संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
सन्निवेशपद्धतिः

श्रीपादुकासहस्रम् - सन्निवेशपद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


अणोरणीयसीं विष्णोर्महतोऽपि महीयसीम् ।
प्रपद्ये पादुकां नित्यं तत्पदेनैव सम्मिताम् ॥७८१॥
प्रतितिष्ठति पादसस्मितायां
त्वयि नित्यं मणिपादुके मुकुन्दः ।
इतरे तु परिच्छदास्त एते
विभवव्यञ्जनहेतवो भवन्ति ॥७८२॥
तव रङ्गनरेन्द्रपादरक्षे प्रकृतिः सन्नपि भक्तिपारतन्त्र्यात् ।
भवतीं वहतीव पन्नगेन्द्रः प्रथितस्वस्तिकलक्षणैः शिरोभिः ॥७८३॥
परस्य पुंसः पदसन्निवेशान् प्रयुञ्जते भावितपञ्चरात्राः ।
अघप्रतीपानपदिश्य पुण्ट्रानङ्गेषु रङ्गेशयपादुके त्वाम् ॥७८४॥
विमृश्य रङ्गेन्द्रपतिंवरायाः श्रुतेः स्थितां मूर्धनि पादुके त्वाम् ।
बन्धन्ति वृद्धाः समये वधूनां त्वन्मुद्रितान्याभरणानि मौलौ ॥७८५॥
वहन्ति रङ्गेश्वरपादरक्षे दीर्घायुशां दर्शितभक्तिबन्धाः ।
आशाधिपानामवरोधनार्यस्त्वन्मुद्रिकां मङ्गलहेमसूत्रैः ॥७८६॥
व्यूहक्रमेण प्रथितारमग्रे
दन्दर्शयन्तीं मणिपादुके त्वाम् ।
पातुं त्रिलोकीं पदपद्मभाजं
सौदर्शनीं शक्तिमवैमि शौरेः ॥७८७॥
बद्धासिका कनकपङ्कजकर्णिकायां
मध्ये कृशा मुररिपोर्मणिपादुके त्वम् ।
सन्दृश्यसे सरसिजासनया गृहीमं
रूपान्तरं किमपि रङ्गविहारयोग्यम् ॥७८८॥
मानोचितस्य मदधीनजनस्य नित्यं
मा भूदतः कृपणतेति विचिन्तयन्त्या ।
बन्दीकृतं ध्रुवमवैमि वलग्नदेशे
कार्श्यं त्वया कमललोचनपादरक्षे ॥७८९॥
मध्ये कृशामुभयतः प्रतिपन्नवृद्धिं
मन्ये समीक्ष्य भवतीं मणिपादरक्षे ।
नित्यं मुकुन्दपदसङ्गमविप्रयोगौ
निश्चिन्वते कृतधियः सुखदुःखकाष्ठाम् ॥७९०॥
रङ्गेशितुश्चरणपङ्कजयोर्भजन्ती
रक्षाप्रसाधनविकल्पसहामवस्थाम् ।
मान्याकृतिर्निविंशसे मणिपादरक्षे
मध्ये परिच्छदविभूषणवर्गयोत्स्वम् ॥७९१॥
अङ्गान्तरेषु निहितान्यखिलानि कामं ।
पर्यायकल्पनसहानि विभूषणानि ।
नित्यं मुकुन्दपदपद्मतलानुरूपं
नैपथ्यमम्ब भवती नयनाभिरामम् ॥७९२॥
ये नाम भक्तिनियितैस्तव सन्निवेशं
निर्विश्य नेत्रयुगलैर्न भजन्ति तृप्तिम् ।
कालक्रमेण कमलेक्षणपादरक्षे
प्रायेण ते परिणमन्ति सहस्रनेत्राः ॥७९३॥
पदमप्रमाणमिति वादिनां मतं
मधुजित्पदे महति मास्म भूदिति ।
व्युदपादि तस्य चरणावनि त्वया
निगमात्मनस्तव समप्रमाणता ॥७९४॥
अप्रभूतमभवज्जगत्त्रयं यस्य मातुमुदितस्य पादुके ।
अप्रमेयममितस्य तत्पदं नित्यमेव ननु सम्मितं त्वया ॥७९५॥
आलवालमिव भाति पादुके पादपस्य भवती मधुद्विषः ।
यत्समीपविनतस्य शूलिनः सारणी भवति मौलिनिम्नगा ॥७९६॥
मोदमानमुनिबृन्दषटूपदा
भाति मुक्तिमकरन्दवर्षिणी ।
काऽपि रङ्गनृपतेः पदाम्बुजे
कर्णिका कनकपादुकामयी ॥७९७॥
युगपदनुविधास्यन् यौवतं तुल्यरागं
यदुपतिरधिचक्रे यावतो रूपभेदान् ।
तदिदमतिविकल्पं बिभ्रती सन्निवेशं
तव खलु पदरक्षे तावती मूर्तिरासीत् ॥७९८॥
तत्तद्वृत्तेरनुगुणतया वामनीं व्यापिनीं वा
प्राप्ते रङ्गप्रथितविभवे भूमिकां सूत्रधारे ।
मन्ये विश्वस्थितिमयमहानाटिकां नेतुकामा
नानासंस्था भवति भवती पादुके नर्तकीव ॥७९९॥
माने परं सामने प्रत्यक्षेणागमेनापि ।
हरिचरणस्य तवापि तु वैषम्यं रक्ष्यरक्षकत्वाभ्याम् ॥८००॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ सन्निवेश पद्धतिः पञ्चविंशी ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP