संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ८५

उत्तरखण्डः - अध्यायः ८५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच-
वैशाख्यां पूर्णमास्यां वै जलस्थं जगदीश्वरम्
पूजयेद्वैष्णवो भक्त्या कृतोत्साहो मुदान्वितः ॥१॥
गीतं वाद्यं तथा नृत्यं कृत्वा पुण्यं महोत्सवम्
एकादश्यां सुरश्रेष्ठं पश्येद्वाथ प्रहर्षितः ॥२॥
गीतं गायन्हरेर्भक्त्या कर्त्तव्यः सोत्सवः शुभः
शयनं कुरु देवेश जलेऽस्मिन्वै सुरेश्वर ॥३॥
त्वयि सुप्ते जगत्सुप्तं भवत्येव न संशयः
घनागमे प्रकुर्वंति जलस्थ वै जनार्दनम् ॥४॥
ये नरास्तु सुरश्रेष्ठे न दाहो नरके भवेत्
स्वर्णपात्रे तथा रौप्ये ताम्रे वा च सुरेश्वरि ॥५॥
मृन्मये वाथ कर्त्तव्यं शयनं विष्णुसंज्ञकम्
तत्र तोयं च संस्थाप्य शीतलं गंधवासितम् ॥६॥
तस्मिंस्तोये ततो विष्णोः स्थापनं कारयेद्बुधः
गोपालनाम्नी मूर्त्तिश्च रामनाम्नी तथापि वा ॥७॥
शालग्राम शिला वापि स्थापनीया विशेषतः
प्रतिमां वा महाभाग तस्य पुण्यमनंतकम् ॥८॥
यावद्धराधरालोका यावच्चंद्र दिवाकरौ
तावत्तस्य कुले कश्चिन्न भवेद्देवि नारकी ॥९॥
तस्माज्ज्येष्ठे महादेवि तोयस्थं पूजयेद्धरिम्
वीततापो नरस्तिष्ठेद्यावदाभूतसंप्लवम् ॥१०॥
सुशीतले तथा तोये तुलसीदलवासितम्
शुचिशुक्रगते काले पूजयेद्धरणीधरम् ॥११॥
शुचिशुक्रगते काले येऽर्चयिष्यंति केशवम्
जलस्थं विविधैः पुष्पैर्मुच्यंते यमपीडनात् ॥१२॥
जलप्रेष्ठो यतो विष्णुर्जलशायी जलप्रियः
तस्माद्ग्रीष्मे विशेषेण जलस्थं पूजयेद्धरिम् ॥१३॥
नीरमध्ये स्थितं कृत्वा शालग्रामसमुद्भवम्
येनार्चितो महाभक्त्या स भवेत्कुलपावनः ॥१४॥
कर्कराशि गते सूर्ये मिथुनस्थे विशेषतः
येनार्चितो हरिर्भक्त्या जलमध्ये तु सुंदरि ॥१५॥
द्वादश्यां तु विशेषेण जलस्थ जलशायिनः
येनार्चनं कृतं तेन कोटियज्ञशतं कृतम् ॥१६॥
निक्षिप्य जलपात्रे तु मासे माधवसंज्ञके
माधवं येऽर्चयिष्यंति देवास्ते तु नरा भुवि ॥१७॥
पात्रे गंधोदकं कृत्वा यः क्षिपेद्गरुडध्वजम्
द्वादश्यां पूजयेद्रात्रौ मुक्तिभागी भवेत्तु सः ॥१८॥
अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः
हेतुनिष्ठश्च पंचैते न पूजाफल भागिनः ॥१९॥
तथा महादेवि प्रभुं जलस्थं जगदीश्वरम्
पूजयेद्यो नरो नित्यं महापापैः प्रमुच्यते ॥२०॥
ॐह्री ह्रीं रामाय नमः
इति मंत्रेण देवेशि पूजनं तत्र वै स्मृतम्
ॐ क्लीं कृष्णाय गोविंदाय गोपीजनवल्लभाय नमः
इति मंत्रेण गिरिजे उदकं चाभिमंत्रयेत्
देवदेव महाभाग श्रीवत्सकृत लांछन ॥२१॥
महादेव नमस्तेऽस्तु नमस्ते विश्वभावन
अर्घं गृहाण भो देव मुक्तिं मे देहि सर्वदा ॥२२॥
नानाविधैः सुपुष्पैश्च पूजयेद्गरुडासनम्
सर्वबाधाविनिर्मुक्तो विष्णोः सायुज्यतामियात् ॥२३॥
रात्रौ जागरणं तत्र द्वादश्यां सुसमाहितः
भक्तिपूर्वं भजेद्देवं विष्णुमव्ययमक्षयम् ॥२४॥
एवं वैशाख संबंधी भक्तिभावेन तत्परैः
उत्सवो विष्णुसंज्ञस्तु कर्त्तव्यो भक्तिमिच्छुभिः ॥२५॥
आगमोक्तेन मंत्रेण विधिं तत्र प्रकारयेत्
कृते सति महादेवि कोटियज्ञसमं फलम् ॥२६॥
रागद्वेषविनिर्मुक्तो महामोहनिवर्त्तकः
इहलोके सुखं भुक्त्वा याति विष्णोः सनातनम् ॥२७॥
ब्राह्मणो भक्तिभावेन यः करोत्युत्सवं भुवि
सर्वपापविनिर्मुक्तो वैकुंठं गच्छते ध्रुवम् ॥२८॥
वेदाध्ययनहीनोऽपि शास्त्राध्ययनवर्जितः
हरिभक्तिं तु संप्राप्य लभते वैष्णवं पदम् ॥२९॥
आत्मारामः सदा मुक्तो विजितात्मा भवेत्तु सः
स वै विष्णुपदं याति यावच्चंद्र दिवाकरौ ॥३०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे शयनमहोत्सवोनाम पञ्चाशीतितमोऽध्यायः ॥८५॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP