TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
जम्बुकाख्यायिका

जम्बुकाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


जम्बुकाख्यायिका
मिहिलारोप्यनगरे पुरासीद्वायसाधिपः ।
शाल्मलिस्कन्धवसतिर्लघुपातीति विश्रुतः ॥३९२॥
स कदाचिद्ददर्शाग्रे कपोतेशं सहानुगम् ।
चित्रग्रीवाभिधं जाले पतितं पाशजीविनाम् ॥३९३॥
जालं हरन्तमालोक्य कौतुकात्तं विहायसा ।
वायसोऽनुययौ द्रष्टुं तस्य बुद्धिचिकीर्षितम् ॥३९४॥
चित्रग्रीवोऽपि संप्राप्य सुहृदं वृद्धमूषकम् ।
हिरण्याख्यं महापाशच्छेदने तमनोदयत् ॥३९५॥
छिन्नपाशं हिरण्येन ततस्तं वीक्ष्य वायसः ।
सख्यं यत्नेन विदधे तेन विस्रब्धामाखुना ॥३९६॥
प्ररूढतां ययौ प्रेम प्रीतिभुक्तिपुरःसरम् ।
याति काले रहः काकः कदाचिन्मित्रमब्रवीत् ॥३९७॥
वृत्तियुक्तमपि स्नानमिदं मम न रोचते ।
सखे जातरतिर्देहे पुष्टिर्हि प्रथमा रतिः ॥३९८॥
तदेहि मन्थरो नाम मित्रं मे कच्छपाभिधः ।
जाह्नव्यामस्ति गच्छामो विहाराय तदन्तिकम् ॥३९९॥
( ...........................................कच्छपम् ।
कुशलानामयं पृष्ठा चक्रतुर्विविधाः कथाः ) ॥४००॥
अपापः खिन्नः प्राप्तोऽयमित्युक्तो वायसेन सः ।
पृष्टो हिरण्यः प्रोवाच निजागमनकारणम् ॥४०१॥
परिवाड्‍ गूढकर्णोऽस्ति प्रख्यातो नगरान्तिके ।
तदाश्रमेऽहं सततं पूर्णं वृत्तिमकल्पयम् ॥४०२॥
नागदन्ताग्रसंसक्तभिक्षाभोजनसंस्थितेः ।
............नारदपरिष्कारं स्निग्धाव(न्न)मृदुभोजनैः ॥४०३॥
याति काले ततस्तस्य परिव्राडाययौ परः ।
स भुक्त्वा निशि विश्रब्धं प्रोवाच विविधाः कथाः ॥४०४॥
गूढकर्णस्तु मामेव चिन्तयञ्जर्जरं मुहुः ।
अवादयत्कथाविघ्ने बृहत्स्फिक्कुपितोऽब्रवीत् ॥४०५॥
अहो विद्यावयोवृद्धो निःसङ्गोऽपि भवान्सखा ।
कथाखनादरो दर्पान्मदान्ध इव लक्ष्यते ॥४०६॥
तच्छ्रुत्वा लज्जितः किंचिद्रूढकर्णोऽप्यभाषत ।
न दपादन्यचित्तोऽहं श्रूयतामत्र कारणम् ॥४०७॥
सततं मूषकः पापो बहिक्ष्यपात्रादलक्षितः ।
समश्नाति भिया तस्य जर्जरं वादयाम्यहम् ॥४०८॥
बृहत्स्फिग्गूढकर्णस्य श्रुत्वेति प्राह सस्मितः ।
यत्तवावहितस्यापि भक्षयत्येष भोजनम् ॥४०९॥
अवश्यं कारणेनात्र भवितव्यं तपोधन ।
करोति शाण्डिलीमाता नाकस्मात्तिलविक्रयम् ॥४१०॥
पुरापश्यमहं पान्थः स्थितो ब्राह्मणवेश्मनि ।
ब्राह्मणी कुपिता पत्युः सर्वान्नव्ययकारणात् ॥४११॥
लुब्धामवोचतां भर्ता भद्रे नाशोऽतिसंचये ।
संचयेनातिलुब्धो हि निहतो जम्बुकः पुरा ॥४१२॥
अरण्ये प्राप गोमायुः परस्परहतान्पुरा ।
लुब्धकक्रोडहरिणान्यत्रारूढं च कार्मुकम् ॥४१३॥
अयत्नोपनतं प्राप हर्षपूर्णोऽथ जम्बुकः ।
तान्संचयं विधायैव कार्मुकं भोक्तुमुद्यतः ॥४१४॥
चापचर्वणसक्तस्य तस्य यन्त्रेषुणा दृढम् ।
दारितस्य ययुः प्राणास्तस्मान्नाशोऽतिसंचयः ॥४१५॥
पत्युः श्रुत्वेति वचनं पर्वयागानुकारिणी ।
स्नानाय तं विसृज्याशु पाकसक्ताभवत्क्षणात् ॥४१६॥
तत्तिलान्कृशराहेतोः शिष्येण स्थापितान्पुरः ।
अभ्येत्य श्वा क्रियायोग्यांश्चक्रे चिह्वावलेहनैः ॥४१७॥
तिलानां विक्रयं कर्तुमुद्यतामपरैस्तिलैः ।
दृष्ट्वा परो गॄहस्वामी विचिन्त्य क्षणमब्रवीत् ॥४१८॥
करोति ब्राह्मणवधूर्नाकस्मात्तिलविक्रयम् ।
तस्मादाखुस्तथैवैष न शक्तः कारणं विना ॥४१९॥
इति जम्बुकाख्यायिका ॥२१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-29T21:01:09.1670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

निपालवाचा

  • वि. ( राजा . ) मागच्या पालवीचा ; अखेरच्या वाढीचा ; शेवटल्या बाराचा ( भोपळा , वांगे इ० भाजीपाला ). वांग्यास पाणी न मिळता निपालवाची वांगी लागू लागली . [ नि + पालव ] 
RANDOM WORD

Did you know?

हिंदू धर्मात ३३ कोटी देवता आहेत काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site