संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
सुभाषितपद्धतिः

श्रीपादुकासहस्रम् - सुभाषितपद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


कलासु काष्ठामातिष्ठन् भृम्ने सम्बन्धिनामपि ।
पादुका रङ्गधुर्यस्य भरताराध्यतां गता ॥८२१॥
सन्तः स्वदेशपरदेशविभागशून्यं
हन्त स्ववृत्तिमनघां न परित्यजन्ति ।
राज्ये वने च रघुपुङ्गवपादरक्षा
नैजं जहौ न खलु कण्टकशोधनं तत् ॥८२२॥
ब्रह्मास्त्रतामधिजगाम तृणं प्रयुक्तं
पृथ्वीं शशास परिमुक्तपदं पदत्रं ।
किं वा न किं भवति केलिविधौ विभूनाम्
पुण्य शरव्यमभवत्पयसां निधिर्वा ॥८२३॥
अन्येषु सत्स्वपि नरेन्द्रसुतेशु दैवाद्
भ्रष्टः पदादधिकरोति पदं पदार्हः ।
प्रायो निदर्शयति तत्प्रथमो रघूणां
तत्पादयोः प्रतिनिधी मणिपादुके वा ॥८२४॥
चरणमनघवृत्तेः कस्यचित्प्राप्य नित्यं
सकलभुवनगुप्त्यै सत्पथे वर्तते यः ।
नरपतिबहुमानं पादुकेवाधिगच्छन्
स भवति समयेषु प्रेक्षितज्ञैरुपास्यः ॥८२५॥
रामे राज्यं पितुरभिमतं सम्मतं च प्रजानां
माता वव्रे तदहि भरते सत्यवादी ददौ च ।
चिन्तातीतः समजनि तदा पादुकाग्र्याभिषेको
दुर्व्ज्ञानस्वहृदयमहो दैवमत्र प्रमाणम् ॥८२६॥
नातिक्रामेच्चरणवहनात्पादुका पादपीठं
यद्वाऽऽसन्नं परमिह सदा भाति राजासनस्य ।
पूर्वत्रैव प्रणिहितमभूद्धन्त रामेण राज्यं
शङ्के भर्तुर्बहुमतिपदं विक्रमे साहचर्यम् ॥८२७॥
प्रतिपदचपलाऽपि पादुका रघुपतिना स्वपदे निवेशिता ।
समजनि निभृतस्थितिस्तदा भवति गुणः श्रियमभ्युपेयुषाम् ॥८२८॥
गतिहेतुरभूत् क्कचित्पदे स्थितिहेतुर्मणिपादुका क्कचित् ।
न हि वस्तुशुशक्तिनिश्चयोनियतिः केवलमीश्वरेच्छया ॥८२९॥
अधरीकृतोऽपि महता तमेव सेवेत सादरं भूष्णुः ।
अलभत समये रामात् पादाक्रान्ताऽपि पादुका राज्यम् ॥८३०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ सुभाषितपद्धतिरष्टाविंशी ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP