TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
सुमानसाख्यायिका

सुमानसाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


सुमानसाख्यायिका
ततः प्रातः समुत्थाय राजपुत्रः सुःऋद्वृतः ।
कृताह्निको वरोद्यानं प्रययौ फुल्लपादपम् ॥१६९॥
तत्र मत्तालिमालाङ्ककुमुदस्मेरविभ्रमे ।
अवतीर्णां दिवः कान्तां ददर्श वरकन्यकाम् ॥१७०॥
कन्याशतैरनुगतां सतारामिव रोहिणीम् ।
नवलावण्यपीयूषप्लाविताखिलदिङ्मुखाम् ।
मुग्धाश्चकोरवनिता यत्कान्तिनिवहं ययुः ॥१७१॥
तां वीक्ष्य कार्तिकीचन्द्रवदनां मदनावनिम् ।
विस्मितो राजतनयो हर्शोत्कर्षोक्तमप्यभूत् ॥१७२॥
नेत्रपेयं वपुस्तस्याः पश्यन्ननिमिषेक्षणः ।
पप्रच्छ मन्मथाक्रान्तस्तां नामाभिजनश्रियम् ॥१७३॥
तेन कामाभिरामेण रामा हृदयहारिणी ।
सा पृष्टा प्राह सोत्कम्पकुचविन्यस्तलोचना ॥१७४॥
शिखरे काञ्चनाशैले तुषारधरणीभृत ः ।
स्फटिकाह्वयशाः श्रीमानस्ति विद्याधरेश्वरः ॥१७५॥
( तस्य शक्तियशा नाम सुताहं पार्वतीवरात् ।
जाता हेमप्रभाख्यायां देव्यां देवाधिपप्रिया ॥१७६॥
कालेन मम शर्वाण्या सदाराधनतुष्टया ।
यौवनश्रियमालोक्य वितीर्णः प्रवरो वरः ॥१७७॥
वत्सभूपालतनयो भाविविद्याधरेश्वरः ) ।
नरवाहनदत्तस्ते भविष्यत्यचिराप्त्पतिः ॥१७८॥
इति देव्या समादिष्टा प्रहृष्टा पितुराज्ञया ।
विद्याभिस्तद्वराप्ताभिस्त्वामहं द्रष्तुमागता ॥१७९॥
व्रजामि तावदचिरात्संगमो नौ भविष्यति ।
इत्युक्त्वा सानुगा व्योम्ना प्रययौ मञ्जुभाषिणी ॥१८०॥
स्वप्नदृष्टमिवाशेषं मन्यमानस्तदद्भुतम् ।
नरवाहनदत्तोऽभूच्चिन्तालोचननिश्चलः ॥१८१॥
स शनैर्विरहाक्रान्तः स्मरसंतापनिःसहः ।
विनोदिनीं कथां कांचित्कथयेत्याह गोमुखम् ॥१८२॥
स प्राह काञ्चनपुरीपतिरासीत्सुमानसः ।
राजा विराजमानानां श्रेयसां यशसां निधिः ॥१८३॥
( तं कदाचित्सभास्थानस्थितं शबरकन्यका ।
कान्ता मुक्तालता नाम प्रतीहारेण सूचिता ॥१८४॥
पञ्जरस्थं समादाय शुक्रं मरकतच्छविम् ।
अन्तः प्रविष्टा प्रोवाच प्रणम्य जगतीपतिम् ॥१८५॥
शुकोऽ‍यं देव योग्यो मे विज्ञानमधुरध्वनिः ) ।
इत्युक्त्वा भूमिपालस्य पञ्जरं निदधे पुरः ॥१८६॥
ततः कृताह्निको राजा शुकमाहूय तं रहः ।
पप्रच्छ सर्वशास्त्रज्ञं विज्ञानावाप्तिकारणम् ॥१८७॥
राज्ञा स पृष्टः प्रोवाच श्रूयतामद्भुतं विभो ।
( अस्ति हेमवती नाम संसारविपुलाटवी ॥१८८॥
तत्र रोहीतकतरौ शुक्ललक्षसमाश्रये ) ।
जनितोऽहं प्रवयसा शुकेनात्यन्तपेशलः ॥१८९॥
दैवान्मां जननीहीनमवर्धयत वत्सलः ।
मत्पिता बन्धुहीनेषु याति स्नेहो ह्यनल्पताम् ॥१९०॥
कदाचिन्मृगयासक्तैर्वने तस्मिन्विलोडिते ।
हतेभक्रोडहरिणैः पुलिन्दैः पिशिताशिभिः ॥१९१॥
जरन्निशादेनैकेन तमारुह्य महीरुह्यम् ।
ग्रीवामोटननिर्जीवा नीतास्तेनाखिलाः शुकाः ॥१९२॥
ततः स्वकर्मणः शेषात्पतितः पर्णसंचये ।
स्नातुं प्रपतेन नीतोऽहं मुनिना करुणाब्धिना ॥१९३॥
मारीचनाम्ना तेनाहं स्थापितः कृपयाश्रमे ।
दृष्टः पुलस्त्यमुनिना सहासं दिव्यचक्षुषा ॥१९४॥
आत्मनो दुर्नयस्येदं भुङ्के फलमयं शुकः ।
इति ब्रुवाणं पप्रच्छुः पुलस्त्यं मत्कथां द्विजाः ॥१९५॥
सोऽभ्यदभवच्छ्रीमान्त्रत्नाकरपुरे नृपः ।
ज्योतिःप्रभाख्यो भूपालमौलिलालितशासनः ॥१९६॥
सोमप्रभोऽभवत्तस्य चन्द्रांशः स्वप्नसूचितः ।
पुत्रः कान्तिनिधिर्लोकलोचनानन्दनिर्झरः ॥१९७॥
यौवराज्ये धृतः पित्रा सोऽथ दिग्विजयोद्यतः ।
निर्ययौ विपुलानीकैररातिविभवाशनिः ॥१९८॥
सह प्रियकराख्येन मन्त्रिपुत्रेण धीमता ।
विजित्य पृथिवीं सर्वां विपुलं प्राप काननम् ॥१९९॥
कान्तां वनश्रियं तत्र लीलयैव विलोकयन् ।
ददर्श किन्नरं दिव्यरत्नाम्बरविभूषितम् ॥२००॥
तं कौतुकादनुसरन्स्फटिकस्वच्छविग्रहम् ।
ततः पवनवेगेन तुरगेण धुतांशुकः ॥२०१॥  
अमानुषीं भुवं प्राप्य विश्रम्य सरसि क्षणात् ।
कैलासशिखराकारमपश्यत्त्र्यम्बकालयम् ॥२०२॥
तत्रोपवेणयन्तीं च दिव्यकन्यां विलोक्य सः ।
पप्रच्छाकालतपसः कारणं यौवनावनीम् ॥२०३॥
सा प्राह हिमशैलेन्द्रशिखरे काञ्चनाह्वये ।
पद्मकूटाभिधानोऽस्ति श्रीमान्विद्याधराधिपः ॥२०४॥
मनोरथप्रभा नाम सुताहं स्नेहशालिनः ।
तस्य रत्नप्रभाख्यायां पत्न्यां जाता यशस्विनः ॥२०५॥
कालेन यौवनवती कदाचित्स्नातुमागता ।
सरस्तत्र स्मराकारमपश्यं मुनिपुत्रकम् ॥२०६॥
ततोऽहं तं विलोक्यैव पुष्पायुधवशीकृता ।
अभवं कम्पकलिकालतेव पवनाकुला ॥२०७॥
अथ तत्सचिवः पृष्टो मत्सख्या पद्मलेखया ।
उवाच बुद्धदत्ताख्यस्तज्जन्मक्रमशः कथाम् ॥२०८॥
अस्ति दीधितिमान्नाम मुनीन्द्रो विजितेन्द्रियः ।
तं सरः स्नातुमायान्तं सरोलक्ष्मीर्व्यलोकयत् ॥२०९॥
तं दृष्ट्वैव सकामायां मानसस्तनयः क्षणात् ।
जातोऽयं रश्मिमान्नाम तस्यां साक्षादिव स्मरः ॥२१०॥
इति तद्वचनं श्रुत्वा सखी नाम कुलं च मे ।
तस्मै न्यवेदयज्ज्ञात्वा स्मरसंयोगमावयोः ॥२११॥
ततोऽहं पितुरादेशादाहूता शशिलेखया ।
मुषितेवायतध्याना सशल्येवाहितव्यथा ।
भूतग्रस्तेव सोन्मादा ततोऽहमभवं क्षणात् ॥२१२॥
मां विना मुनिपुत्रोऽपि स मनोभवतापितः ।
बभूव बालनलिनीवलयालंकृतस्थितिः ॥२१३॥
( ततः सखीं विसृज्यासौ ताम्यन्मानसमायया ।
आनीतो निजमुद्यानं निशीथे संगमाशया ॥२१४॥
अत्र फुल्ललताजालगुञ्जन्मधुकराकुले ।
प्रौढचन्द्रकरस्मेरः स्मृत्वा मां जीवितं जहौ ॥२१५॥
ततोऽहं तूर्णमायाता तमपश्यं तथागतम् ।
रूपद्वेषादिवाभ्येत्य हतं मकरकेतुना ॥२१६॥
हा प्रियेति विलप्याहं यावन्न पतिता भुवि ।
अवतीर्य दिवस्तावदनैषीत्कोऽपि तत्तनुः ॥२१७॥
ततः प्रवेष्टुकामां मामनले शोकसंस्थिताम् ।
प्राप्स्यसीमं पुनरपि प्राह मां कोऽपि खेचरः ॥२१८॥
तदाशालम्बनधृतिस्ततः शीतांशुशेखरम् ।
इति स्थिताहं वरदं ध्यायन्ती पार्वतीपतिम् ॥२१९॥
इति सोमप्रभः श्रुत्वा तत्र विद्याधरीवचः ।
तां प्राह विस्मितः क्कासौ पद्मलेखा सखी तव ॥२२०॥
इति सा राजपुत्रेण पृष्टा प्रोवाच सुन्दरी ।
सिंहविक्रमनामास्ति श्रीमान्विद्याधराधिपः ॥२२१॥
अस्ति तस्येन्दुवदना तनया मकरन्दिका ।
दग्धोऽपि हरकोपेन यत्कान्त्या जीवितः स्मरः ॥२२२॥
अपांशुलेखनात्सा मे सखी प्राणा बहिश्चराः ।
तया मद्दुःखमाकर्ण्य विवाहे नियमः कृतः ॥२२३॥
तां बोधयितुमद्यैव पद्मलेखा सखी मया ।
विसृष्टा तत्पितुर्वाक्यात्सुतानियमदुःखितः ॥२२४॥
इत्युक्त्ववत्यां विद्याभृत्कन्यकायां समाययौ ।
तस्मिनेन्व क्षणे क्षिप्रं तद्विसृष्टैव सा सखी ॥२२५॥
विद्याधरेणानुगता पद्मलेखा समेत्य ताम् ।
उवाच सखि नोद्वाहं मन्यते मकरन्दिका ॥२२६॥
अयं देवजयो नाम विद्याधरकुमारकः ।
तया विसृष्टस्त्वां वक्तुमिहैवागम्यतामिति ॥२२७॥
ततो देवजयेनापि तदेवोक्ता व्यचिन्तयत् ।
मनोरथप्रभा किंचिध्द्यानस्तिमितलोचना ॥२२८॥
सख्या परिणयेनैवं मद्दुःखान्नियमः कृतः ।
रूपवान्राजपुत्रोऽयं तस्याः समुचितः पतिः ॥२२९॥
गृहीत्वैनं प्रयाम्येव तदन्तिकमहं यतः ।
एतन्मुखेन्दुमालोक्य सा प्रतिज्ञां विमोक्ष्यति ॥२३०॥
मत्वेति राजपुत्रेण सह देवजयेन सा ।
मनोरथप्रभा प्रायात्पद्मलेखानुगा सखीम् ॥२३१॥
अन्तःपुरे तामासाद्य ततः सा मकरन्दिकाम् ।
( परिष्वज्य मिथो भेजे सा मुग्धा स्फटिकासनम् ॥२३२॥
सोमप्रभं विलोक्यैव सुन्दरं मकरन्दिका ) ।
बभूवानन्दनिष्यन्दमकरीकृतमानसा ॥२३३॥
राजपुत्रोऽपि तां वीक्ष्य हरिणायतलोचनाम् ।
लक्ष्यतां पञ्चबाणस्य प्रययौ विस्मयाकुलः ॥२३४॥
तयो परस्परस्मेरस्मरसंरम्भनिर्भरः ।
यूनोरभून्महत्स्वेदप्रकम्पपुलकोत्सवः ॥२३५॥
अत्रान्तरे राजसूनोर्मन्त्रिपुत्रः प्रियंकरः ।
तुरङ्गखुरमुद्राङ्कां शनकैः प्राप पद्धतिम् ॥२३६॥
अस्मिन्नेवान्तरे शीघ्रसंचारो लेखहारकः ।
ज्योतिःप्रभस्य संदेशाद्राजपुत्रं समाययौ ॥२३७॥
तूर्णमेहीति स पितुः श्रुत्वाज्ञां मन्त्रिसूनुना ।
संगतो दयितामेव ध्यायन्मूढ इवाभवत् ॥२३८॥
अचिरात्त्वां समेष्यामीत्येवं हि कृतसंविदम् ।
विद्याधरेन्द्रसुतया सानुगः स्वपुरं ययौ ॥२३९॥
ततः सा विग्रहोन्मत्ता शनकैर्मकरन्दिका ।
निजकर्मविपाकाच्च तत्पिताप्यभवच्छुकः ॥२४०॥
सोऽयमेव शुकस्तस्याः पिता विद्याधरेश्वरः ।
पुलस्त्येनेति भवतो श्रुत्वाहं जातिमस्मरम् ॥२४१॥
असौ निषादी मत्पुत्री दत्ता तुभ्यमियं तया ।
सोमप्रभो राजपुत्रः शिवादिष्टः समेष्यति ॥२४२॥
अथैनां निजरूपं तदास्थितां मकरन्दिकाम् ।
मनोरथप्रभापि त्वामद्यैव समुपैष्यति ।
सरोजिन्या मुनिवरस्त्वं हि लक्ष्मीसुतः प्रभो ॥२४३॥
इत्युक्त्वा स शुकः प्राप निजं वैद्याधरं वपुः ।
जातिस्मरो विधायैव तं राजानं सुमानसम् ॥२४४॥
अत्रान्तरे समाक्रान्तश्चिन्तयन्मकरन्दिकाम् ।
आदिष्टः शंभुना स्वप्ने तद्वृत्तान्तं निवेद्य तम् ॥२४५॥
तेनैवासौ समभ्यायाद्देशं सोमप्रभोऽथ तम् ।
मुक्तां निशादभावात्तामवाप्य मकरन्दिकाम् ॥२४६॥
मनोरथप्रभा ज्ञात्वा विद्यया तद्विचेष्टितम् ।
समेत्यभेजे राजानं तं यातं मुनिपुत्रताम् ॥२४७॥
ततो मिथो न््दुस्ते गत्वा तुहिनभूधरम् ।
इत्येव खेचरासङ्गो नृणां भवति कर्मतः ॥२४८॥
त्वं च तां शक्तियशसं विद्याधरनृपात्मजाम् ।
अचिरात्प्राप्स्यसि विभो गौर्यादिष्टं न संशयः ॥२४९॥
एवमुत्तमसत्त्वानां गाढं प्रणयरागिणाम् ।
कुलाचारोपपन्नानां भवत्येव समागमः ॥२५०॥
स तामसमनारीभिः कुलाचारविपर्ययात् ।
संगमप्रान्तविरसः शीलध्वंसादिदुर्णयैः ॥२५१॥
इति सुमानसाख्यायिका ॥८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-29T20:52:16.4770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कुस्तुमसांव

  • ( गो .) थंडी . ( पो .) 
RANDOM WORD

Did you know?

"Maruti namaskar"
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.