरा नित्यं गरुडोपरिगामिनी
इंद्रादिदेवतावासमगमं च त्वया सह ॥३२॥
अतस्त्वां प्रष्टुमिच्छामि किं कृतं तु मया शुभम्
जन्मांतरे च किं शीला का चाहं कस्य कन्यका ॥३३॥
श्रीकृष्ण उवाच-
शृणुष्वैकमनाः कांते यत्त्वं वै पूर्वजन्मनि
पुण्यं व्रतं कृतवती तत्सर्वं कथयामि ते ॥३४॥
आसीत्कृतयुगस्यांते मायापुर्यां द्विजोत्तमः
आत्रेयो देवशर्मेति वेदवेदांगपारगः ॥३५॥
आतिथेयोऽग्निशुश्रूषुः सौरव्रत परायणः
सूर्यमाराधयन्नित्यं साक्षात्सूर्य्य इवापरः ॥३६॥
तस्यातिवयसश्चासीन्नाम्ना गुणवती सुता
अपुत्रः स स्वशिष्याय चंद्र नाम्ने ददौ सुताम् ॥३७॥
तमेव पुत्रवन्मेने स च तं पितृवद्वशी
तौ कदाचिद्वनं यातौ कुशेध्महरणार्थिनौ ॥३८॥
हिमाद्रिपादजवने चेरतुस्तौ यतस्ततः
तौ ततो राक्षसं घोरमायांतं समपश्यताम् ॥३९॥
भयविह्वलसर्वांगावसमर्थौ पलायितुम्
निहतौ रक्षसा तेन कृतांतसमरूपिणा ॥४०॥
तौ तु क्षेत्रप्रभावेण धर्मशीलतया पुनः
वैकुंठभवनं नीतौ मद्गणैर्मत्समीपगैः ॥४१॥
यावज्जीवंतु यत्ताभ्यां सूर्यपूजादिकं कृतम्
तेन वै कर्मणा ताभ्यां सुप्रीतोऽहं किलाभवम् ॥४२॥
शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः
मामेव प्राप्नुवंतीह वर्षांभः सागरं यथा ॥४३॥
एकोऽहं पंचधा जातः क्रीडयन्नामभिः किल
देवदत्तो यथा कश्चित्पुत्राद्याह्वाननामभिः ॥४४॥
ततश्च तौ मद्भवनाधिवासिनौ विमानयानौ रविवर्चसावुभौ
मत्तुल्यरूपौ मम सन्निधानगौ दिव्यांगना चंदनभोगभोगिनौ ॥४५॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां श्रीकृष्णसत्यभामा संवादे अष्टाशीतितमोऽध्यायः ॥८८॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP