संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
रथकाराख्यायिका

रथकाराख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अरिमर्दं तदाकर्ण्य काकानुक्रोशमालिनी ।
तद्वचोविरतौ प्राहुरपरे घूकमन्त्रिणः ॥४८९॥
अहो कुमन्त्रिणानेन संशये स्वामिनो धृताः ।
लक्ष्मी शत्रुप्रयुक्तेऽस्मिन्काके कारुण्यचेतसा ॥४९०॥
वञ्च्यते धूर्तवचनैः प्रभवः सरलाशयाः ।
जायां सजारां शिरसा रथकारः पुरावहत् ॥४९१॥
कृत्वा प्रयोजनमिषं निर्गत्य शिबिराल्लघु ।
भार्यां जारवतीं द्रष्टुं विवेश रथकृत्पुनः ॥४९२॥
गूढे शयनपर्यङ्कतले तस्मिन्नधःस्थिते ।
प्रियोपपतिना चक्रे सुरतं तेन तद्वधूः ॥४९३॥
सा ज्ञात्वा पादसंस्पर्शान्निजं पतिमलक्षितम् ।
उवाच धर्मपत्न्या मे तत्परो नास्ति वल्लभः ॥४९४॥
तज्ज्ञात्वा मूधहृदयो रथकारो मुदान्वितः ।
उवाह शिरसा भार्यां सजारां हासयन्पथि ॥४९५॥
इति रथकाराख्यायिका ॥२९॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP