संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
कच्छपमत्स्यटिट्टिभाख्यायिका

कच्छपमत्स्यटिट्टिभाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इत्युक्तो वृषभस्तस्थौ सिंहापकृतिचिन्तकः ।
तन्मतं तस्य विज्ञाय स्वैरं दमनकोऽब्रवीत् ॥३२६॥
शक्तः सिंहप्रतीकारे न कश्चिदिति चिन्त्यताम् ।
अचिन्तितान्यदर्पस्य लज्जाब्धेरपि टिट्टिभात् ॥३२७॥
आसन्नप्रसवा पूर्वं टिट्टिभं दयितावदत् ।
प्रस्वस्थानमन्यन्मे कल्प्यतां निर्भयं विभो ॥३२८॥
पूर्वस्थितिः समुद्रोर्मिभीषणा मे न रोचते ।
इति तद्वाक्यमाकर्ण्य टिट्टिभः प्राह विस्मितः ॥३२९॥
नैवापकर्तुं शक्तो मे समुन्नद्धोऽपि सागरः ।
भर्तुरित्युद्धतं श्रुत्वा प्रौढा प्रोवाच टिट्टिभी ॥३३०॥
आसन्नाकुशला नूनं न श्रृण्वन्ति हितं वचः ।
श्रूयते मित्रवचनानादरात्कच्छपो हतः ॥३३१॥
ह्म्सद्वयसखः पूर्वं कच्छपः स्थानदोषतः ।
दन्तावष्टब्धकाष्ठाग्रो नीतस्ताभ्यां विहायसा ॥३३२॥
ह्रदान्तराभिगमने तौ हंसौ कूर्ममूचतुः ।
मौनावलम्बिना भाव्यं त्वयैव बहुशः पथि ॥३३३॥
ततः पौरजना दृष्ट्वा विदितं शकटाकृतिम् ।
अहो किमिदमित्यासन्महाकोलाहलाकुलाः ॥३३४॥
किमेतदिति कूर्मोऽपि प्राह विस्मृततद्वचः ।
दारुस्खलितदन्तत्वात्पतितो निहतो जनैः ॥३३५॥
अनागतभयाभिज्ञो वियत्प्राप्तौ च बुद्धिमान् ।
द्वावेतौ संपदां पात्रं विपदां दैववादिनः ॥३३६॥
अनागतविधिश्चैव प्रत्युत्पन्नमति स्तथा ।
यद्भविश्यश्च मत्स्याः प्राक्षुश्रुवुर्धैवरीं गिरम् ॥३३७॥
जालः क्षिपामः प्रत्यूषे ह्र्देऽस्मिन्निति तद्भयात् ।
अनागतविधिः प्रायात्त्यक्त्वान्यौ गन्तुमर्थितौ ॥३३८॥
ततः प्रभाते जालौघकृष्टे मत्स्यकदम्बके ।
प्रत्युत्पन्नमतिश्चक्रे कृतकं मृतवद्वपुः ॥३३९॥
निःशङ्कैर्धीवरैर्न्यस्तः स शनैः प्रययौ जलम् ।
यद्भविष्यस्तु लगुडैर्जर्जराङ्गो व्यपद्यत ॥३४०॥
इत्युक्त्वा टिट्टीभी भर्तुर्वाक्यात्तत्रैव शावकान् ।
असूत तांस्तरङ्गौर्घैर्जहार च सरित्पतिः ॥३४१॥
गृहिणीभत्सितश्चक्रे दुःखितः पक्षिसंगम म् ।
टिट्टिभं तन्महानादं गरुत्मानश्रृणोत्ततः ॥३४२॥
तत्प्रेरितेन हरिणा निरस्तो मकराकरः ।
लज्जाविकुण्ठवदनष्टिट्टिभ्यै शावकान्ददौ ॥३४३॥
इति कच्छपमत्स्यटिट्टिभाख्यायिका ॥१५॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP