संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
वैतालिकपद्धतिः

श्रीपादुकासहस्रम् - वैतालिकपद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


नमस्ते पादुके पुंसां संसारार्णवसेतवे ।
यदारोहस्य वेदान्ता वन्दिवैतालिकाः स्वयम् ॥२४१॥
उचितमुपचरिष्यन् रङ्गनाथ प्रभाते
विधिंशिवसनकाद्यान् बाह्यकक्ष्यानिरुद्धान् ।
चरणकमलसेवासौख्यसाम्राज्यभाजां
प्रथमविहितभागां पादुकामाद्रियेथाः ॥२४२॥
पद्माजुष्टं भजतु चरणं पादुका लब्धवारा
प्रत्यासन्नास्तव परिजनाः प्रातरास्थानयोग्याः ।
अर्धोन्मेषादधिकसुभगामर्धनिद्रानुषङ्गां
नाभीपद्मे तव नयनयोर्नाथ पश्यन्तु शोभाम् ॥२४३॥
उपनमति मुहूर्तं शेषसिद्धान्तसिद्धं
तदिह चरणरक्षा रङ्गनाथ त्वयैषा ।
मृदुपदमधिरूढा मञ्जुभिः शिञ्जितैः स्वै -
रुपदिशतु जनानामुत्सवारम्भवार्ताम् ॥२४४॥
रङ्गाधीश मरुद्गणस्य मकुटादाम्नायबृन्दस्य वा
प्रत्यानीय समर्पिता विधिमुखैर्वारक्रमादागतैः ।
वाहारोहणसम्भृतं श्रमभरं सम्यग्विनेतुं क्षमा
लीलासञ्चरणप्रिया स्पृशतु ते पादाम्बुजं पादुका ॥२४५॥
वृत्तं क्रमेण बहुधा नियुतं विधीना -
मर्धं द्वितीयमिदमङ्कुरितं तवाह्नः ।
नीलासखीभिरुपनीय निवेश्यमाना
मङ्क्तुं प्रभो त्वरयते मणिपादुका त्वाम् ॥२४६॥
दिव्याप्सरोभिरुपदर्शितदीपवर्गे
रङ्गाधिराज सुभगे रजनीमुखेऽस्मिन् ।
संरक्षिणी चरणयोः सविलासवृत्ति -
नींराजनासनमसौ नयतु स्वयं त्वाम् ॥२४७॥
आसनादुचितमासनान्तरं रङ्गनाथ यदि गन्तुमीहसे ।
सन्नतेन विधिना समर्पितां सप्रसादमधिरोह पादुकाम् ॥२४८॥
परिजनवनिताभिः प्रेषितः प्राञ्जलिस्त्वां
प्रणमति मदनोऽयं देव शुद्धान्तदासः ।
फणिपतिशयनीयं प्रापयित्री सलीलं
पदकमलमियं ते पादुका पर्युपास्ताम् ॥२४९॥
इति निगमवन्दिवचसा समये समये गृहीतसङ्केतः ।
अभिसरति रङ्गनाथः प्रतिपदभोगाय पादुके भवतीम् ॥२५०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ वैतालिकपद्धतिर्नवमी ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP